Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 673
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६८ श्रीदुर्गानपतिः । * नवदुर्गे सुरार्चिते । पल्लवैश्व फलोपेतैः पुष्पथ सुमनोहरैः । पल्लवे संस्थिते देवि पूजये त्वां प्रसीद मे । श्रम् दुर्गे देवि समागच्छ सान्निध्यमिह कल्पय । यज्ञभागान् गृहाण त्वं योगिनो कोटिभिः सह । एह्येहि परमेशानि सान्निध्य मिह कल्पय । पूजाभागं गृहाणेमं दुर्गे देवि नमोऽस्तु ते । दुर्गे देवि समागच्छ गणैः परिकरैः सह । पूजाभागं गृहाणेमं मखं रक्ष नमोऽस्तु ते । इति ततः शङ्खादिपात्रं पुरतो निधाय त्रिभागं जलेन आपूर्य दध्यचतपुष्पाणि यथालाभं वा दत्त्वा वमिति धेनुमुद्रया अमृतोकृत्य ह्रीं ओम् दुर्गायै नम इति अष्टधा जष्ट्वा तेनोदकेनात्मानं पूजोपकरणञ्चाभ्युच्य पुनर्ध्यात्वा इदमासनम् ओम् जयन्तीत्यादि उच्चाय्र्य ह्रीं श्रोम् दुर्गायै नम इति दत्त्वा कृताञ्जलिः श्रोम् भूर्भुव: स्वर्भगवति दुर्गे देव स्वागतास इति उच्चार्य एतत् पाद्यम् इदमर्घ्यं सामगेतरस्तु एषोऽर्घ इति पूर्ववद्दद्यात् । इदमाचमनीयम् । एष मधुपर्कः । इदमाचमनीयम् । इदं स्रानीयम् । इदं वस्त्रम् । इदमाभरणम् । एष गन्धः । एतत् पुष्पम् । पुष्पाञ्जलित्रयं मालां ग्टहीत्वा ओम् कौसुमस्रजमेताञ्च चन्दनागुरुचर्चिताम् । गृहाण त्वं महादेवि प्रसौद परमेश्वरि । एषा माला श्रम् जयन्तौत्यादिना दद्यात् । कुमुदोत्पलपद्मानि कुन्द शेफालिका जवा । बकुलं तगरचैव पुष्पाष्टकमुदाहृतम् । इदं पुष्पाष्टकम् । विल्वपत्रं गृहीत्वा ओम् अमृतोद्भवं श्रीवृक्षं शङ्करस्य सदाप्रियम् । विल्वपत्र' प्रयच्छामि पविको ते सुरेश्वरि । इदं विल्वपत्रम् । द्रोणपुष्पसत्ते ओम् ब्रह्मविष्णुशिवादीनां द्रोणपुष्प सदाप्रियम् । तत्ते दुर्गे प्रयच्छामि धर्मकामार्थसिद्धये । इदं द्रोणपुष्पम् । एष धूपः । एष दीपः । एतन्नैवेद्यम् । इदमाचमनीयम् । एतत्ताम्बलम् । अन्यानि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694