________________
Srāvakabhumi ग्रन्थेष्वप्येषा परम्परा अनुपदमुपबृंहिता। यदवोचदाचार्यो ज्ञानश्रीमित्र:
आर्यासङ्गमनङ्गजिन्नयवहो यद्भपतीशोऽन्वशादाचार्यो वसुबन्धुरुधुरमतिस्तस्याज्ञयाऽऽदियुतत् । दिग्नागोऽथ कुमारनाथविहितासामान्यसाहायकस्तस्मिन् वार्तिकभाष्यकारकृतिनोरद्यानवद्या स्थितिः ।
तथा
सूत्रालङ्कारमाीय भाष्ययुक्तं च चिन्तय । यत्र रूपादिराख्यातः परतन्त्रपरिस्फुटः ॥ एवमेव अभिसमयालङ्कारालोकशास्त्र आचार्यहरिभद्रसूरिणापिमायारूपसमानभावविदुषां मुक्ति परां योगिनां संसारोदरवर्तिदोषनिचये संमूर्छितान् देहिनः । मैत्रेयेण दयावता भगवता नेतुं स्वयं सर्वथा प्रज्ञापारमितानये स्फुटतरा टीका कृता कारिका ॥ भाष्यं तत्त्वविनिश्चये रचितवान् प्रज्ञावतामग्रणीः आर्यासङ्ग इति प्रभास्वरयशास्तकर्तसामर्थ्यतः । भावाभावविभागपक्षनिपुणज्ञानाभिमानोन्नतः
आचार्यो वसुबन्धुरर्थकथने प्राप्तास्पदः पद्धतौ ॥ इति समुदीरितम् । 4. आर्यमैत्रेयकृतयोऽसङ्गपादेन व्याख्याताः। तथा हि तस्य अभिसमयालढारकारिकाशास्त्र-उत्तरतन्त्र- महायानसूत्रालङ्कारशास्त्र - मध्यान्तविभागशास्त्रधर्मधर्मताविभङ्गप्रकरणानि तेन व्याख्यातानि । किन्तु नैतेषु सर्वेषु शास्त्रेषु तस्य टीकाः समुपलभ्यन्ते । केवलं महायानसूत्रालङ्कारभाष्यशास्त्रमसङ्गकृतित्वेनोपलभ्यते । अभिसमयालङ्कारालोकशास्त्रे च तत्प्रणीताया अभिसमयालङ्कारटीकाया वचनोद्धारेण अनुमीयतेऽस्य ग्रन्थस्योपरि आर्यासङ्गेन टीका विहितेति । किन्तु ग्रन्थान्तरेषु तत्प्रणीता टीका नाद्यावधि समुपलब्धा प्रकाशिता वा। महायानोत्तरतन्त्रशास्त्रस्य समुपलब्धा टीका तु वस्तुतः सारमतिलेखनीसमुद्भूतेति विदुषामाग्रहस्तथ्यानुकूल एव । वज्रच्छेदिकाप्रज्ञापारमितोपरि आर्यासङ्गरचिता कारिकासप्ततिमयी टीका प्राचार्येण तुषितवरेण सम्पाद्य प्रकाशमानीता। योगाचारभूमिशास्त्रमस्याचार्यस्य विपुलतमा कृविर्यस्यां खलु मैत्रेयोद्भावितपरम्परायाः साधनविधेः दर्शनभित्तश्च प्रपञ्चविन्यासः । अत्र वर्णनशैलीविधानेन, सूक्ष्मतत्त्वप्रस्फुरणेन माहायानिकाऽभिधर्ममूलविज्ञानवादविचारधारा प्रशस्तरूपेण प्रस्फुटितेति अस्य ग्रन्थरत्नस्य माहात्म्यं महायान-योगाचारविचारधारायां स्वयमेव परिदीप्यते। अत्रैव समाकलिता बोधिसत्त्वभूमिर्बोधिसत्त्वानामाचारपरिपाटी सम्यगुपनिबध्नाति । भोटपरम्परायां चीनदेशीयपरम्परासु चाप्यस्य