________________
14
Sravakabhumi समाधिसन्निश्रयश्चैते धर्माश्चित्तशोधनाथं स्वीकृताः । तत्र चरमः समाधिसन्निश्रयाख्यो धर्मः वित्तैकाग्रतापरपर्यायः योगसाधनत्वेनाङ्गीकृतः।।
श्रावकभूमौ चित्तपरिकर्मनिमित्तत्वेन कतिपये धर्माः परिगृहीताः यैर्योगाचारो योगनिमित्तस्य भावनायै योगमनस्कारमुद्गृह्णाति । ध्यानचतुष्टयसाधनेन भावनया च लोकोत्तरधर्माणां योगी चित्तशोधने दत्तावधानः समाहितचेतसा उपक्लेशान् सर्वान क्षिणोति इलथयति च कर्मबन्धनानि। आनुपूर्येण स योगी चत्वारि ध्यानानि सम्पाद्य नैकशो धर्मान् 'उत्तरोत्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान प्रत्यग्रानात्मसम्पत्पूर्वान् समाधिसन्निधयपर्यवसानान् समुदानयति । एवं परिशुद्ध चित्ते पर्यवदाते अनङ्गणे विगतापक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षाक्रियायै भावनाये परतो घोषमववादानुशासनीं प्रतिलभते। एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय । तत्पूर्विकायाश्च सम्यग्दृष्टयंया चत्वार्यार्यसत्यान्यभिसमागच्छति। विमुक्तिञ्च परिपूरयति । निरुपधिशेषे निर्वाणधातो परिनिर्वाति ।' इति तत्र भूयो भूश्चाचार्येण लौकिकलोकोत्तरवैराग्य तदुभयसम्भारश्च योगाङ्गत्वेन परिगृहीतः येन योगी दुस्तरं क्लेशजालं छित्त्वा ध्यानं समुद्गृह्णाति । तत्र लौकिकेन मार्गेण चत्वारि ध्यानानि भावयित्वा, लोकोत्तरेण मार्गेण चर्तुणामार्यसत्यानां भावनामुखेन योगी 'धातुकेभ्यो दर्शनभावनाप्रहातव्येभ्यो धर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ त्रैधातुकसमतिकान्तो भवति । सत्कायदृष्टिं प्रहाय योगी परसम्पदङ्गभूतानि कुशलधर्मच्छन्द-शीलसंवर-भोजने मात्रज्ञता-जागरिकानुयोगसम्प्रजानद्विहारिता-कल्याणमित्रता-सद्धर्मश्रवणचिन्तना-ऽनन्तराय-त्याग-श्रमणालङ्कारतत्त्वानि चर्याङ्गतया अभ्यस्यति ।"
अत्र चर्यायां प्रथमं शीलसम्वरसंवृतो योगी भावयति तत्त्वानि येस्तस्य चित्तं सुविशुद्धं विमलं च सम्पद्यते । भिक्षोरगोचरान् परिवयं गोचरेषु विहरन् योगी
1. तत्रैव, पृ० 14-15। 2. तत्रैव, पृ० 14-16 गोत्रव्यवस्थानांशो द्रष्टव्यः । 3. तत्रैव, पृ. 15, 1971 पृ० 306, 404-06, 439, 445-49, तु० प्रथम
परिशिष्टे 6 पृष्ठे। 4. द्र० म० म० पं० उमेशमिश्राणामभिनन्दनग्रन्थेऽस्माभिः पुनर्विरचितगोत्रभूमेरंशः
पृ० 133-1351 5. श्रावकभूमिः, पृ० 35-386 । 6. तत्रैव, पृ. 36। 7. द्र० उमेश मिश्र अ० ० पृ० 131-33, श्रावकभूमिः प्रथमं योगस्थान(म्)
श्रावकभूमिः, पृ० 7-16, 37-166 ।