________________
Șrāvakabhumi जैमिनीयोपनिषद्ब्राह्मण-ताण्ड्यमहाब्राह्मण-कौषीतकिब्राह्मणप्रभृतिष्वार्षग्रन्थेषु प्रतिपादितानां केषांचिद् विषयाणां श्रावकभूमिवणितविषयैः साम्यमुपलभ्यते । बृहदारण्यकोपनिषत्स्थ-मधुविद्यायाः प्रभावोऽपि श्रावक भूमेः कतिपयांशेषु दृश्यत इति यथावसरं प्रदर्शितमस्माभिः । आचार्येण माहायानिकदर्शनग्रन्थास्तु साङ्गत्वेन तत्त्वतो विचारतश्च परिगृहीता येषु लङ्कावतार-ललितविस्तर-समाधिराज-दशभूमक-पितृपुत्रसमागमप्रतीत्यसमुत्पादादिविभङ्गनिर्देशसूत्र-शालिस्तम्बप्रभृतयो महायानसूत्रग्रन्थाः प्रमुखाः।
सर्वास्तिवादाद्यन्यनिकायग्रन्थार्था अपि तथैव तेन तात्त्विकत्वेन परिगृहीताः । वस्तुतस्तु आर्यासङ्गेन न केवलं बौद्धादिशास्त्राणि अर्थतः परिगृहीतानि, किन्तु तस्मिन् समये प्रचलितानां सकलशास्त्राणां परिज्ञानमसङ्गेन प्राप्तमिति तत्कृतीनामवलोकनेन प्रतिभाति । आयुर्वेदादिशास्त्रपरम्पराज्ञानमपि तद्ग्रन्थानुशीलनाज ज्ञायते। योगाचारभूमौ प्रस्तुता हेतुविद्या चरक-सुश्रुतसंहितयोरुपलब्ध-तन्त्रयुक्तिविवरणेन तुलनामारोहति । तथैवार्थशास्त्रप्रस्तुता तर्कविद्यापि अत्र प्रस्तुत हेतुविद्याया मूलत्वेनाङ्गीकत्तुं शक्यते।
साङ्ख्य-न्याय-वैशेषिक-ज्योतिष-राजविज्ञान-आन्वीक्षिकीप्रभृतीनि शास्त्राणि तेन सुष्ठु अधीतानीति योगाचारभूमिशास्त्रादवगम्यते। किन्तु आर्यासङ्गपादस्य बौद्धतान्त्रिकपरम्परया एतादृशः कश्चन सम्बन्धो नासीद् येनासौ गुह्यसमाजतन्त्रस्य प्रणेतेति स्वीक्रियेत । यद्यपि तद्ग्रन्थेषु आश्रयपरिवृत्तेरुल्लेखो' वर्तते किन्तु तत्प्रपञ्चविगमसूचकमेवेति नात्र कश्चित्सन्देहावकाशोऽपि ।
मन्त्रयानवज्रयानयोमूले तान्त्रिकविचारे बोधिचित्त-युगनद्ध-वज्ररूपशून्यता. महासुखरूपनिर्वाण-सहजसिद्धि-मन्त्रधारणीप्रयोगादीनां तत्त्वानां तन्त्राभिप्रेतार्थेषु प्रयोगोऽसङ्गकृतिषु नोपलभ्यते । यद्यपि बोधिसत्त्वभूमौ एकत्र बोधिसत्त्वचित्तोत्पादप्रकरणे बोधिचित्तमुल्लिखितम्, तथापि तत्र तन्त्राभिप्रेते तात्पर्य एवं प्रयुक्त एष शब्द इति नावधारयितुं शक्यते । यद्यपि श्रावकभूमौ वज्रोपमसमाधिरपि वणितस्तथापि मैत्रेयासङ्गकृतिषु शून्यतापर्यायरूपेण वज्रपदप्रयोगो नोपलभ्यते, न वा तत्र महासुखा1. महायानसूत्रालङ्कारभाष्यम् 9/45-46 ; तु० अभिधर्मसमुच्चयः, अभिसन्धि
विनिश्चयः, पृ० 106, 19.20 ; . शमथविपश्यनयोर्युगनद्धस्योल्लेखोऽपि
श्रावकभूमौ समुपलभ्यते,, पृ० 404-5।। 2. बोधिसत्त्वभूमिः, पृ० 8; तु०, महायानोत्तरतन्त्रशास्त्रम्, 1/162, 5/1 । 3. पृ० 506-510। 4. यथा अद्वयवज्रसङ्ग्रहे, पृ० 23
दृढं सारमसौशीर्यमच्छेद्याभेद्यलक्षणम् । अदाहि अविनाशि च शून्यता वज्रमुच्यते ॥-उक्तम् तु०, ज्ञानसिद्धिः, 1/471