Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 18
________________ तन्न' किं कुर्युस्तीर्थवंदन'मोदरात् ॥ २९६ ॥ धन्या मान्याश्च' जगतामपि ' ते 'स्वांघ्रिचारतः । सिद्धक्षेत्रे यात्रा यथाविधि विषंति ये ।। २९७ ।। आहुआ “ छेटुंण भत्तेणं अपाणएणं तु सत्त जत्ताओ । जो कुणइ सित्तुंजे सो तइअभवे लहइ सिद्धिं ॥। २९८ ।। " तस्यैता भद्रकत्वादि गुणवत्त्वाद्गुरोर्गिरः । हृदि कृष्णमृदि क्ष्माया मार्दवं वार्दवद् व्यधुः ॥ २९९ ॥ जगन्मित्रगुरोर्युक्तं ' गोविलासैः सपर्थभूत् । क्षमापतिः क्षीणतमाः सम्यक्त्वत्वमकाशयुक् || ३०० ।। तदाप्तसम्यक्सम्यक्त्वस्तद्यात्रोत्कंठया' रयात् । मंत्रिणः सोऽभ्यधाद्' भो भोस्त्वर्यतां सज्जिकाविधौ ।। ३०१ ।। विमलाद्रौ युगादीशे वंदितेऽन या ग्राह्ये गम्यं चांघ्रिचारेणैवेर्त्यभ्यग्रहीच्च सः ॥ ३०२ ॥ श्रुत्वेति इंसीसारस्यौ भूयांसोऽन्यजना आप । तथैवा तथा प्रजाः ।। ३०३ ॥ स 'किं' भावो भवेद्यत्र कार्ये कापि विचारणा । न व्यचार्यत राजाही तीर्वा ॥ ३०४ ।। केदं स्थानं कर्चात्यंतं दूरे श्रीविमलाद्रिराट् । अहहा सहसा कोऽयमभिग्रहमहाग्रहः ।। ३०५ ॥ इत्याद्यादिषुत्रिमुख्याः क्षितिपतिं प्रति । गुरवोऽप्यूचिरे राजन्विचार्यैवाभिगृह्यते ।। ३०६ ।। अविचार्यकृते कार्ये पश्चात्तापोऽपि जायते । तस्मिन्न कश्चिलाभश्च दुष्कृतं प्रत्युतार्त्तितः ॥ ३०७ ॥ महोत्साहो महीनेता प्रत्यवोचत हे प्रभो ! | अभिग्रहे गृहीते प्रांका व्यर्थाय विचारणा ।। ३०८ ।। पीतनीरस्य किं नाम मंदिरादिक पृच्छया । कृतक्षौरस्य वा पुंसः किं १ नक्षत्रपरीक्षया ॥ ३०९ ॥ पञ्चात्तापं विनैवाहं 'निर्वाहं स्वमभिग्रहम् । नेतर्नेतास्मि 'श्रीदेवगुरुपादप्रसादतः || ३१० || व्योम्नोंऽतमेति किं । नार्कप्रसादादरुणोऽन्वहम् । इत्युक्त्वा' संघसार्थे द्राक् सबलोऽप्यैचलन्नृपः ॥ ३११ ॥ कर्मवैरिष्ववस्कंददानायेव ' जवाद् व्रजन् । दिनैः । कियद्भिः १ विषति इति नामधातुरूपं । २ मेघवन् । ३ अभिप्रमकुर्वन् । काश्मीरदेशांतः प्राप 'सोऽटवीम् ॥ ३१२ ॥ क्षुत्तृचरणचारित्वमार्गखेदादिना तदा । राझो राज्योश्व संजातात्यंतिकी व्याकुलात्मता ।। ३१३।। ततश्चिंतातुरः सिंहश्चतुरः सचिवेश्वरः । सूरीन् माह प्रभो ! युक्त्या नृपः पर्यवसाप्यताम् ||३१४ ॥ धर्मस्थानेऽन्यदा नूनमुड्डाहो भविता जने । गत्वा तेऽप्यभ्यधुर्भूप ! लाभालाभं विभावय ।। ३१५ ।। सहसा विहितं कार्यं न प्रायेण प्रमाण्यते । आकाराः सहसाकारादयः सर्वत्र हि स्मृताः ।। ३१६ ॥ अतिक्लांतोऽपि वपुषाऽनतिकांतस्तु चेतसा । भूपोऽभ्यथात्मर्त्यशक्तमुपदेश्यमिदं प्रभो ! ।। ३१७ || अहं तु स्वोक्त निर्वाहेऽलंकर्मीणैकविक्रमः । प्राणप्रहाणमप्यस्तु नान्यथाभिग्रहस्तु मे ॥ ३१८ ॥ उत्साहयंत्यौ सोत्साहे तन्निर्वाहे निजं प्रियम् । वीरपत्न्यौ वीरपत्नीव्रतं ते अपि तेनतुः || ३१९ ।। अहो धर्मैकचित्तत्व॑म॒हो धर्मकुटुंबता । अहो सात्विकतेत्युच्चैस्तदा श्लाघि न कैर्नृपः ॥ ३२० ॥ अथ किं भावि किं कृत्यमिति चिंताचिताकुलः । तत्र रात्रो सिंहमंत्री सुप्तस्तप्तहृदंबुजः || ३२१ ।। विमलादेरधिष्ठाता स्वप्नांतर्यक्षगोमुखः । साक्षाद्भूयांचचक्षे तं चिंतां' मंत्रीश ! माकृथाः || ३२२ || महीशसाहसाकृष्टस्तुष्टोऽहं दिव्यशक्तितः । विमलाद्रिमहातीर्थ प्रत्यासन्नं समानयम् ॥ ३३३ ॥ प्रातश्वलद्भिस्तद्यामसमये द्रक्ष्यते ध्रुवम् । तत्र नत्वा जिनं सर्वैः पूरणीया अभिग्रहाः || ३२४ || मंत्रिणा स्वम एवोक्तं ज्ञापयेत्थं परानपि । यथा सर्वेऽपि मन्यतेऽन्येभ्यः स्वमान् ददेऽथ सः || ३२५ ।। तस्यामटव्यां नव्यं तत्तीर्थं तद्रूपमाशु सः । गिरेरुपरि चक्रे च किं वा देवैर्न सिध्यति ।। ३२६ ।। देवैर्विकुर्वितं पक्षमेवोत्कर्षेण तिष्ठति । कृतं तु चिरमप्यन्मूर्त्तिवदैवतोपर || ३२७ || जाते प्रभाते सूरींद्रनरेंद्रसचिवादयः । अन्येऽपि संघलोकाश्च स्वमान् प्राहुः परस्परम् ।। ३२८ ।। संवादसाहगः १ निंदा । सर्वे' प्रस्थिताः पुरतस्ततः । तथैव तीर्थं तत्तत्र दृष्ट्वा मुमुदिरेतराम् || ३२९ ।। नत्वार्चित्वा जिनं सर्वेऽभिग्रहान् स्वानंपूपुरन । देहं च हर्षरोमांचैरात्मानं सुकृतामृतैः ॥ ३३० ॥ तत्र स्नात्रध्वजारोपमालो दुघट्टनमुख्य कैः । कृत्यैः समत्रैः सर्वेऽपि धन्यंमन्यास्ततोऽचलन् ॥ ३३१ ॥ भगवद्गुणचूर्णैककार्मणात्किल पार्थिवः । चलितोऽपि पुनः पश्चाद्ववलेऽर्हन्नमस्यया ॥ ३३२|| एहिरेयाहिरामेत्र ससवारान् विनिर्ममे । स्वात्मनो रक्षणायेव सप्तदुर्गतिपाततः ।। ३३३ ।। किमेतदिति पृष्टश्च नृसिंहसिंहमंत्रिणा । माह मोक्तुमशक्तोऽस्मि तीर्थवामिवर्भिकः ।। ३३४ ।। तदत्रैव पुरं नव्यं स्थाप्यतां स्थितये मम । जहाति कः सुधीर्लब्धास्थानमिष्टं निधानवत् ॥ ३३५ ॥ वास्तुरीत्या ततस्तत्र मंत्री पुरमतिष्ठिपत् । स्वामिनोक्तं च युक्तं च न कः कुर्याद्विविक्तधीः ।। ३३६ ।। पुरे मुक्तकरे तंत्र लोभतः स्वार्थतीर्थयोः । श्रीसंघसत्का अन्ये च भूयांसोऽप्यवसन् जनाः ॥ ३३७ ॥ नाम्ना श्रीविमलपुरं पुरं तच्च प्रतिष्ठितम् । तस्यैव नाम्नः प्रामाण्यं यस्य सार्थकता भवेत् ।। ३३८ || भुंजानः प्राज्यराज्यर्द्धि श्रीजिनध्यानवासनः । राजा तत्र खं तस्यौ'द्वारवत्यामिवाऽच्युतः ।। ३३९ ।। एकः शुकश्च तचैत्ये सुस्वरः कलहंसवत् । मनोविनोदकृत् क्रीडाभूमिर्भूमिभुजोऽभवत् ।। ३४० ।। आसेदुषोऽपि प्रासादं तत्क्रीडारसतोऽस्य च । अर्हद्ध्यानं धूम्रमुच्चैर्धूमाच्चित्रमिवाभवत् ।। ३४१ ।। भूतिः प्रतिसमये पुरः श्रीऋषभप्रभोः । प्रपेदेऽनशनं सोऽथ रीतिरेषा हि धर्मिणाम् ।। ३४२ || धीरस्वति उभे कांते तस्य निर्याप नापरे । नमस्कृतीर्ददातस्म' समयज्ञा हि सद्धियः || ३४३ ।। तदा प्रासादंगाग्रेऽशब्दायत शुकः सकः । देवादेव निपस्यापि ध्यानं 'तस्मिन्नुपेयिवान् ।। ३४४ ॥ ध्यानाकृष्ट इवात्मापि शुकयोनौ प्रयातवान् । निजच्छायेव दुर्लघ्या काप्यहो भवितव्यता १ श्रीसंघसंबंधिनः संघस्थाजना इत्यर्थः । २ ' अच्युतः ' कृष्णः । श्रीश्राद्धविधिप्रकरणम 17

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134