________________
II. संस्कृत भूमिका 22. आङ्ग्लभूमिकासक्षेपः ___1. अथेयं समुपह्रियते बौद्धतत्त्वरसिकेभ्यो तत्त्वदर्शनरुचिभ्यो योगाचारदार्शनिकशिरोमणेराचार्यासङ्गस्य योगाचारसाधनविधी आधारग्रन्थस्य योगाचारभूमिशास्त्रस्य त्रयोदशी भूमिः श्रावकभूमिर्नाम या खल्वनुपलब्धचरा, मातृकारूपेणोपलब्धा, चित्रच्छायानुकृतितया च प्रस्तुता। इमामेव विस्तारितां चित्रच्छायानुकृतिमधिष्ठायास्माभिर्ग्रन्थस्यास्य मातृकाया लिपिरादर्शीकृता, समुपलब्धविविधपक्षसामग्रीभिश्च सम्पाद्य, यथाकथञ्चिद् विदुषां दृष्टिपथमानीयमाना चेयं कृतिर्योगाचारपरम्परायां योगसाधनविधेः प्रशस्तं मागं वैपुल्येन परिदीपयति ।।
___ 2. त्रिंशच्चित्रपट्टेषु व्यवस्थितेयं मातृकानुकृतिर्योगाचारभूमिशास्त्रस्य मातृकातः, तदङ्गभूतबोधिसत्त्वभमेश्च मातृकातः पृथक्स्वरूपतया समुपनिबद्धति विद्वन्मण्डलीष्वस्याः श्रावकभूमेः वैपुल्येन समादरो माहात्म्यं च ख्यापितमित्यपि विदितप्रायमेव । अस्या मातृकाया आदिमेषु विंशपर्णेषु चित्रानुकृतौ पौर्वापर्यक्रमो विपर्यस्तः। तत्त भोटदेशस्थविहारेषु मातृकासुरक्षाव्यवस्थादोषेणैवेति मन्यामहे । प्राचीनत्वादस्या मातृकायाः कतिपये अंशाः परिवर्तिता, विशीर्णा विगलितास्त्रुटिताश्चेति मातृकायां पाठन्यूनतादोषोऽपि समुद्भावितः। प्रारम्भिकाणि कतिचित्पर्णान्यस्या मातृकाया नोपलभ्यन्ते आधारमातृकायामित्यप्यनया चित्रानुकृत्याऽनुमीयते । मातृकायां पाठशोधनमपि पार्श्वटिप्पणीषु च दरीदृश्यते । अनेन मातृकालेखकस्य दोषाः पूर्वमप्युद्भाविता इति ज्ञायते ।
• अस्यां खलु मूलमातृकायां योगाचारभूमेः श्रुतमयी-चिन्तामयी प्रत्येकबुद्धभूमीनामपि कतिपये प्रमुखा अंशा विशकलितरूपेण समाकलिताः । एषु परमार्थगाथा अभिप्रायिकार्थगाथा-शरीरार्थगाथाव्यवस्थानानि, हेतुविद्या च विशेषमाकर्षयन्ति अध्येतारम् ।
3. आर्यासङ्गपादो भारतीयबौद्धपरम्परासु योगाचारदर्शनस्यादिमाचार्यरूपेण प्रथितचरः, किन्तु यावता प्रातःस्मरणीयैर्महामहोपाध्यायैः पं० हरप्रसादशास्त्रिमहाभागः, तुषिताचार्यैरुदिताचार्यैश्च1 मैत्रेयनाथाचार्यपादानां जीवितकृतित्वे ऐतिह्येन प्रामाण्येन व्यवस्थापिते, अस्य योगाचारप्रस्थानस्याद्याचार्यों मैत्रेयनाथस्तदुदितसिद्धान्तानां प्रवर्तको वक्ता चाऽऽर्यासङ्ग इति व्यवस्थितम् । अचिरमेव प्रकाशितेषु
1. Prof. G. Tucci and Prof. H. Ui. 2. तु० मध्यान्तविभागभाष्यटीका, पृ० 3 ।