________________
संस्कृत भूमिका
15 आचारसम्पन्नः अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु ।। शीलसंवरवदिन्द्रियसंवरोऽपि चित्तपरिकर्मपद्धतावङ्गीकृतः । इदं च शीलं मूलत्वेन चित्तोपशमस्य धृतम् । तदुक्तम्
सुप्रतिष्ठितमूलः स्याच्चित्तस्योपशमें रतः।
संयुक्ता च विसंयुक्ता दृष्टयादृष्ट्यार्यपापया ॥ अनेन च क्रमेण कायिकवाचिक-मानसकर्मशोधनमपि भवति । यदुक्तं राहुलमारभ्य भगवता
कायकर्माथ वाक्कर्म मनस्कर्म च राहुल । अभीक्ष्णं प्रत्यवेक्षस्व स्मरन् बुद्धानुशासनम् ॥ एतच्छामणकं कर्म अत्र शिक्षस्व राहुल ।
अत्र ते शिक्षमाणस्य श्रेय एव न पापकम् ।। शीलसंवरवदेव राग़ादीनां चित्तानुस्रवणविगमाय, सङ्क्लेशप्रहाणाय इन्द्रियसंवरोऽपि देशितो येन निमित्तग्राहानुव्यञ्जनग्राहयोः प्रहाणं भवति । तदेव च योगस्य चरम लक्ष्यभूतं तत्त्वं यस्य पर्यवसितं क्लेशानामप्रवृत्ती, विरागे, निरोधे, निर्वाणे च भवति । अयमिन्द्रियसंवरस्तत्र द्विधा दृष्टः-प्रतिसंख्यानबलसंगृहीतो भावनाबलसंगृहीतश्च ।। अनेन भावितेन निवरणानां विशुद्धिर्भवति आवरणीयेभ्यो धर्मेभ्यश्च चित्तस्य परिशोधना सजायते ।
अस्या आवरणीयधर्मेभ्यश्चित्तपरिशोधनाया अनेकान्यङ्गानि तद्यथा दक्षिणपावें सिंहशय्याकल्पनम्, पूर्वरात्रापररात्री जागरिकानुयुक्तता, विविधाचारेषु सम्प्रजानद्विहारिता, कल्याणमित्रतासमधिगमः, त्यागादि श्रमणालङ्काराणामभ्यासो येभ्यः चित्तं विगतोपक्लेशं विमलं प्रभास्वरं अनङ्गणं च सञ्जायते।'
विशुद्धं विमलं चित्तं अनेकपर्यायैः निमित्तमुद्गृह्णाति। तानि निमित्तानि विविच्य, गृहीत्वा, परिवर्त्य, विनीय वा व्याप्यालम्बनपूर्वकं चरितविशोधनमालम्बनं कौशल्यालम्बनं क्लेशविशोधनालम्बनं च भावयितव्यम् । अस्मिन् विषये अशुभा
1. तत्रैव, पृ. 40-43। 2. श्रावकभूमिः, पृ० 52 । 3. तत्रैव, पृ. 571 4. तत्रैव, १० 63.72 । 5. तत्रैव, पृ० 73-31 6. तत्रैव, पृ. 13, 399 । 7. द्रष्टव्यम्-श्रावकभूमेः प्रथमं योगस्थानम् । 8. धावकभूमिः, पृ० 191-258 ।