________________
संस्कृत भूमिका
B
ग्रन्थरत्नस्य माहात्म्यं सर्वथा उररीकृतम् । अत्र प्रस्तुता श्रावकभूमिरस्यैव ग्रन्थरत्नस्य त्रयोदशी भूमिः । आचार्य प्रह्लादप्रधानसम्पादिते अभिधर्मसमुच्चये, आचार्यासङ्गो महायानकमभिधर्मं समासरीत्या व्याचष्टे । अत इदमपि मन्यते यदस्मिन् ग्रन्थे भूमिवर्णता विषयाः समासेन समाकलिताः । असङ्गकृतित्वेनान्यदेशीय परम्परासु प्रथिताः महायानसम्परिग्रहशास्त्र-तत्त्वविनिश्चयभाष्य-प्रकरणार्थवाचा महायानाभिधर्मसङ्गीतिशास्त्र - सन्धिनिर्मोचनभाष्यग्रन्थाः गीर्वाणवाण्यामुपलब्धाः
प्रकाशमायाता वा ।
नाद्यावधि
5. यद्यप्यार्यासङ्गस्याविर्भावकालविषये विद्वांसो विवादमापन्नास्तथापि तस्य गुप्त शासकानां शासनसमये प्रादुर्भाव इत्यत्र न काचन विमतिः । वसुबन्धोरग्रजोऽयमार्यासङ्गश्चन्द्रगुप्त विक्रमादित्ये भुवि प्रशासति (320-400 ई० ) ईशवीयवर्षेषु 340 तः 415 ई० पर्यन्तसमयसमीपकाले प्रादुर्बभूवेति प्रदर्शितमस्माभिराङ्ग्लभूमिकायाम् । विस्तरभिया नात्र सन्दर्भादयः सङ्कलय्य प्रदर्श्यन्ते ।
6. महायाने दोक्षाग्रहणादर्वागार्यासङ्गपादो हीनयाने सर्वास्तिवादप्रस्थानान्तर्गत महीशासक निकायेन स्वमतं दृढीचकार । अस्मिन्निकाये स वैदेहकेन पिण्डोलाचार्येण दीक्षितः सन् नैकान् ग्रन्थान् निबबन्ध | किन्त्वनेन महायाने दीक्षाग्रहणादनन्तरं तत्प्रचारार्थं प्रसारार्थं च नैके ग्रन्था निबद्धा यैः खलु महायानदर्शन - विशदीकरणपुरस्सरं योगाचारनयराद्धान्ताः प्राकाश्यमानीताः । स्वगुरोर्मैत्रेयनाथस्य कृतीष्टीकया विभूष्यानेन योगाचारभूमिशास्त्रं निरमायि यत् खलुयोगाचारदर्शनस्य साधनभूमिप्रकाशः । ग्रन्थेऽस्मिन् योगाचारसाधकस्य चरमलक्ष्यप्राप्तिपर्यन्तं सप्तदशभूमयः मनोमयीत्यादिका निरुपधिकेत्यन्ताः समाकलय्य व्यवस्थापिता यासामन्यत्रैकत्र कुत्रचिदपि उपलब्ध सौगतग्रन्थेषु समुल्लेखो नोपलभ्यते । विशकलितरूपेण इतस्ततो द्वित्राः, पञ्चषा, दश वा भूमय उपनिबध्य समाकलिता महायानादिग्रन्थेषु येषु चासामत्र योगाचारभूमावुपनिबद्धानां सप्तदशभूमीनां माहायानिक योगाचारपरम्परायां परिग्रहस्य सङ्केत उपलभ्यते । चीनदेशीयपरम्पराभिश्चैवं ज्ञायते यदार्यासङ्गादपि प्रागासीद् बौद्धपरम्परासु योगा - चारभूमिपरम्परा । तत्र एव बुद्धसिंह - बुद्धभद्रादीनामाचार्याणां योगाचारभूमिग्रन्था आसन्नित्यपि ज्ञायते । एतेनैतदायाति यदाचार्यासङ्गपादः बौद्धयोगाचारभूमिग्रन्थपरम्परया प्रभावितः सन् स्वकृति ग्रथयाश्चकार ।
7. आर्यासङ्गपादेन न केवलं निखिल बौद्धाशास्त्राणि सम्पूर्णत्वेनाधीतान्यपि तु सकलश्रोतपरम्पराग्रन्था अपि तेन गृहोतार्था इति नात्र काचन विमतिरुचिता । सन्ति तत्र तावदेतादृशा सङ्केता योगाचारभूमिशास्त्रे यैरिदं प्रमाणीभवति यदार्यासङ्गपादैबद्धशास्त्रवत् ब्राह्मणपरम्पराशास्त्राण्यपि सुष्ट्वधीतानि । शतपथ ब्राह्मण