________________
10
Srāvakabhumi योगोऽयं जीवनस्य मूलतत्त्वत्वेन व्याख्यातो यः खलु चित्तसमाधानस्वरूपतया सामान्यप्रक्रियासम्बद्धोऽपि अव्यक्तशक्तिप्रकाशक-प्रकृति-विकाशपरचैत्तव्यापारतत्त्वत्वेनोपबृंहितस्वरूपो यत्र विश्वात्मजोवात्मनोरेक्यमभेदो वा परिस्फुरति ।।
निगमेष्वयं योगः सर्वथा चित्तचाञ्चल्यनिरोधकतया व्याख्यातः । तत्स्वरूपञ्च विवृतं तत्र चित्त-करणव्युपशमप्रवृत्तिरूपेण। इन्द्रियाणां लौल्यस्य निवृत्तिः परमार्थाधिगमश्च तत्र प्राधान्येन योगप्रवृत्तिफलम् । पातञ्जलदर्शनेऽयं योगः अप्रतिसङ्क्रमस्वरूपाया अपरिणामिन्याश्चितिशक्ते: स्वरूपस्थितिबोधकतया, चित्तस्य व्युत्थानादिसकलावस्थासु वर्तमानानां वृत्तीनां निरोधपरकतया च व्याख्यातः। पाशुपतमतेऽयं योगः आत्मेश्वरसंयोगपरत्वेन व्याकृतः। तदुक्तं पञ्चार्थभाष्ये 'अत्र आत्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वादन्यतरकर्मणः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनान् मेषवदुभयकर्मणः। यस्मात् सति विभुत्वे अनधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति ।' तत्र योगपदेन चर्यापरः क्रियायोगो व्याख्यातः।
___आहेतदर्शने कायवाङ्मनस्कर्माणि योगपदेन व्याख्यातानि | त एवास्रवपदाभिहितानि वर्तन्ते येषां संवरनिर्जराभ्यां हानिः सम्पाद्यते । यदुक्तम्
आस्रवो भवहेतुः स्यान्निर्जरो मोक्षकारणम् ।
इतीयहिती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥2 आहेतविचारवत् सौगतशासनेऽपि योगपदमविद्याऽऽस्रव-संयोजनौघपदवाच्यं चित्तकालुष्यपर्यायतया परिगृहीतम् । एतस्यैव तत्त्वकदम्बकस्य सामान्य नाम क्लेश इति । अस्यैव क्लेशजालस्य उपशमाय सर्वा सौगतऽऽचारपरम्परा चित्तशोधतसरणिश्चाङ्गीकृता। शीलमेव तत्र विशुद्धिमार्गाङ्गत्वेनाङ्गीकृतम्। एत एव भावा निचितास्तत्र तत्र निकायग्रन्थेषु । तदभिहितं संयुत्तनिकायशासने बुद्धभगवत्पादैरपि
सब्बदा सीलसम्पन्नो पञ्जावा सुसमाहितो। आरद्धविरियो पहितत्तो ओघं तरति दुत्तरन्ति ॥
(सं० नि०, पा० टे० सो० 1/53) तथा धम्मपदेऽपि समुदानीतम्
सब्बे सङ्घारा अनिच्चा'ति यदा पञ्चाय पस्सति ।
अथ निबिन्दति दुक्खे एस मग्गो विसुद्धिया ।। (215) 1. कौण्डिन्याचार्यरचितं पञ्चार्थभाध्यम्, पृ० 6। 2. अभिधर्मदीपः, पृ० 219-220। 3. सर्वदर्शनसङ्ग्रहः, पृ० 80 । 4. द्र० विसुद्धिमग्गो, सोलनिद्देसो ।