Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 346
________________ श्रीमत्पंडिताशाधरविरचिता कल्याण-माला पुरुदेवादिवीरान्तजिनेन्द्राणां ददातु नः । श्रीमद्गर्भादिकल्याणश्रेणी निश्रेयसः श्रियम् ॥ १ ॥ शुचौ कृष्णे द्वितीयायां कृपभो गर्भमाविशत् । वासुपूज्यस्तथा षष्ठयामष्टम्यां विमलः शिवम् ।।२।। दशम्यां जन्मतपसी नमेः शुक्ले तु सन्मतेः । षष्ठयां गर्भो भवभेमेः सप्तम्यां मोक्षमाविशत् ॥३॥ सुव्रतः श्रावणे कृष्णे द्वितीयायां दिवच्युतः। कुन्थुर्दशम्यां शुक्ले तु द्वितीये सुमतिस्थितौ ।।४॥ जन्मनिष्क्रमणे षष्ठयां नेमेः पावः सुनिर्वृतः । सप्तम्यां पूर्णिमायां तु श्रेयान्निःश्रेयसं गतः ॥५॥ भाद्रे कृष्णस्य सप्तम्यां गर्भ शान्तिरवातरत् । गर्भावतरणं षष्ठयां सुपार्श्वस्य सितेऽभवत् ॥६॥ पुष्पदन्तस्य निर्वाणं शुक्लाष्टम्यामजायत । श्रितः शुक्लचतुर्दश्यां वासुपूज्यः परं पदम् ॥७॥ आश्विनेऽभूद्वितीयायां कृष्पो गर्भो नमेः सिते । नेमे प्रतिपद्विज्ञानं सिद्धोष्टम्यां च शीतलः ॥८॥ अनन्तः कार्तिके कृष्णे गर्भेऽभूत्प्रतिपदिने । चतुर्थी शंभवाधीशः केवलज्ञानमापिवान् ॥९॥

Loading...

Page Navigation
1 ... 344 345 346 347 348 349