Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 69
________________ केवलम् ॥४॥ निःस्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्यर्थ वृत्तिभिक्षेयमुच्यते ॥ ५ ॥” इयं च नातिदुष्टा निःस्वान्धादीनां धर्मलाघवकारित्वाभावेनानुकम्पानिमित्तत्वात , तस्माद भिक्षावृत्तिहस्थेन वर्जनीया, विशिष्य च धर्मवता, विशिष्टस्यापि धर्मानुष्ठानस्य, तया दुर्जनसौहार्दस्येवावज्ञानिन्दास्पदत्वाद्योपत्तेः। धर्मनिन्दानिमित्ततायां च बोधिदुष्पापतादिदोषः। यदुक्तमोघनिर्युक्तौ साधुमाश्रित्य-" छक्कायदयावंतो वि संजओ'दुल्लहं कुणइ बोहिं । आहारे नीहारे, दुगुंछि. ए पिंडगहणे अ॥१॥" न च भिक्षया कस्यचिल्लक्ष्मीसुखादिसंपत्तिः । यतः- “लक्ष्मीर्वसति वाणिज्ये किश्चिदस्ति च कर्षणे । अस्ति नास्ति च सवायां भिक्षायां न कदाचन ॥१॥" उदरभरणादिनिर्वाहमात्रं तु भिक्षया भवतीत्येषाप्याजीविकोपायतया प्रोक्ता ७ । मनुस्मृतौ चतुर्थाध्याये त्वेवमुक्तं-"ऋताऽमृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृतेन चैवापि न श्ववृत्त्या कदाचन ॥१॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥२॥ सत्यानृतं तु वाणिज्यं तेन चैवापि जीवति । सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत् ॥३॥" एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः । पठ्यतेऽपि-"महुमहँणस्सयवत्थे न चेव कमलायरे सिरी' वसइ । किंतु पुरिसाणववसायसायरे तीइ'सुहठाणं ॥१॥" वाणिज्यमपि स्वसहायनीवीबलस्वभाग्योदयदेशकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्याद्यापत्तेः । उक्तं चास्माभिः। - " स्वकशक्त्यनुरूपं हि प्रकुर्यात्कार्यमार्यधीः । नो चेदसिद्धिहीहासहीलाश्रीबलहानयः ॥१॥" अन्यैरपि -"को देशः' कानि मित्राणि' कः कालः को व्ययागमौ । कश्चाई का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः? ॥१॥ लधृत्यानान्यविघ्नानि संभवत्साधनानि च । कथयन्ति पुरः सिद्धि कारणान्येव कर्मणाम् ।। २॥ उद्भवन्ती विना यत्नमभवन्ती च यत्नतः । लक्ष्मीरेव समाख्याति विशेष पुण्यपापयोः॥३॥" वाणिज्ये व्यवहारशुद्धिश्चतुर्धा, द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र द्रव्यतः पञ्चदशकर्मादानादिनिदानं भाण्डं सर्वात्मना त्याज्यं । यतः-“धर्मबाधकरं यच्च यच्च स्यादयशस्करम् । भूरिलाभमपि ग्राह्य पण्यं पुण्यार्थिभिन तत् ॥१॥" निष्पन्नवस्त्रसूत्रनाणकस्वर्णरूप्यादि पण्यं प्रायो निर्दोष । वाणिज्ये च यथा यथा स्वल्प आरंभः स्यात्तथा तथा यतनीयं । दुर्भिक्षादावनिर्वाहहेतु यदि बहारम्भं खरकर्माद्यपि करोति, तदाऽनिच्छुः स्वं निन्दन् सशूकतयैव करोति । यदुक्तमागमोक्तभावश्रावकलक्षणे-"वज्जइ तिव्वारंभ, कुणइ अकामो अनिव्वहंतो उ । थुणइ निरारंभजणं, दयालुओ सव्वजीवेसु ॥१॥ धन्ना हु महामुणिणो, मणसावि करंति जे न परपीडं । आरंभपापविरया, भुजति तिकोडिपरिसुद्धं ॥ २ ॥" अष्टमपरीक्षितं च पण्यं न स्वीकार्य । समुदितं शङ्कास्पदं च समुदितैरव ग्राह्यं न त्वेकाकिना, विषमपाते तथैव साहायकादिभावात् । उक्तं च-" क्रयाणकेष्वदृष्टेषु न सत्यङ्कारमर्पयेत् । दद्याच बहुभिः सार्द्धमिच्छेल्लक्ष्मी वणिग्यदि ॥ १ ॥ " क्षेत्रतः स्वचक्रपरचक्रमान्यव्यसनाद्युपद्रवरहिते धर्मसामग्रीसहिते च क्षेत्रे व्यवहार्य, नत्वन्यत्र बहुलाभेऽपि । कालतोऽष्टाहिकात्रयपर्वतिथ्यादिकं वक्ष्यमाणं वर्षादिकालविरुद्धं च त्याज्यं । भावतोऽनेके भेदाः । तद्यथा-क्षत्रियव्यापारिनृपायैः सह व्यवहारः स्वल्पोऽपि न पायो गुणाय । स्वहस्तदत्तवित्तयाचनेऽपि येभ्यो भीयते, तैः सह शुभोदर्कः कथं नाम स्वल्पोऽपि व्यवहारः । तदाह-" व्यापारिभिश्च विप्रैश्च सायुधैश्च वणिग्वरः । श्रियमिच्छन्न कुर्वीत व्यवहारं कदाचन ॥१॥" उद्धारके च विरोधकारकैः कैरपि सह न व्यवहार्य । यतः-" सङ्ग्रहेऽर्थोऽपि जायेत प्रस्तावे तस्य विक्रयात् । उद्धारे नोचितः सोऽपि वैरविग्रहकारिणि ।।१॥ नटे विटे च वेश्यायां द्यूतकारे विशेषतः। उद्धारके न दातव्यं मूलनाशो भविष्यति ॥२॥"कलान्तरव्यवहारोऽपि समाधिकग्रहणकादानादिनैवोचितोऽन्यथा तन्मार्गणादिहेतुकक्लेशविरोधधर्महानिधरणाद्यनेकानर्थापत्तेः । श्रूयते हि श्रेष्ठिजिनदत्तसुतो नाम्नापि मुग्धः पितृप्रसादाल्लीलावान् । पित्रा दशनरीशुद्धकुलां श्रेष्ठिनन्दिवर्द्धनकन्यां मोढोत्सवैः परिणायितः । प्रान्ते तथैव गुणदर्शनादुगूढार्थवचोभिरेव शिक्षितः ,“ वत्स! सर्वतो दन्तैत्तिः कार्या १ । परस्य लाभार्थ धनादि दत्वा याच्यं न २ । भार्या बद्वैव ताड्या ३। मिष्टमेव भोज्यं ४ । सुखेनैव शेयं ५ । ग्रामे ग्रामे गृहं कार्य ६ । दौस्थ्ये गङ्गातटं खननीयं ७ । एतदर्थसन्देहे पाटलीपुत्रे मन्मित्रं श्रेष्ठिसोमदत्तः प्रष्टव्यः ८ इति"। भावार्थानभिज्ञः क्रमात्तथैव स कुर्वन् खेदवान् निःस्वो भार्याद्यनिष्टः सीदत्कार्यस्त्रुटद्वित्तो महामृोऽयमिति सर्वेपां हास्योऽभूत् । ततः पाटलीपुत्रे गत्वा श्रेष्ठिसोमदत्तं भावार्थ पप्रच्छ । तेनोक्तं सर्वेषां प्रियं हितं च वाच्यं १। समधिकग्रहणकादानादिना तथा धनादि देयं, यथा स्वयं परोऽर्पयति २। सापत्यैव प्रिया ताड्याऽन्यथा स्टा पितुग्रेहादी यायात्, कूपपातादि वा कुर्यात् ३ । अनादरे गृहे न भोज्यं, भोजने आदरस्यैव मिष्टत्वात ४ । निःशङ्के स्थाने वास्तव्यं यथा सुखं स्वापः स्यात, यद्वा बुभुक्षयैव भुजीत, यथा सर्व मिष्टं स्यात् ।, निद्रालुरेव शयीत, यथा यत्र तत्रापि मुखं निद्रैति ५। ग्रामे ग्रामे मैत्री कार्या यथा स्वगृहवद् भोजनादि सर्व सुसाधं स्यात् ६। दौस्थ्ये त्वद्गृहस्थगङ्गाख्यगोस्थाने खननीयं, यथा पित्रा प्रागन्यस्त निधिं लभसे ७ इति । " सोऽपि तथा कुर्वन् धनी सुखी महनीयश्च जज्ञे । इति पुत्रशिक्षादृष्टान्तः । तस्मादुद्धारे कापि न व्यवहार्य । अनिर्वहंस्तु यदि तथापि व्यवहरति, तदा सत्यवादिभिरेवसह कलान्तरमपि देशकालाद्यपे क्षयैकतिकत्रिकचतुष्कपञ्चकवृद्ध्यादिरूपं शिष्टजनानिन्दितमेव ग्राह्यं । दायकेनापि प्रोक्तवेलाया अर्वागेव तद्देयं, वचननिर्वाहाधी 68 श्रीश्राद्धविधिप्रकरणम

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134