________________
16
Srāvakabhämi मैत्री-प्रतीत्यसमुत्पाद-धातुस्कन्धप्रभेद-आनापानस्मृतिभावनामुखेन योगाचारः सर्वधर्मेषु नैरात्म्यभावनां समधिगम्य, तेषां निःस्वभावत्वं सापेक्षत्वमनित्यत्वमशुभत्वं शून्यत्वं च प्रतिपद्यते ।' षोडशाकाराऽनापानस्मृतिचर्यया योगी चत्वारि ध्यानानि समापन्नो भवति । इयमानापानसस्मृतिराश्वासप्रश्वासनिबन्धनेति पातञ्जलयोगसूत्रेषु 'प्रच्छर्दन विधारणाभ्यां वा प्राणस्येति प्रोक्तस्य आश्वासप्रश्वासप्रश्वासात्मकतां योगचर्यायाः समङ्गीकृत्य योगाचारदर्शनस्थसाधनपद्धतिभूमिराविष्कृतेति व्यवस्थापितम् ।
एतदनन्तरं श्रावकभूमौ चत्वारि योगस्य योगकरणीयानि समाख्यातानि । तद्यथा आश्रयनिरोधः, आश्रयपरिवर्तः, आलम्बनपरिज्ञानम् बालम्बनाभिरतिश्चेति । एतैः 'आश्रयविशुद्धिमधिपतिं कृत्वा सुविशुद्धमालम्बनशानं कार्यपरिनिष्पत्तिकाले प्रवर्तते अभिरतिश्च ।
योगभावनायाः पक्षद्वयमङ्गीकृत्य आर्यासङ्गेन संज्ञा-बोधिपक्ष्यभावनात्मकमङ्गदयं विवृत्य सांवृतभावानामादीनवसंज्ञां प्रहाणविरागनिरोधसंज्ञाभावनाद्वारेण धर्माणामनित्यत्वं शून्यत्वञ्च समुपपाद्य शमथविपश्यनाकारेण योगभावना व्याकृता। एतदनन्तरं च सप्तत्रिंशतां बोधिपक्ष्याणां धर्माणामभ्यासः प्रपश्चितः। तद्यथा-चतुण्णां स्मृत्युपस्थानाना, चतुर्णां सम्यक्प्रधानानामृद्धिपादानां पञ्चानामिन्द्रियाणां बलानां सप्तानां बोध्यङ्गनामार्याष्टाङ्गस्य च मार्गस्य ।।
एतैः चित्तशुद्धिपूर्वकमुपक्लेशानां परिक्षयो भवति चित्तं च प्रगृहीतं वर्तते । श्रुतप्रज्ञाभावनामयोभिरनुपश्यनाभिः सर्वदृश्यं योगी सम्यगेवानित्यतयाऽनात्मतया दुःखतया शून्यतया च निश्चिनोति ।' एतस्मिन् प्रसङ्गे चित्तप्रभेदाः तद्धर्माश्च विविधा आख्याता येषां व्याकरणं भावना च चित्तौद्धत्य-दौष्ठुल्ययोनिवारकमिति क्रमेण सर्वाण्यङ्गानि बोधिपक्ष्यानि भावितानि वर्तन्ते येन शमथविपश्यनाद्वारेण सप्तविधं चित्तचाश्चल्यव्युपशमनिमित्त साधनं चित्तप्रग्रहरूपं समुपलभ्यते । एवमेव च च्छन्दवीर्य-चित्त-मीमांसा-समाधिभ्य ऋद्धिपादाभ्यासेन चित्तक्लेशविनयः बोधिसमधिगमश्च भवति ।
1. तत्रैव, पृ० 202-11 2. योगसूत्रम्, 1/34। 3. श्रावकभूमिः, पृ० 283-84 । 4. पृ० 287-88 तः अग्रे । 5. पृ० 289-3341 6. पृ० द्रष्टव्यम् तत्रैव । 7. . 292। 8. पृ. 294-1। १. द्र० 314-11