Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
अननुगुणयोगे हि दम्पत्योर्विडम्बनैव गृहवासः । मिथो विरक्तत्वे चनुिचितप्रवृत्त्याद्यपि स्यात् । श्रृयते हि धारायां भोजराज्ये एकत्र गृहे पुमानत्यन्तं कुरूपो निर्गुणश्च स्त्री चात्यन्तं सुरूपा'सगुणा च । गृहान्तरे तु तद्वैपरीत्यं । अन्यदा चौरेण तद्नेहयोः खात्रमदाने उक्त्यादिनाननुगुणौ दंपती दृष्ट्वा सुप्तस्त्रीद्वयपरावर्त्तश्चक्रे । ययोः सुयोगो जज्ञे, तो मार्गत्युद्विग्नौ । तदा हृष्टौ मिलितौ । अन्येन तु नृपसभे तद्विवादे पटहोद्घोषे चौरेणोक्तं-" मया' निशिनरेन्द्रेण, परद्रव्यापहारिणा । लुप्तो विधिकृतो मार्गो, रत्नं रत्नेन योजितम् ॥१॥" हसितेन राज्ञा तथैव प्रमाणीचक्रे । विवाहभेदायग्रे वक्ष्यते । 'गिह ति' गृहभारनियुक्तश्च सुतो निरन्तरतचिन्ताक्रान्ततया स्वाच्छन्योन्मादादेरपदमेव स्यात् । बहुक्लेशायासलभ्यानि च धनानि जाननानुचिते व्यये धियं धत्ते । ' पहुत्तणं ति' गृहे प्रभुत्वं च दत्ते । प्रतिष्ठा हि गुरुदत्तैव स्यात् । गृहभारारोपणादि च लघावपि पुत्रे सुपरीक्ष्य योग्ये एव कार्य । तथैव निर्वाहशोभादिसंभवात् । यथा प्रसेनजिन्नृपेण तत्तत्परीक्षापूर्व शततमे पुत्रे श्रेणिके राज्यं न्यस्तं । पुत्रवत्पुत्रीभ्रातृव्यादिष्वपि यथाईमौचित्यं ज्ञेयं । एवं स्नुषाया अपि । यथा धनश्रेष्ठिना पश्च पञ्च शालिकणार्पणेन परीक्ष्य तुर्या वधू रोहिणी गृहस्वामिनी चक्रे । वृद्धास्तूज्झिताभोगवतीरक्षिताछगणाधुज्झनरन्धनकोशचिन्तासु नियुक्ता यथा क्रमं । “पञ्चेकं न पसंसइ, वसणीवहयाण 'कहइ दुरवत्थं । आयं वयमवसेसं, च सोहए सयमिमेहिं तो॥२२ ।।" "प्रत्यक्ष गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रियः ॥१॥" इति वचनात् पुत्रप्रशंसामयुक्तामप्यन्यथा निर्वाहादर्शनादिहेतुना चेत्कुर्यात्तदापि न प्रत्यक्ष गुणवृथ्वभावाभिमानादि दोषापत्तेः। द्यूतादिव्यसनिनां निर्धनत्वन्यत्कारतर्जनतारनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्तते। आय व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः स्वयं शोधयति । एवं स्वस्य प्रभुत्वं पुत्राणां च स्वच्छन्दत्वमपास्तं भवति । “दसेइ नरिंदसमं, देसंतरभावपयडणं कुणइ । इच्चाइ अवच्चगयं, उचिअंपिउणो मुणेयव्वं ॥ २३ ॥" अपरिचितराजसभो हि दैवादतर्कितापतिते व्यसने कांदिशीक एव स्यात्तथाविधश्च निष्कारणद्वेषिभिः परसंपदसहिष्णुभिः खलजनैरुपहन्यते। तत्पठन्ति-"गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः। यद्यपि न भवन्त्यास्तथाप्यन विलीयन्ते ॥१॥" देशान्तराचारव्यवहारानभिज्ञो हि प्रयोजनवाद्देशान्तरगतस्तत्रत्यैवैदेशिक इति सुखं व्यसनादौ पात्यते । एवं पुत्रवत्पुत्र्यादेः पितृवच्च मात्रादेः, पुत्रस्नुषादेर्यथासंभवमौचित्यं सत्याप्यं । विशिष्य च सापत्नस्य । स हि प्रायो न्यूनमानी विमातृदत्तमासपेयावान्तिकृत्पुत्रवत् । “ सयणाण समुचिअमिणं, जं ते निगेहबुडिकज्जेसु । सम्माणिज सयावि हु, करिज हाणीसु वि समीवे ॥