Book Title: Shrutsagar 2017 04 Volume 11
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRUTSAGAR 18 April-2017 [अशुद्धक्षायिकनिरूपणम्] या त्वपायसहचारिणि श्रेणिकादेरिव सम्यग्दृष्टिस्तदशुद्धक्षायिकम्, तस्य च सादिसपर्यवसानत्वाद् अस्ति प्रतिपातः । यदुक्तं गन्धहस्तिना तत्र या च अपायसद्र्व्यवर्तिनि अपायोऽमनिज्ञानांशः सद्व्याणि शुद्धसम्यक्त्वदलिकानि तद्वर्तिनी श्रेणिकादी न च सद्र्व्यापगमे भवत्यपायसहचारिणि सा च सादिसपर्यवसाना चेति। केवलज्ञानोत्पत्तौ अपायक्षयेऽपायो मतिज्ञानासस्तत् क्षयेऽश्री भवति न प्रथम कषायोदये तत्काले तदुदयाभावात् तत् क्षये एव तस्योत्पत्तिरित्यलं प्रसङ्गेन इति। शुद्धाशुद्धक्षायिकं द्विभेदं देवानामेकस्मिन् नाटके चतुर्वर्षसहस्राणि गच्छन्तीति श्रीपार्श्वचरित्ने प्रा(प्रो)क्तमस्ति। [रात्रौ प्रदीपविचारः] । [२] ननु साधूनामनशने रात्रौ प्रदीपः क्रियते न वा? उच्यते- क्रियते। श्रीआवश्यकबृहद्वत्तौ परिस्थापनाधिकारे ३०० पत्रेऽनशनिनो दीपकरणस्य प्रतिपादितत्वात्। [युगपज्जिनजन्मविचारः] [३] ननु जम्बुद्वीपे एकस्मिन् समये उत्कृष्टतः कियतां जिनानां जन्म? उच्यतेचतुर्णामेव जिनानां युगपज्जन्म । तथाहि—मेरोः पूर्वापरशिलातलयो· द्वे एव सिंहासने भवतः। तत्र द्वं(द्वौ) तौ द्वावेवाभिषिच्यते दक्षिणोत्तरयोस्तु तदानी दिवससद्भावान्न भरतैरावतयोर्जिनोत्पत्तिरर्धरात्रे एव जिनोत्पत्ति इति जम्बूद्वीपे उत्कृष्टपदेऽपि जिनचतुष्टयजन्मेति। [विकलेन्द्रियरुधिरविचारः] [४] ननु विकलेन्द्रियाणां रुधिरं भवति वा न वा? उच्यते-भवत्येव । श्रीस्थानाङ्गसूत्रवृत्तौ द्वितीयस्थाने प्रथमोद्देशके प्रतिपादितमस्ति। [क्षयोपशमिकसम्यक्त्वविचारः] । [५] ननु अनादिकालाज्जन्तुः सम्यक्त्वं लभते तदा किं क्षयोपशम(मि)कं सम्यक्त्वं प्रथमतो लभते? किं वा उपशम(मि)कं सम्यक्त्वम्? उच्यते-अतिविशुद्धो जीवः क्षायोपशमिकम्, मन्दविशुद्धस्तु औपशमिकम् । यदुक्तं श्रीबृहत्कल्पे। तथाहिइयमत्र भावनाद्विविधस्तत्प्रथमतया सम्यग्दर्शनप्रतिपत्तातिविशुद्धो मन्दविशुद्धश्च । तत्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36