Book Title: Shravak Bhoomi Part 02
Author(s): Karunesha Shukla
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 131
________________ Srāvakabhumi आर्यमैत्रेयनाथस्य बौद्धन्यायस्य आदिमाचार्यत्वमप्यङ्गीकर्तुं शक्यते। वस्तुतस्तु असङ्गगुरोरभिनिवेशो न तर्के तन्त्रयुक्तौ वाऽऽसीत् संवृतिविकल्पास्पदीभूतत्वादस्य वाग्विशुद्धेदिविद्याया वा, अपितु तस्याभिप्रायो व्यक्तमेव परमार्थसाधनपरतयाऽभिव्यक्तस्तद्यथा महायानसूत्रालङ्कारभाष्ये (1-16) धर्मस्य प्राप्तिः, प्रत्यात्म विमुक्तिज्ञान' मित्यादिना आर्यासङ्गेन विस्पष्ट समुदीरितम् । बौद्धपरम्परायामार्यासङ्गपादेन योगाचारभूमिशास्त्रेऽभिधर्मसमुच्चये च तन्त्रयुक्त्यपरपर्याया हेतुविद्या परीक्षाञ्च नयद् विज्ञानं वस्तु । तद्यथा वादो वादाधिकरणं वादाधिष्ठानं वादालङ्कारो वादनिग्रहो वादनिस्सरणं वादे बहुकरा धर्मा, इति प्रथमबारं चिन्तामयीभूमौ प्रस्तुता। तथा बोधिसत्त्वभूमौ अध्यात्मविद्या हेतुविद्या शब्दविद्या व्याधिचिकित्साविद्या शिल्पकर्मस्थानविद्येति ( पृ०६८) पञ्चविद्यास्थानानि परिगण्य, षड्विधविरोधे (पृ० ६९) वाग्विरोधो युक्तिविरोधश्चोपन्यस्तः। एवमेव चिन्तामयीभूमौ हेतुविद्याप्रकरणे साधनविशदीकरणे पश्चात्कालीनै यायिकैः अनुमानाङ्गतया स्वीकृतानि प्रतिज्ञाहेतूदाहरणान्यपि सारूप्यवैरूप्याभ्यां सहैव प्रस्तुतानि, तथा प्रत्यक्षानुमानाऽऽप्तागमानां स्वरूपमपि वैशयेन, विश्लिष्य प्रस्तुतम् । तदेव दिङ्नाग-धर्मकीर्तिप्रभृतिबौद्धन्यायाचार्याणां प्रत्यक्षादिप्रमाणलक्षणस्वरूपनिर्धारकमभूत् । अत इदमपि ज्ञायते यन्प्रत्यक्षानुमानाप्तागमप्रमाणानां लक्षणं बौद्धन्यायपरम्परायां प्रथमत आर्यासङ्गेनैव निर्धारितं तदेव आचार्यवसुबन्धुना दिङ्वागधर्मकीर्तिप्रमुखैश्च परवर्तिभिराचार्यैरङ्गीकृतम् । ___10. असङ्गप्रणीतं योगाचारभूमिशास्त्रमतिविपुलमासीत् । उपलब्धयोगाचारभूमिशास्त्रग्रन्थस्तु तस्यैकदेशमात्रमेव । आसीत्तत्र सङ्ग्रहणीचतुष्टयम्- -वस्तुसङ्ग्रहणी, पर्यायसङ्ग्रहणी, विवरणसङ्ग्रहणी, विनिश्चयसङ्ग्रहणी च । एताभिस्सह योगाचारभूमिशास्त्रस्य सप्तदशभूमयो (माहायानिकयोगाचार (भूमि) परम्पराया) अभिधर्मतया योगाचारभूमिविनिश्चयसङ्ग्रहण्या भोटानुवादे भार्यासङ्गोक्तितया व्याख्याताः। एवं सम्पूर्णोऽयं योगाचारभूमिंशास्त्रग्रन्थो मूलग्रन्थस्य संग्रहणीचतुष्टयात्मकस्यैकांशमात्रमेवेति निश्चिनुमः । 11. अत्र प्रथमवारं सम्पूर्णत्वेन प्रस्तूयमानायाः योगाचारभूमेरङ्गभूतायाः श्रावकभूमेरुत्तरभारतीय नागरीवर्गीयायां लिप्यां प्राप्ता मातृका शास्त्रस्यास्यान्यभूमय 1. द्र० Alex Wayman, Analysis of the Sravakabhumi Manuscript, Introduction, यत्र मोटानुवादेन सह प्रस्तुतमाम्लभाषान्तरमित्थं प्रतिपादयति-pp. 32-33, Among them comprisal of "alphabet" (mātrkā) (i. e., "Abhidharma") means the seventeen bhūmis and the four 'comprisals' (i. e. vastu, paryaya, vivarana, and viniscaya samgrahani), see also, p. 42-43.

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216