Book Title: Shravak Bhoomi Part 02
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text
________________
संस्कृत भूमिका
इव संस्कृतभाषायां लिखिता या खलु सुतरामन्यभूमीनामपि भाषा । यद्यप्यस्यां भूमौ प्रयुक्तः पाठो नैकधा संशोधितोऽस्यां भाषायां लिपिलेखिकस्य प्रमादवशादनेके भाषादोषाः समापतिता ये खलु लेखस्य पालि-माहायानिक संस्कृत-मागधीभाषाप्रयोगसंस्कारवशादेवापतिता भवेयुरिति ग्रन्थस्यास्य भाषास्वरूपपरिशीलनादवगम्यते । अस्य व्याकरणं पूर्णतः पाणिनिप्रोक्तव्याकरणनयानुसारीति नात्र प्राकृतप्रभावः कश्चिदेवंविधः परिलक्ष्यते येनास्या भूमेर्भाषा बौद्ध संकर (?) संस्कृतत्वेन परिगृह्येत । यद्यपि कतिपये धातुप्रयोगा नामप्रयोगा वा लेखकप्रमादवशाच्च्युता दृश्यन्ते किन्तु नैतावन्मात्रेण ग्रन्थस्य भाषाऽपरेति वक्तुं शक्यते । प्रायशस्सर्वं एवेते भाषादोषा व्याकरणस्खलितानि वा यथावसरं शोधितान्यस्माभिः ।
12. मातृकायामनुपलब्धानामस्य भूमेर्मुख्यांशानां लुप्तानां भोटभाषान्तरासंस्कृते पुना रचनाऽस्माभिः कृता । अस्याः पाठः प्रथमपरिशिष्टे प्रदत्तमित्याशास्महे न कश्चिदश एवंविधस्त्रुटितो भ्रष्टो वा वर्तते येनास्या भूमेर्विषयावबोधो अर्थसम्भारस्य वा तात्पर्यावबोधो दुष्करो भूयादिति । विश्वसिमो विद्ववन्मूर्धन्यानामधीतिबोधप्रचारणपरम्परयाऽस्य ग्रन्थरत्नस्य भूयानर्थावगमो विस्तरश्च भूयशोऽनेकशश्च भविष्यतीति । • धावक भूमेर्योगसम्भारः
1. आर्यावर्त्तीयदर्शनानां निखिलेषु प्रस्थानेषु चित्तशोधनक्रमेण परमार्थसाक्षाका मोक्षो निर्वाणं वेति सङ्ख्यां गच्छति । तत्र चित्तशोधनोपायः योगपदेनाभिधीयते । अयं योगः क्वचित्तु जीवात्मपरमात्मनोर्योग इति क्वचिच्च चित्तसमाधानमिति, क्वचित् आस्रवनिरोध' इति क्वचिन्निर्जर' इति चाख्यातः । श्री अरविन्दमते "
,
2
1. यथा प्रा० एलेक्स वेमैन् महोदयेन प्रतिपादितम्, तत्रैव तृतीयोऽध्यायः, q. 47-57 |
2. पाशुपत सूत्रभाष्यम्, पृ.6, 110 ।
3. यो० सू० 1/2
4. श्रावकभूमिः, पृ० 9, 37 – ।
5. जैनमते खल्वेषं मन्यते, द्र० स० द० सं०, 3, पृ० 80; द्र० सुखाबोधा तत्त्वार्थवृत्तिः, पृ० 7-8; 176 ।
6. The Synthesis of Yoga, (Sri Aurobindo Birth Centenary Library Publication, Vol. 20, p. 3). "All methods grouped under the common name of Yoga are special psychological processes founded on a fixed truth of Nature and developing out of normal functions, powers and results which were always latent but which are ordinary movements, do not easily or do not often manifest.”
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216