________________
12
Śrāvakabhūmi विन्द्रियसत्य-दृष्टिविशुद्धि-प्रतिपज्ज्ञान-मार्गामार्ग-दर्शनविशुद्धि-प्रज्ञाभावनाकारेण पिटकानुगतयोगचर्याविधीनामुपन्यासः सविशेषतयाऽमिधर्मदृष्ट्या कृतः। निकायार्थकथास्वन्यासु पिटकाङ्गार्थकथासु चाप्याचार्यैरेषामङ्गानां भृशमुपन्यासः कृतः । अत्र मूलत्वेन शीलविशुद्धि-नैरात्म्य-प्रज्ञा-समाधिभावना-चित्तशोधनप्रतीत्यसमुत्पादभावनादितत्त्वानि समुपबृंहितानि । तदुपर्येव योगप्रासादः समुत्थापितः ।
___ अनन्तरं च विभाषामूलमङ्गीकृत्य वसबन्धुराचार्योऽभिधर्मकोशशास्त्रं प्रथितवान् सङ्घभद्रश्च न्यायानुसारशास्त्रं न्यबध्नात् । अन्यानि अभिधर्मदीप-समयप्रदोपाऽभिधर्मामृताऽभिधर्महृदयादिशास्त्राण्यपि निबद्धानि । सर्वत्रैवात्र स्थविराभिधर्म प्रभावः संलक्ष्यते क्वचिच्च स्वतन्त्रा विचारा अपि प्रकाशिताः। एतेषां योगचर्यासु प्रवृत्ता भेदप्रणाली नात्र विचारणाविषया। किन्तु सर्वत्र लौकिकलोकोत्तरसमाधिशिक्षात्रय-नैरात्म्यभावना-प्रतीत्यसमुत्पादाऽशुभ-प्रज्ञा-दुःखानित्यभावनामूलकमेव चित्तोत्पादनं तत्परिष्कारचर्याविधिश्च प्रामुख्येन समुपबृंहितः ।
3. योगाचारपरम्परासु चायं योगचर्याविधिः चित्तशोधनव्यापारप्रणाल्या समुपबृंहितः तत्र शतधर्माश्चैतसिका विवृता' येषां परिशोधनेन समवाप्त्या वा चित्तशुद्धिः समुपजायते। योगाचाराणामियं योगप्रणाली महायानसूत्रानुसारिणी दशभूमिपारमितादिनयानुगतेति नात्र काचन वैमत्यदृष्टिः । अनास्रव-धर्मकायावाप्ति. विमलचित्तस्वरूपाधिगमपूर्वकं निर्वाणसमधिगमस्तथतासाक्षात्कारश्च तत्र योगचर्यायाः चरमं फलम् ।
योगाचाराणां चर्यासु मूलभित्तित्वेनाऽभिधार्मिकाणां चर्यापद्धतिरङ्गीकृता। तस्मातेषां सम्प्रदायेऽपि अभिधर्मसङ्ग्रहो वर्तते, तत्र स्वीकृता चर्या प्रायशः स्पविरवभाषिकचर्याया भिन्ना, यद्यपि तत्र तत्र केचन सिद्धान्तभेदास्समनुगता दृश्यन्त एव ।
योगाचारभूमिपरम्परा असङ्गाचार्यात्प्रागपि विद्यमानाऽऽसीदिति चीनदेशीयबौद्धपरम्पराभ्यो ज्ञायते। तत्र सङ्घरक्ष-बुद्धसेनप्रभृतीनामन्येषां बौद्धाचार्याणां
1. द्र० शतधर्मविद्यामुखम्, सर्वास्तिवादपञ्चवस्तुकशास्त्रम्, परिशिष्टम्, पृ० 49-50। 2. तु० मध्यान्तविभागः 4/19-22; म० वि० भा०, पृ. 50-51 3. तु• अभिधर्मसमुच्चयः, प्रह्लादप्रधानसम्पादितः, भूमिका, पृ. 22; Th.
Stcherbatsky, Conception of Buddhist Nirvana, Introduction. 4. अ० स० भूमिका, पृ० 22 । 5. E. Lamotte, Historie du Buddhisme Indien, p. 772 ; Alex
Wayman, AŚM, Introduction.