Book Title: Shrutsagar 2017 04 Volume 11
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतसागर
अप्रैल-२०१७ योऽतिविशुद्धः सोऽपूर्वकरणमारूढो मिथ्यात्वं पुञ्जीकरेति कृत्वा च अनिवृत्तकरणे प्रविष्टः तत्र प्रथमकरणतया क्षायोपशमिकं सम्यग्दर्शनमासादयति सम्यक्त्वपुञ्जोदयात्। यस्तु मन्दविशुद्धः सोऽपूर्वकरणमप्यारूढस्तीव्राध्यवसायाभावान्न मिथ्यात्वं त्रिपुञ्जीकर्तुमलं ततो (s)निवृत्तकरणमुपगतोऽन्तरकरणं कृत्वा तत्र प्रविष्टस्तत्र प्रथमतया उपशमसम्यग्दर्शनमनुभवति अन्तरकरणं च अन्तर्मुहूर्तप्रमाणमतः तदद्धाक्षयेऽन्येषां पुद्गलानामभावतो मिथ्यात्वमेति इति प्रथमतो जीवः क्षायोपशमिकं सम्यक्त्वम् उपशमसम्यक्त्वं वा लभते इति। जम्बूद्वीपे एकस्मिन् समये उत्कृष्टपदे चतुर्णामेव जिनानां युगपज्जन्म। यदुक्तं समवायाङ्गसूत्रवृत्तौ-जंबुद्दीवेणं भंते! उक्कोसए चउ तित्थंकरासुमुप्पज्जंति। मेरोः पूर्वापरशिलातलयोढ़े द्वे एव सिंहासने भवतः, तौ द्वावेवाभिषिच्येते द्वयोर्द्वयोर्जन्मेति दक्षिणोत्तरयोस्तु तदानी दिवससद्भावान्न भरतैराव तयोर्जिनोत्पत्तिरर्धरात्रे एव जिनोत्पत्तिरिति।
[साधूनां दिवा शयनविचारः] [६] ननु साधूनां दिवसे शयनं कल्पते न वा? उच्यते-उत्सर्गतो न कल्पते एव । परं मार्गपरिश्रान्तग्लानादीनां दिवा शयनं कल्पते एव। श्रीओघनियुक्तिसूत्रे ४१८ गाथायां प्रतिपादितमस्ति।
[लब्ध्यपर्याप्तकविचारः] [७] ननु लब्ध्यपर्याप्तकाः करणापर्यप्ताकाश्च कथं भवन्ति? उच्यते
सो लद्धिऽपज्जत्तो जो मरइ अपूरिय सपज्जत्ति । लद्धिपज्जत्तो सो पुण जो मरइ ताओ पूरित्ता ॥१॥
न जवि पूरेइ परं पूरिस इह करणअपज्जत्तो। सो पुण करणपज्जत्तो जेणं ता पूरिआ हूंति ॥२॥ ___ अपर्याप्तका द्विधा लब्ध्याकरणैश्च तत्र यै(ये)ऽपर्याप्तका एव सन्तो म्रियन्ते पुनः स्वयोग्यपर्याप्तीः सर्वापि समर्थये ते ते लब्धापर्याप्तकाः।
[करणापर्याप्तकविचारः ] ये पुनः करणानि शरीरेन्द्रियादीनि न तावन्निवर्तयन्ति अवश्यं पुरस्तान्निवर्तयिष्यन्ति ते करणापर्याप्तकाः। इह चैवमागताः लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रिय पर्याप्तिपरिसमाप्तावेव म्रियन्ते नार्वाक् यद् आगामिभवायुर्व(4)ध्वा नियन्ते सर्वे एव देहिनस्तच्च आहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेवेति ।
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36