Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 343
________________ सिद्धान्तसारादिसंप्रहे द्वादशसहस्रप्रमितां सट्टीकां रचयिष्यति निजनामालंकृतं इति सूरिपरंपरया द्विविधसिद्धांतो व्रजन् मुनीन्द्र कुंदकुंदाचार्यसमीपे सिद्धांत शात्या कुंदकीर्तिनामा पखंडानां मध्ये प्रथमत्वे खंडानां द्वादशसहप्रमितं परिकर्भ नाम शास्त्रं करिष्यति षट्खंडेन विना तेषां खंडानां सकलभाषाभिः पद्धत्तिनामभ्रंथं द्वादशसहस्रप्रमितं श्यामकुंदनामा भट्टारकः करिष्यति तथा च षट्खंडस्य सप्तसहस्रममितां पंजिकां च । द्विविधसिद्धांतस्य व्रजतः समुद्धरणे समंतभद्रनामा मुनीन्द्रो भवि प्यति सोपि पुनः पखंडपंचखंडानां संस्कृतभाषयाष्टषष्टिसहस्रप्रमिता टीकां करिष्यति द्वितीयसिद्धांतकां शास्त्रं लिखापयन् सुधमैनामा मुनिर्वारविष्यति द्रव्यादिशुद्धेर्भावात् इति द्विविधं सिद्धांतं व्रजंतं शुभनंदिभट्टारकपार्श्वे श्रुत्वा ज्ञात्वा च चमदेवनामा मुनीन्द्रः प्राकृतभाषया अनुसहस्रममितां टोकां करिष्यति । अत्रांतरे पलाचार्यभट्टारक पार्श्वे सिद्धांतद्वयं वीरसेननामा मुनिः पठित्वाऽपराण्यपि अष्टादशाधिकाराणि प्राप्य पंचखंडे षट्खंडे सकल्प्य संस्कृतप्राकृतभाषया सत्कर्म्मनामटीकां द्वासप्ततिसहस्रप्रमित धवल नामांकितां लिखाप्य विंशतिसहस्त्रकर्मप्राभृतं विचार्य वीरसेनो मुनिः स्वर्गे यास्यति । तस्य शिष्यो जिनसेनो भविष्यति सोपिचत्वारिंशत्सहस्रैः कर्मप्राभृतं समाप्ति नेप्यति, अमुना प्रकारेण षष्टिसहस्रप्रमिता जयधचलनामांकिता टीका भविष्यति । ३१८ इति श्रीपंचाधिकारनामशास्त्रे विबुधश्रीधर विरचिते श्रुतश्वतार प्ररूपणं नाम तुर्भ्यः परिच्छेदः ।

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349