Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
दैवयोगतः । स्यां' सखापि कुमारस्य सुखाकृद्वचनादिना ॥ ६२ ॥ एवं स्वस्वान्तसंवादिवादिनं वदति स्म तम् । हृष्टः श्रेष्ठी शुकश्रेष्ठ ! साधु साधु त्वयोदितम् ॥ ६३ ॥ गच्छ गच्छंतरां स्वच्छतेऽतुच्छतेद्रुतम् । वत्स ! वत्सस्य भूयास्त्वं' सहायच महाध्वनि ।। ६४ ।। त्वया प्रियसखेनासौ सुखेनांप्ता निजं पदम् । लक्ष्मणेनेव ' संपूर्णकामः श्रीरामवद् ध्रुवम् ।। ६५ ।। कृतार्थमानी मानीति सोऽनुज्ञादानमात्रतः । निर्ययौ पञ्जरात्कीर: ' संसारादिव सम्मतिः ।। ६६ ।। यायावर: 'स' पत्रीव' पतत्त्री' मिलितः क्षणात् । प्रेम्णांलाप्य' कुमारेण' निन्येऽक्के' लघुबन्धुवत् ॥ ६७ ॥ अश्वरत्नं नृ रत्नांप्त्याऽखर्वगर्वमिवोद्वजन् । पुरस्यैव' परिसरेऽमुश्च॑न्मि॒त्रतुरङ्गमान् ।। ६८ ।। अमझा इव समज्ञात्ते पश्चात्पतितास्ततः । आदावेव हतोत्साहा॑स्त॒स्थुस्तत्रैव दुःस्थिताः ।। ६९ ।। अथोच्चैरुत्पतत्काय एव प्रायः प्रयानयम् । उर्वीमपि न' पस्पर्श' रजः स्पर्शभयादिव ॥ ७० ॥ सरिगिरिवनोर्व्यादि कुमारस्याखिलं तदा । हयेशस्पर्द्धये वाद्यत्मतिभाति स्म सर्वतः ॥ ७१ ॥ कौतुकोत्ककुमारान्तःकरणप्रेरणादिव । महीं क्राम नविश्रामं' नर्मिस्त' कापि स श्रमं ॥ ७२ ॥ भूयः शबरसेनाभिर्भ्रमन्तीभिः' सुभीषणाम् । प्राप्तः शबरसेनाडांस' क्रमेण महाटवीम् ।। ७३ ।। नादैः कृतभयोन्मादैः श्वापदानां सुदुःसहैः । मुख्याटवीवहमिति या गर्वेणेव गर्जति ॥ ७४ ॥ मिथः करिहरि व्याघ्रवराहमहिषादयः । कुमारकौतुकायेव युध्यन्ते यत्र सर्वतः ।। ७५ ।। अपूर्ववस्तुलाभार्थी कौतुकार्थी च चेत्तदा । द्रागेहीति कुमारं याहयतीव' शिवारवैः ।। ७६ ॥ द्रुमा यत्राभितोऽप्यंश्ववेगवत्ता चमत्कृताः । मूर्द्धानं धूनयन्तीव कंपशाखाशिखामिषात् ' ॥ ७७ ॥ यस्यां शबर्यः किन्नर्य इव वर्षतरैः स्वरैः । कुमाररञ्जनायेव गायन्त्युद्भटगीतिकाः । ७८ ।। तस्यां पुरः प्रयानेकं स'तापुसकुमारकम् । दोलाधिरूढं पातालकुमारंमिव' भूमिगम् ।। ७९ ।। स्निग्धबन्धुमिव स्निग्धदृशं दर्शनमात्रतः । ददर्श दर्शनी - यानामवधिं स्निग्धया दृशा ॥ ८० ॥ युग्मम् ॥ स तापसकुमारोऽपि कुमारं माररूपिणम् । वरं कन्येव वक्ष्यिाभूद् वीडोत्सुक्य-' मुदादिभाक् ।। ८१ ।। तैस्तैर्विकारैर्विधुरोऽप्यवष्टभ्य स धृष्टताम् । आर्यः कथञ्चिदुत्तीर्य ' दोलात : ' प्रजजल्प' तम् ॥ ८२ ॥ विश्ववल्लभ ! सौभाग्यनिधे ! दृष्टौ निधेहि नः । घेहि स्थैर्य प्रसादं नो विधेहि अभिधेहि च ॥ ८३ ॥ को नाम विषयः श्लाघाविषयः क्रियते त्वया । स्ववासकरणात्किं वा पुरं विश्वेप्यऽनुत्तरम् ॥ ८४ ॥ उत्सवैराकुलं किं वा कुलं' यस्मिन्नंवातरः । का जातिर्जातिवल्लेभे सौरभ्यं सङ्गतेस्तव || ८५ ।। त्रैलोक्यानन्दजनकं जनकं तव कं स्तुमः । जननी माननीयानां माननीया च का त्वया ॥ ८६ ।। स्वजनाः के जनानन्ददायिनः सज्जना इव । स्वाजन्यं मन्यसे यैस्त्वं समग्रसुभगाग्रणीः ।। ८७ ।। माहात्म्य-धाम ! किं नाम येन त्वं हन्त कीर्त्यसे । को हेतुरिष्टसंयोगे केतुर्येनासि निःसखः ॥ ८८ ॥ पविगणनाहेतुः परा केयमपि त्वरा । किं वा प्रयोजनं 'प्रीतियोजनं यश्चिकीर्षसि ॥ ८९ ॥ तज्जल्पितं सुललितं तूर्णमाकर्णयन्निति । न केवलं कुमारोऽभूदुकर्णस्तुरगोऽपि सः ।। ९० ।। कुमारमनसा सार्द्धं तत्र तस्थौ च बाजिराद् । अश्ववारानुवृत्यैर्वाश्ववराणां हि चेष्टितम् ॥ ९१ ॥ तस्य' रूपोक्तिलालित्यमोहितात्मा' महेभ्यभूः । सर्वत्रानुत्तरत्वान्नु यावन्नैवोत्तरं ददौ ॥ ९२ ॥ उच्चैरुवाच वाचाल' इव तावत्स कीरराट् । सर्वावसरवित् प्राप्यावसरं किं विलंबते ? ।। ९३ ।। भो महर्षिकुमारेन्द्र ! कुमारस्य कुलादिना । कोऽर्थो न ह्यधुनारब्धं कर्म वैवाहिकं त्वया ।। ९४ ।। औचित्यकृत्यं त्वौचित्य चतुरस्यापि वच्मि ते । सर्वथाप्यतिथिः पूज्यः । सर्वेषां व्रतिनामपि ॥ ९५ ॥ उक्तं च लौकिकैः - " गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ ९६ ।। " ततत्ते कुमारेन्द्रायत्तं चित्तं तदा मुदा । प्रथीयः प्रथयातिथ्यं विचारैरपरैरलम् ॥ ९७ ॥ इत्युक्तिचातुरीतुष्टः । कण्ठे कीरस्य तापसः । मणिस्रजमिवाक्षेपाच्चिक्षेपां जस्रजं निजाम् ॥ ९८ व्याहरच्च' कुमारेन्द्र ! विश्वश्लाघ्यस्त्वमेव हि । यस्यैवं चतुरोत्तंसः कीरोऽपि चतुरोक्तिषु ॥ ९९ ॥ द्रुतमुत्तर सौभाग्यैरनुत्तरतुरङ्गमात् । अतिथीभव' भावज्ञ ! चरितार्थी ' कुरुष्व ' नः ॥ १००॥ इदं' पल्वलमुत्फुल्लकमलं निर्मलं जलैः । वनखण्डोऽप्यखण्डोऽयं त्वद्वशा वयमप्यथ ।। १०१ ।। तपस्विनाऽत्र ते' कीदृश्यातिथेयी मया भवेत् | नग्नक्षपणक स्थाने' भूजानेर्भक्तिरस्तु का १ ।। १०२ ।। तथापि ते यथाशक्ति भक्तिं कामपि दर्शये । स्वच्छायया' करीरोऽपि' न किं विश्रामकृत्कचित् ॥ १०३ ॥ सद्यः प्रस विज्ञप्तिं प्रपद्यस्व तर्दद्य नः । न सन्तः पथिकाः कापि ' प्रार्थनाव्यर्थनापथे || १०४ ॥ तथैव कर्त्तुकामः प्राक् प्रेरितः शकुनैरिव । इति तद्वचनैरश्वादुततार कुमार ।। १०५ ।। म नसा प्राक् तदानीं तु वपुषापि सुखाकृता । प्रीतेः संयुयुजाते तो जन्मतः सुहृदाविव ।। १०६ ।। मिथः प्रीतिस्थिरीकारांव्यभिचाराय' किंतु' तौ । किश्चिद्विचेरतुस्तत्र परस्परकरार्षिणौ ।। १०७ || प्रीत्या 'मिथः करस्पर्शकारिणौ चित्तहारिणा । कलभौ शुशुभाते 'तौ काननान्तर्विहारिणौ ।। १०८ ।। तस्मै गिरिसरित्पद्मांकरक्रीडास्पदादिकम् । स्वं सर्वस्वमिर्वाटव्यां तापसः शंसति स्म सः ।। १०९ ।। सोऽपूर्वांश्च तरून् कांश्चिन् फलपुष्पर्द्धिभिर्गुरून् । गुरूनिव निजांस्तस्मै नामादेशमुपादिशत् ।। ११० ।। ततः श्रमपिनोदाय विनोदाय च पल्वले । स्नानं चकार करिवत्कुमारः स ऋषेर्गिरा ॥ १११ ॥ ततः सौस्नातिकीभूय कुमाराय' समानयत् । ऋषिः पक्वा अपक्वाश्च द्राक्षाः साक्षात्सुधा इव ।। ११२ ।। पक्वान्यांम्राणि कम्राणि यानि प्रेक्ष्यापि चक्षुषा । क्षिप्रं कंमाणि जायन्ते चेतांसि व्रतिनामपि ॥ ११३ ॥ फलानि नालिकेरीणां कदलीनां च नैकशः । पकक्षुधाकरीणाञ्च' खर्जूरीणां च' भूरिशः ।। ११४ ॥ राजादनानि स्वादुत्वसदनानि 'घनानि च । पचेलिमाने च क्षीरांमलकान्येप्यनेकशः ।। ११५ ।।
श्रीश्राद्धविधिप्रकरणम
88

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134