Book Title: Shravak Bhoomi Part 02
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 135
________________ 12 Śrāvakabhūmi विन्द्रियसत्य-दृष्टिविशुद्धि-प्रतिपज्ज्ञान-मार्गामार्ग-दर्शनविशुद्धि-प्रज्ञाभावनाकारेण पिटकानुगतयोगचर्याविधीनामुपन्यासः सविशेषतयाऽमिधर्मदृष्ट्या कृतः। निकायार्थकथास्वन्यासु पिटकाङ्गार्थकथासु चाप्याचार्यैरेषामङ्गानां भृशमुपन्यासः कृतः । अत्र मूलत्वेन शीलविशुद्धि-नैरात्म्य-प्रज्ञा-समाधिभावना-चित्तशोधनप्रतीत्यसमुत्पादभावनादितत्त्वानि समुपबृंहितानि । तदुपर्येव योगप्रासादः समुत्थापितः । ___ अनन्तरं च विभाषामूलमङ्गीकृत्य वसबन्धुराचार्योऽभिधर्मकोशशास्त्रं प्रथितवान् सङ्घभद्रश्च न्यायानुसारशास्त्रं न्यबध्नात् । अन्यानि अभिधर्मदीप-समयप्रदोपाऽभिधर्मामृताऽभिधर्महृदयादिशास्त्राण्यपि निबद्धानि । सर्वत्रैवात्र स्थविराभिधर्म प्रभावः संलक्ष्यते क्वचिच्च स्वतन्त्रा विचारा अपि प्रकाशिताः। एतेषां योगचर्यासु प्रवृत्ता भेदप्रणाली नात्र विचारणाविषया। किन्तु सर्वत्र लौकिकलोकोत्तरसमाधिशिक्षात्रय-नैरात्म्यभावना-प्रतीत्यसमुत्पादाऽशुभ-प्रज्ञा-दुःखानित्यभावनामूलकमेव चित्तोत्पादनं तत्परिष्कारचर्याविधिश्च प्रामुख्येन समुपबृंहितः । 3. योगाचारपरम्परासु चायं योगचर्याविधिः चित्तशोधनव्यापारप्रणाल्या समुपबृंहितः तत्र शतधर्माश्चैतसिका विवृता' येषां परिशोधनेन समवाप्त्या वा चित्तशुद्धिः समुपजायते। योगाचाराणामियं योगप्रणाली महायानसूत्रानुसारिणी दशभूमिपारमितादिनयानुगतेति नात्र काचन वैमत्यदृष्टिः । अनास्रव-धर्मकायावाप्ति. विमलचित्तस्वरूपाधिगमपूर्वकं निर्वाणसमधिगमस्तथतासाक्षात्कारश्च तत्र योगचर्यायाः चरमं फलम् । योगाचाराणां चर्यासु मूलभित्तित्वेनाऽभिधार्मिकाणां चर्यापद्धतिरङ्गीकृता। तस्मातेषां सम्प्रदायेऽपि अभिधर्मसङ्ग्रहो वर्तते, तत्र स्वीकृता चर्या प्रायशः स्पविरवभाषिकचर्याया भिन्ना, यद्यपि तत्र तत्र केचन सिद्धान्तभेदास्समनुगता दृश्यन्त एव । योगाचारभूमिपरम्परा असङ्गाचार्यात्प्रागपि विद्यमानाऽऽसीदिति चीनदेशीयबौद्धपरम्पराभ्यो ज्ञायते। तत्र सङ्घरक्ष-बुद्धसेनप्रभृतीनामन्येषां बौद्धाचार्याणां 1. द्र० शतधर्मविद्यामुखम्, सर्वास्तिवादपञ्चवस्तुकशास्त्रम्, परिशिष्टम्, पृ० 49-50। 2. तु० मध्यान्तविभागः 4/19-22; म० वि० भा०, पृ. 50-51 3. तु• अभिधर्मसमुच्चयः, प्रह्लादप्रधानसम्पादितः, भूमिका, पृ. 22; Th. Stcherbatsky, Conception of Buddhist Nirvana, Introduction. 4. अ० स० भूमिका, पृ० 22 । 5. E. Lamotte, Historie du Buddhisme Indien, p. 772 ; Alex Wayman, AŚM, Introduction.

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216