________________
संस्कृत भूमिका
द्वयाकारेण निर्वाणस्य वर्णना प्राप्यते । एवमेव सहजसिद्धि धारण्यादिविषयानुल्लेखोऽपि आर्यासङ्गपादस्य तन्त्र- परम्परासम्बन्धवैधुर्यमेव प्रतिपादयतीति तस्य गुह्य समाजतन्त्रस्य तट्टीकाया वा कर्तृत्वं सर्वथाऽपास्तम् ।
8. आर्यासङ्गपादैः प्रतिपादिते योगाचारविज्ञानवादे साधनभूमि- विचार - सरण्योः समन्वयो वर्तते । तस्य दार्शनिकराद्धान्तप्रतिपत्ती एकतस्तु सौत्रान्तिकानां साकारवादनयस्य बाह्यार्थास्तितासिद्धान्तस्य निरसनपूर्वकमालोचनस्य साकाराणां विषयाणामस्तित्वख्यापनस्य च, अपरतस्तु माध्यमिकानां सर्वशून्यताराद्धान्तस्य प्रभावो लक्ष्यते । सौत्रान्तिकानां बाह्यार्थस्य बुद्ध्याकारानुमितस्याऽस्तितास्वीकारस्य च योगाचार बाह्यार्थ प्रतिषेधसिद्धान्तोपरि प्रभावः संलक्ष्यते माध्यमिकानां शून्यतानयस्य, निःस्वभाव - नैरात्म्यसिद्धान्तस्य च तत्प्रतिपत्तिसरणेश्च योगाचारविज्ञानवादसिद्धान्तप्रतिपत्तिप्रणाल्युपरि प्रभावो दृश्यत इत्यनुमीयते यदार्यासङ्गेन तद्गुरुणा मैत्रेयनाथाचार्यपादेन च योगाचार सिद्धशान्तपुष्ट्ये सौत्रान्तिक- नयाऽङ्गीकृत- बुद्धधा कारानुमित-बाह्यार्थास्तित्वसाकारवादं माध्यमिकानाञ्च शून्यतानयं समन्वीय योगाचारविज्ञानवादः सिद्धान्ततो व्यवस्थापितः ।
9. असङ्गकृतिषु बौद्धशास्त्राङ्गभूतस्य न्यायशास्त्रस्य हेतुविद्यापरपर्यायस्य परिग्रहोऽपि दृश्यते । यद्यपि बोद्धन्यायस्यादिमस्वरूपं मैत्रेयनाथस्य कृतिषु संभाविततयोपलक्ष्यते किन्तु तेन हेतुविद्या प्रतिपादनपरः कश्चिदेवंविधो ग्रन्थो निरमाथि इति न जानीमहे, न वाद्ययावधि एवंविधः कश्चन ग्रन्थः समुपलब्धो येन तस्य बौद्धहेतुविद्याप्रवर्तकत्वं प्रामाण्येन व्यवस्थाप्येत । किन्तु परवर्तिषु बौद्धन्यायग्रन्थेषु मैत्रेयनाथअसङ्ग-वसुबन्धु-दिग्नाग कुमारनाथप्रभृतीनामाचार्याणां बौद्धन्यायपरम्परावस्थापकत्वेन समुल्लेखो मैत्रेयनाथाचार्यपादानामपि हेतुविद्या परस्य कस्यचिद् ग्रन्थस्य कर्तृत्वं द्योतयति । अनेन सिद्धान्तप्रतिपत्तिप्रणालीव्यवस्थापनमात्रे तस्य प्रामाण्यमित्यपि स्वीक्रियेत, किन्तु ग्रन्थरचना तु तस्य नैवं स्वोकर्तुं शक्यते, प्रमाणाभावात् । योगाचारभूमिशास्त्रस्य मूलं यदि मैत्रेयाचार्योपदेशास्तत्प्रतिपादित सिद्धान्ता वा स्वीक्रियेरन् तर्हि
1. तु० अद्ववज्रसङ्ग्रहः, पृ० 50 -
2.
3.
वज्रसत्त्वं नमस्कृत्य प्रज्ञोपायस्वरूपकम् । महासुखाद्वयं वक्ष्ये वस्तुतत्त्वं समासतः ॥ ;
ज्ञान सिद्धि:, 7/3 : सर्वताथागतं ज्ञानं स्वसंवेद्यस्वभावकम् । सर्वसङ्ख्याग्रभूतत्वात् महासुखमिति स्मृतम् ।।
द्र० सहज सिद्धि:, इण्डो इरैनियन जर्नल, 10. 135-141 ।
या प्रत्यपादि विनयतोष भट्टाचार्य महोदयः,
ऐन इण्ट्रोडक्शन टु बुद्धिस्ट् ईसोटेरिज्म्, पृ० 54, 126 इत्यादी ।