________________
Srāvakabhumi आर्यमैत्रेयनाथस्य बौद्धन्यायस्य आदिमाचार्यत्वमप्यङ्गीकर्तुं शक्यते। वस्तुतस्तु असङ्गगुरोरभिनिवेशो न तर्के तन्त्रयुक्तौ वाऽऽसीत् संवृतिविकल्पास्पदीभूतत्वादस्य वाग्विशुद्धेदिविद्याया वा, अपितु तस्याभिप्रायो व्यक्तमेव परमार्थसाधनपरतयाऽभिव्यक्तस्तद्यथा महायानसूत्रालङ्कारभाष्ये (1-16) धर्मस्य प्राप्तिः, प्रत्यात्म विमुक्तिज्ञान' मित्यादिना आर्यासङ्गेन विस्पष्ट समुदीरितम् ।
बौद्धपरम्परायामार्यासङ्गपादेन योगाचारभूमिशास्त्रेऽभिधर्मसमुच्चये च तन्त्रयुक्त्यपरपर्याया हेतुविद्या परीक्षाञ्च नयद् विज्ञानं वस्तु । तद्यथा वादो वादाधिकरणं वादाधिष्ठानं वादालङ्कारो वादनिग्रहो वादनिस्सरणं वादे बहुकरा धर्मा, इति प्रथमबारं चिन्तामयीभूमौ प्रस्तुता। तथा बोधिसत्त्वभूमौ अध्यात्मविद्या हेतुविद्या शब्दविद्या व्याधिचिकित्साविद्या शिल्पकर्मस्थानविद्येति ( पृ०६८) पञ्चविद्यास्थानानि परिगण्य, षड्विधविरोधे (पृ० ६९) वाग्विरोधो युक्तिविरोधश्चोपन्यस्तः। एवमेव चिन्तामयीभूमौ हेतुविद्याप्रकरणे साधनविशदीकरणे पश्चात्कालीनै यायिकैः अनुमानाङ्गतया स्वीकृतानि प्रतिज्ञाहेतूदाहरणान्यपि सारूप्यवैरूप्याभ्यां सहैव प्रस्तुतानि, तथा प्रत्यक्षानुमानाऽऽप्तागमानां स्वरूपमपि वैशयेन, विश्लिष्य प्रस्तुतम् । तदेव दिङ्नाग-धर्मकीर्तिप्रभृतिबौद्धन्यायाचार्याणां प्रत्यक्षादिप्रमाणलक्षणस्वरूपनिर्धारकमभूत् । अत इदमपि ज्ञायते यन्प्रत्यक्षानुमानाप्तागमप्रमाणानां लक्षणं बौद्धन्यायपरम्परायां प्रथमत आर्यासङ्गेनैव निर्धारितं तदेव आचार्यवसुबन्धुना दिङ्वागधर्मकीर्तिप्रमुखैश्च परवर्तिभिराचार्यैरङ्गीकृतम् ।
___10. असङ्गप्रणीतं योगाचारभूमिशास्त्रमतिविपुलमासीत् । उपलब्धयोगाचारभूमिशास्त्रग्रन्थस्तु तस्यैकदेशमात्रमेव । आसीत्तत्र सङ्ग्रहणीचतुष्टयम्- -वस्तुसङ्ग्रहणी, पर्यायसङ्ग्रहणी, विवरणसङ्ग्रहणी, विनिश्चयसङ्ग्रहणी च । एताभिस्सह योगाचारभूमिशास्त्रस्य सप्तदशभूमयो (माहायानिकयोगाचार (भूमि) परम्पराया) अभिधर्मतया योगाचारभूमिविनिश्चयसङ्ग्रहण्या भोटानुवादे भार्यासङ्गोक्तितया व्याख्याताः। एवं सम्पूर्णोऽयं योगाचारभूमिंशास्त्रग्रन्थो मूलग्रन्थस्य संग्रहणीचतुष्टयात्मकस्यैकांशमात्रमेवेति निश्चिनुमः ।
11. अत्र प्रथमवारं सम्पूर्णत्वेन प्रस्तूयमानायाः योगाचारभूमेरङ्गभूतायाः श्रावकभूमेरुत्तरभारतीय नागरीवर्गीयायां लिप्यां प्राप्ता मातृका शास्त्रस्यास्यान्यभूमय 1. द्र० Alex Wayman, Analysis of the Sravakabhumi Manuscript,
Introduction, यत्र मोटानुवादेन सह प्रस्तुतमाम्लभाषान्तरमित्थं प्रतिपादयति-pp. 32-33, Among them comprisal of "alphabet" (mātrkā) (i. e., "Abhidharma") means the seventeen bhūmis and the four 'comprisals' (i. e. vastu, paryaya, vivarana, and viniscaya samgrahani), see also, p. 42-43.