Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गार्चनपद्धतिः । कतमियमः परदिने कृतनानादिः गोमयोपलिप्तदेशे दर्भपाणिराचान्त उदङ्मुख उपविष्टः ओं स्वस्ति न इत्यादिना ब्राह्मणान् स्वस्ति वाचयित्वा ओं सूर्यः सोम इति पठित्वा ओं तदविष्णो रित्यादिना विष्णु स्मृत्वा ओं तत्सदित्युच्चार्य ताम्रपान शक्ति-शख-पाषाण केवल हस्त कांस्यं रूप्य सौसक लौह मृण्मयेतरपावं वा दर्भत्रय पुष्प फल-तिल-जलपूर्ण यथोपपन्न वा आदाय ओम् अद्य आखिने मासि कृष्ण पक्षे नवम्यान्तिथावारभ्य शुक्ल दशमी यावत् प्रत्यहम् अमुकगोत्रः श्री अमुकदेवशर्मा अतुलविभूतिकाम: संवत्सर सुख प्राप्तिकामो दुर्गाप्रौतिकामो वा वार्षिक शरत्कालीन दुर्गा महापूजामहं करिष्थे। इति संकल्पा तज्जलमैशान्यां क्षिपेत्। ततो देवी व इति पठेत्। यद्यन्यद्वारा पूजां करोति तदा तं वरयेत् । यथा यजमान: प्रामु खः उदन खं ब्राह्मणम् ओं साधु भवा. नास्ताम् इति वदेत् । औं साध्वहमासे इति प्रतिवचनम्। प्रोम अर्चयिष्यामो भवन्तम् इति वदेत्। प्रोम् अर्चय इति प्रति. वचनम्। ततो गन्ध पुष्पवस्वाङ्गरीयकादिना अर्चयित्वा दक्षिणं जानु स्पृष्ट्वा पोम् अद्येत्यादि वार्षिक-शरत्कालीनदुर्गा महापूजाकरणाय अमुकगोत्रममुकदेवशर्माणं भवन्त ब्राह्मणमहं वृणे इति वदेत् । ओं वृतोऽस्मोति प्रतिवचनम् । यथाविहितं कर्म कुरु इति वदेत्। ओं यथाज्ञानं करवापोति प्रतिवचनम् । यदि तहिने एकदा संकल्पा शक्लनवमी. पर्यन्तं देवीमाहात्मा पठति तदा पूर्ववज्जलमादाय अद्ये. त्यादि नवम्यान्तिथावारभ्य शलनवमीपर्यन्तं प्रत्यहं वार्षिकशरकालीन दुर्गा-महापूजायाम् अमुकगोत्र: श्री अमुकदेवशर्मा सर्ववाधाविनिर्मुक्तत्वधनधान्यसुतान्वितत्वकामः सर्व कामसिडिकामो वा विशिष्टफलोद्देशे तु धनकामः पुत्रकाम
For Private and Personal Use Only

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694