________________
संस्कृत भूमिका
अयं चित्तोपक्लेश निवृत्तिपरो विशुद्धि मार्गः ध्यानप्रज्ञासंवलितः चित्तदोष्ठुल्यविधुरितः निर्वाणगामीति सर्वत्र सोगतसिद्धान्तेषु स्वीकृता सरणिः । मानवानां शीलसमुदाचारेण कर्मविद्याधर्मैर्जीवनस्य चेतसश्च शोधनं भवति । यदुक्तं मध्यमनिकाये
ii
कम्मं विज्जा च धम्मो च सोलं जीवितमुत्तमम् । एतेन मच्चा सुज्झन्ति न गोत्तेन धनेन वा'ति ॥ (3/262)
2. स्थविरदर्शने शीलप्रतिष्ठितमानवस्य चित्तप्रज्ञाभावनया निर्वाणसमधिगमः स्वीकृतः । तत्र सोपधिशेषनिर्वाणं निरुपधिशेषनिर्वाणञ्चेति द्वितयं समर्थितम् ।
अस्यां योगतत्त्वनिरूपणशृङ्खलायां स्थविरसम्प्रदाये प्रामुख्येनैते विषयाः समुपबृंहिताः तेषां निरूपणञ्च कृतं तत्र तत्र ग्रन्थेषु -
चित्तम्, चित्तोपक्लेशः, चैतसिका धर्माः, वित्तोपशमः (चित्तास्रवनिरोधो वा ), समापत्तिः, ध्यानचतुष्टयम्, तद्द्वारेण निर्वाणधिगमश्च । 1
एतस्याः सौगतयोगपरम्पराया मूलं यद्यपि त्रिपिटकेषु विशकलितरूपेण यत्र तत्र समुपलभ्यते किन्तु त्रिपिटकेषु परवर्तिसाहित्यस्थानीयानां ग्रन्थानां वर्णनासु च सम्बद्धरूपेण योगतत्त्वानि संबहुलानि वर्णितानि सङ्केतितानि वा विद्यन्ते । यद्यपि निकायेषु तत्र तत्र समाधिस्थानीयानां धर्माणां चित्तक्षेपलक्षणानां चैतसिकानां च परिग्रहो वर्तते, किन्तु धर्मसङ्गण्यामेव प्रथमं योगतत्त्वानां चैत्तिकशुद्धिनिमित्तानां विधिवत् परिगणनं समुपलभ्यते । समासतो धर्मसङ्गण्यां चित्त-चित्तविक्षेपकरधर्मचित्तोपक्लेश निवृत्तिपरधर्म-भावनाप्रहातव्यधर्म - लौकिक-लोकोत्तरसमाध्यङ्ग-बोध्यङ्गानां विस्तरेण विवृतिरनेकशः समुपलभ्यते । धातुकथापुद्गलप्रज्ञप्तौ च चैतसिकधर्मपरिग्रहपूर्वकं पुद्गलभेदाः परिकीर्तितास्तेषां विशेषाश्च वर्णनविषयतामापुः ।
एतच्च बौद्धयोगतत्त्व कदम्बकं परवर्तिषु अभिधर्मकृतिष्वभिधर्मावतारादिषु - विशदरूपेण समुपन्यस्तस्वरूपं सत् कालान्तरे लुप्तप्रायमासीत् । अस्याः परम्पराया विशदः समुपन्यासः बुद्धघोषाचार्याणां विशुद्धि मार्गाभिधाने ग्रन्थे, स्वमूलस्वरूपे लुप्तप्राये उपतिष्याचार्य रचिते विमुक्तिमार्गे च समुपलभ्यते । स्थविरचिन्तनसरणिमनुसृत्येतयोर्ग्रन्थयोः शोलविशुद्धि-धुताङ्ग - कर्म्मस्थान- पृथिवीकृत्स्न- शेषकृत्स्नअशुभकर्मस्थान षडनुस्मृति ब्रह्मविहार • आरूप्य समाधि ऋद्धिविधि- अभिज्ञा-स्कन्ध-धा1. एतदर्थ द्रष्टव्यम् - अनिरूद्धाचार्यरचितोऽभिधम्मत्थसङ्गहो ।
2 अस्माभिः 'विमुत्तिमग्गो' - प्रन्थस्य प्रथमः परिच्छेदः शीलवर्णनात्मक पालिभाषायां पुना रचितः ।