Book Title: Shrutsagar 2017 04 Volume 11
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
20
April-2017 [समवसरणमानविचारः] [८] ननु
बारसजोयणमुसभे, समवसरणं च नेमिजिण(ण) जाव। दो दो गाउ(ऊ) ऊणं, पासे पणकोसचउ वीरे ॥१॥
इयं गाथा छूटकपत्रे लिखिता प्रवर्तमाना च दृश्यते । परं प्रमाणमप्रमाणम् उच्यते। अप्रमाणमेवेति सम्भाव्यते प्रमाणीभूतशास्त्रेष्वसत्वाद्। आवश्यकनियुक्त्यादि श(शा)स्त्रानुक्तत्वेनाङ्ग(ग)मविरुद्धत्वाच्च आवश्यके योजनमानमेवोक्तम् । ननु तत्र सामान्यतया योजनप्रमाणं प्रतिपादितं परं क्वापि ग्रन्थे ऋषभदेवस्य नाम ग्राहं योजनप्रमितमुक्तं न वा? उच्यते-श्रीहेमाचार्य श्रीआदिनाथचरित्ने तृतीयसर्गे योजनप्रमाणस्यैवोक्तत्वात् । तत्पाठश्चायम्
ततः समवसरणस्य अवनीमेकयोजनाम् अमृजन् वायुकुमाराय यं मार्जितमानिन इति।
[मुक्ताफलादीनां सचित्ताचित्तविचारः] [९] ननु केचिद्वदन्ति विद्धमुक्ताप्रवालानि प्रासुकानि अविद्धानि तु सचित्तानि तत्सत्यमसत्यं वा? उच्यते-मुक्ताफलानि विद्धानि अविद्धानि च स्वस्थानच्युतानि सर्वाण्यपि प्रासुकान्येव एवं मणिसुवर्णरत्नं संष(शङ्ख)प्रवालादीन्यपि। तथा चोक्तमनुयोगद्वारसूत्रे
से किं तं लोए तिविहे पन्नत्ते तं सचित्ते अचित्ते मीसए । से किं तं सचित्ते तिविहे पन्नत्ते? दुपयाणं चउपयाणं अपयाण दुपयाणं दास दास दासीणं चउपयाणं आसाणं हत्थीणं अपयाणं बंभयाण अंव्यद्गगाणं आयांसवाणं से किं तं अचित्ते? सुवण्णमणिमु त्तिअसंखसिलप्पवालरयणाइणि लोइए आहिए इति ।
[साधुत्वविचारः] [१०] ननु ज्ञानं दर्शनचारित्राणामभावेऽपि व्यवहारतः साधव एते इति कथ्यते न वा? उच्यते-कथ्यते । यदुक्तमावश्यकहरिभद्रवृत्तौ वदनाध्ययने । तथाहि
दंशणनाणचरित्तेत्ति । प्राकृतसै(शै)ल्याच्छांदसत्वाच्च ज्ञानदर्शनचारित्राणां तथा तपोविनययोनिच्चकालपासच्छति। सर्वकालं पार्श्व तिष्ठन्ति सर्वकालपार्श्वस्था नित्य कालग्रहणमित्वरप्रमादव्यवच्छेदार्थं तथा इत्वरप्रमादा निश्चयतो ज्ञानाद्यप्रमत्तेऽपि व्यवहारतस्तु साधव एवेति । इति व्यवहारतः साधवः । इति
॥ लि.भाइडायाचंदेन ॥श्रीः ॥श्रीः ॥श्रीः ॥
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36