________________
17
संस्कृत भूमिका प्रसङ्गेन चात्र योगाचाराणां विविधाः प्रभेदाः योगभ्रंशस्य च स्वरूपमप्याख्यातम् । किन्तु नैतत् तादृग् योगसाधनविधी उपकारकं यादग् ध्यानचतुष्टयमुखेन साधनचर्याऽऽदिकर्मिकस्य वा पुद्गलस्य चर्या उपकारिका भवति । आदिकर्मिकयोगाचारस्य चर्या च शून्याऽनात्म-दुःखरूपतायाश्च सांवृतधर्माणामुपकारकतया विशदरूपेण व्याकृता।'
अस्मिन् योगविषये श्रुतप्रज्ञाभावनामुखेन ध्यानाभ्यासपाटववशात् सातत्यसत्कृत्यकारितया तीव्रच्छन्दतासमुत्पादनेन अभीक्ष्णप्रत्यवेक्षणाद् द्विधा योगबलाधानता लब्धा भवति प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च । अस्मिन् योगाभ्यासपाटवे योगिनो वैराग्यभावः जगद्विषयेऽनित्यतादुःखाशुभताशून्यताभावाश्च सततमुपकारकाः सन्तः तस्य क्लेशोपशमाय बोधिसमधिगमाय च समर्था इति नास्ति कश्चित् सन्देहावकाशोऽपि ।
एवं श्रावकभूमौ निर्दिष्टस्य योगसंभारस्य-योगसाधनमार्गस्य च न केवलं सौगतयोगसाधनपरम्परायां विशिष्टं स्थानं वर्तते, किन्तु प्रस्थानान्तराङ्गीकृतयोगपद्धतिभ्योऽप्यस्य विशेषो वर्तते । पातञ्जलयोगसाधने ध्यानं योगाङ्गत्वेन परिगृहीतम्, योगस्याष्टावनानि तत्र परिवणितानि, सबीजनिर्बीजसमाधिद्वितयञ्च तत्र समर्थितम्, क्लेशकर्मविपाकाशयेरपरामृष्टस्येश्वरस्यापि चर्चा तत्र कृता, किन्तु नात्र कश्चिदीश्वरतत्त्वविशेषः, पुरुषो वाऽत्मा वा चितिशक्तिरूपतया चिन्तितः । अत्र तु तथागतदेशिता लौकिक-लोकोत्तर-मार्ग-प्रणाली सांवृतधर्माणां दुःखानात्मशून्याशुभताबोधेन प्रतीत्यसमुत्पादादिभावनामुखेन च प्रवर्तिता निःसरणात्मकेन विधिना समालोच्य परिगृहीता यया निषेधमुखेन क्लेशोपशमनिमित्तः बोषितत्वावतारः सम्भवति । एवमेव पाशुपतदर्शने यः आत्मेश्वरसंयोगो योगपदेनाभिहितो सोऽप्यत्र नावश्यकतया प्रवर्तत इति योगाङ्गानां समावेशोऽन्यप्रकारेणैव सम्भवति । नात्र जेनपरम्परास्वीकृत-निर्जर. मार्गोऽपि मध्यमाप्रतिपदङ्गतयैव परिगृहीत इत्यस्य योगमार्गस्य मूल्यं महत्वञ्चैताभिदृष्टिभिः परिमेयम् ।
1. पृ. 284-851 2. पृ. 273.751 3. द्रष्टव्यम्-तृतीयं योगस्थानम् । 4. श्रावकभूमिः, पृ. 271-72 ।