२४॥" पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः । वृद्धिकार्याणि पुत्रजन्मादीनि । “सयमावि तेसिं वसणसवेसु होअव्वमंतिमि सया। खीणविहवाणरोगाउराण कायन्वमुद्धरणं ॥ २५ ॥ " 'वसणि त्ति'-"आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च, यस्तिष्ठति स बान्धवः ॥१॥" इति वचनात । स्वजनोद्धरणं हि तत्चत आत्मोद्धरणमेव । यतोऽरघट्टघटीनामिव प्राणिनां पायोऽनैकान्तिकी रिक्तता पूर्ण प्युपस्थितायां दुरवस्थायामुपकृतचरेभ्यस्तेभ्य एवोध्धृतिः स्यादतः समयं पाप्य स्वजनोद्धारो विधेय एव । “खाइज पिटिमंसं, न तेसि कुजा न सुक्ककलहं च । तदमित्तहि मित्ति, न करिज' करिज मित्तेहिं ॥ २६ ॥ " शुष्ककलहो हास्यादिना वाग्वादश्चिरमरूढपीतिलतालवित्ररूपः । " तयभावे तग्गेहं, न वइज्ज चइज्ज अत्थसंबंधं । गुरुदेवधम्मकज्जेसु एगचित्तेहिं होअव्वं ॥२७॥" मोषितपुरुषे केवलोषितयोषिति स्वजनगृहे एकाकी' न विशेत् । स्वजनैः सह द्रव्यव्यवहारोऽपि प्रथमं किश्चित् प्रणयं प्रपञ्चयमपि पर्यन्ते प्रथयत्येव प्रतिपन्थिताम् । तथाह-" यदीच्छेद्विपुलां प्रीतिं, त्रीणि तत्र'न कारयेत् । वाग्वादमर्थसम्बन्ध, परोक्षे दारदर्शनम् (भाषणम्)॥१॥" ऐहिककार्येष्वपि स्वजनादिभिरेकचित्तवायतिहिता। चैत्यादिकार्येषु तु विशिष्य, बहधीनत्वात्तेषां । तथैव च निर्वाहशोभादिसंभवादतस्तानि सर्वसांमत्येन कार्याणि । स्वजनैः सहैक्ये पञ्चाङ्गल्यो ज्ञातं । यथा लिखनचित्रणादिषु मायः सर्वकार्येष्व॑ग्या वस्तुदर्शने उत्कृष्टवर्णने परवर्जने'चञ्चूपुटिकादौ च विशिष्य पटुर्गर्विता तर्जनी मध्यमां पाइ ' तव के गुणाः' ? तयोक्तं-" मुख्याहं 'महती मध्यस्था तन्त्रीगीततालादिकुशला कार्योत्सुक्ये चप्पुटिकया सङ्केतकृत्, तथैव दोषच्छलादिहन्त्री टिप्परिकया शिक्षाकृच्च ।" एवं तृतीयाप्यूचे-“देवगुरुस्थापनाचार्यसाधर्मिकादीनां नवारचन्दनपूजामाङ्गल्यस्वस्तिकनन्द्यावर्तादिकरणजलचन्दनवासायभिमन्त्रणादि मदायत्तं । " तुर्याप्यूचे-“ अहं सूक्ष्मा कर्णान्तः
नादिसूक्ष्मकार्यक्षमा, देहकष्टे छेदादिपीडासहा शाकिन्यादिदोषनिग्रहहेतुः, जापसङ्खाकरणादौ च धुरि वर्ते । ततस्ताभिमिथः सखीत्वमादृत्याक्षिप्तोऽङ्गुष्ठकः माह-" रे ! रे ! अहं वो भ" मा विना लिखनचित्रणादिकवलग्रहणचिप्पुटिकाच
चुपुटिकाटिप्परिकामुष्टिबन्धग्रन्थिबन्धशस्त्रादिव्यापारणश्मश्रुसमारचनकर्त्तनलोचनपिञ्जनवानधावनकण्डनपेषणपरिवेषणकण्टककर्षणगवादिदोहजापसंख्याकरणकेशपुष्पग्रथनपुष्पपूजादि किमपि न स्यात् । वैरिगलग्रहतिलककरणश्रीजिनामृतपानाङ्गष्ठप्रश्नादि मदेकायत्तं । ततस्तास्तमाश्रित्य सर्वकार्यायसाधयन् । “एमाई सयणोचिअमह धम्मायरिअसम्रचि भणिमो । भत्तिबहुमाणपुव्वं, तेसिं तिसंज्झपि पणिवाओ॥ २८ ।।" भक्तिरान्तरी प्रीतिः। बहुमानस्तु वाचिकः कायिकश्च । “ तईसिम नीईए, आवस्सयपमुहकिच्चकरणं च, धम्मोवएससवणं, तदंतिए सुद्धसद्धाए ॥ २९ ॥ आएसं बहु मन्नइ, इमेसि मणसावि
श्रीश्राद्धविधिप्रकरणम
81

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134