________________
संस्कृत भूमिका
योगाचारभूमिग्रन्थानां समुल्लेखः प्राप्यते । योगाचारभूमिपदेनात्र योगाचाराणां प्रक्रिया निर्वाणसमधिगमाय नेकासु भूमिषु साधनचर्यापरिपूरेः समवाप्तव्यतया चर्यायाः परिनिष्ठा तन्मुखेन विमुक्तिलाभो भवतीति ज्ञेयम् । तत्रासङ्गस्य प्रस्तुते योगाचारभूमिग्रन्थे सप्तदशभूमिषु चर्यापरिपूरि विधाय निर्वाणसमधिगमाय मार्गो देशितो येन विमल चित्तपूर्वकमनास्रवविज्ञानधातोः समधिगमः करणीयः । अत्र सर्वत्र महायान मार्गानुसारेण चर्याऽङ्गीकृता, तत्परिपूरये च साधनमार्गः समनुदेशितः ।
मैत्रेयाचार्यपादानां पट्टशिष्यभूत आर्यासङ्गः: महायाने दीक्षाग्रहणात् प्राक् सर्वास्तिवादान्तर्गतमहीशा सकनिकायमङ्गीचकारेति चीनदेशीयबोद्धपरम्परासु अङ्गीकृतम् । तदनुसारेणैव न तेन योगाचारभूमीनां बोधिसत्त्वभूमेरितरभूमीनां परिवर्णनं चाकारि । किन्तु नेतासु भूमिवर्णनासु कश्चिद् भेदो विशेषो वा संलक्ष्यते येनैतासु महायानविरोधिता हीनयानानुगामिता वा परिदृश्येत । पञ्चविज्ञानसम्प्रयुक्त भूमेः श्रावक भूमिपर्यन्तश्चासङ्गदर्शनस्य योगाचारीयस्याभिधर्ममूलकता सर्वथा परिलक्षिता भवति । एतद्धि बोधिसत्त्वभूमी आचार्येण नासकृद् व्यवस्थापितम् यत् श्रावकयाननयेन मूचर्या परिगृह्य बोधिसत्त्वः महायानाभिमुखो भूत्वा चर्यासाधनं कृत्वा विमुच्यते ।
13
तस्माच्छ्रावकभूमौ परिगृहीतानि योगतत्त्वानि चर्याङ्गानि च न श्रावकयाननयेनैव सर्वथाऽङ्गीकृतान्यपि तु महायानानुसारिणी हि एषा श्रावक भूमिचर्यापद्धतिः या खलु भिर्मिकमूलतया अङ्गीकृता ।
श्रावभूमी योगसाधनत्वेन परिवणतासु वह्नीषु चर्यासु नैके धर्माः परिगणिताः चित्तशुद्धिनिमित्तकाः येषु प्रव्रज्या शीलेन्द्रियसंवरद्वयं च मुख्यतया परिगृहीतानि । परसम्पदि परिगृहीतेषु तत्त्वेषु प्राविवेक्यम्, सम्प्रजानद्विहारिता, निवरणविशुद्धिः,
1. Nalinaksa Dutta, Intro to Bodhisattvabhūmi, pp. 3-7; अस्माकम्, Introduction पृ० 1.
2. ज्ञानश्री मित्रनिबन्धावली, पृ० 532 :
आर्यासङ्गमनङ्गजिन्नयव हो यद्भूषीशोऽन्धुशाद्
आचार्यो वसुबन्धुरुद्धुरमतिस्तस्याऽऽज्ञयाऽऽदिद्युयुतत् ।
दिग्नागोऽथ कुमारनाथ विहिता सामान्यसाहायकस्तस्मिन् वार्त्तिकभाष्यकारकृतिनोरद्याननद्या स्थितिः ॥ Intro. to Sravakadhūmi
P. 22 किन्तु, द्र० देमेविल्ले, BEFEO, 4, 41, p. 386.
3. Alex Wayman's Analysis of Srāvakabhūmi Manuscript, p. 25-28 sq., K. Shukla, Intro. to Śrāvakabhūmi, pp. 1xviii-1xix.
4. श्रावक भूमिः, पृ० 37-73 ।