________________
तन्न' किं कुर्युस्तीर्थवंदन'मोदरात् ॥ २९६ ॥ धन्या मान्याश्च' जगतामपि ' ते 'स्वांघ्रिचारतः । सिद्धक्षेत्रे यात्रा यथाविधि विषंति ये ।। २९७ ।। आहुआ “ छेटुंण भत्तेणं अपाणएणं तु सत्त जत्ताओ । जो कुणइ सित्तुंजे सो तइअभवे लहइ सिद्धिं ॥। २९८ ।। " तस्यैता भद्रकत्वादि गुणवत्त्वाद्गुरोर्गिरः । हृदि कृष्णमृदि क्ष्माया मार्दवं वार्दवद् व्यधुः ॥ २९९ ॥ जगन्मित्रगुरोर्युक्तं ' गोविलासैः सपर्थभूत् । क्षमापतिः क्षीणतमाः सम्यक्त्वत्वमकाशयुक् || ३०० ।। तदाप्तसम्यक्सम्यक्त्वस्तद्यात्रोत्कंठया' रयात् । मंत्रिणः सोऽभ्यधाद्' भो भोस्त्वर्यतां सज्जिकाविधौ ।। ३०१ ।। विमलाद्रौ युगादीशे वंदितेऽन या ग्राह्ये गम्यं चांघ्रिचारेणैवेर्त्यभ्यग्रहीच्च सः ॥ ३०२ ॥ श्रुत्वेति इंसीसारस्यौ भूयांसोऽन्यजना आप । तथैवा तथा प्रजाः ।। ३०३ ॥ स 'किं' भावो भवेद्यत्र कार्ये कापि विचारणा । न व्यचार्यत राजाही तीर्वा ॥ ३०४ ।। केदं स्थानं कर्चात्यंतं दूरे श्रीविमलाद्रिराट् । अहहा सहसा कोऽयमभिग्रहमहाग्रहः ।। ३०५ ॥ इत्याद्यादिषुत्रिमुख्याः क्षितिपतिं प्रति । गुरवोऽप्यूचिरे राजन्विचार्यैवाभिगृह्यते ।। ३०६ ।। अविचार्यकृते कार्ये पश्चात्तापोऽपि जायते । तस्मिन्न कश्चिलाभश्च दुष्कृतं प्रत्युतार्त्तितः ॥ ३०७ ॥ महोत्साहो महीनेता प्रत्यवोचत हे प्रभो ! | अभिग्रहे गृहीते प्रांका व्यर्थाय विचारणा ।। ३०८ ।। पीतनीरस्य किं नाम मंदिरादिक पृच्छया । कृतक्षौरस्य वा पुंसः किं १ नक्षत्रपरीक्षया ॥ ३०९ ॥ पञ्चात्तापं विनैवाहं 'निर्वाहं स्वमभिग्रहम् । नेतर्नेतास्मि 'श्रीदेवगुरुपादप्रसादतः || ३१० || व्योम्नोंऽतमेति किं । नार्कप्रसादादरुणोऽन्वहम् । इत्युक्त्वा' संघसार्थे द्राक् सबलोऽप्यैचलन्नृपः ॥ ३११ ॥ कर्मवैरिष्ववस्कंददानायेव ' जवाद् व्रजन् । दिनैः । कियद्भिः
१ विषति इति नामधातुरूपं । २ मेघवन् । ३ अभिप्रमकुर्वन् ।
काश्मीरदेशांतः प्राप 'सोऽटवीम् ॥ ३१२ ॥ क्षुत्तृचरणचारित्वमार्गखेदादिना तदा । राझो राज्योश्व संजातात्यंतिकी व्याकुलात्मता ।। ३१३।। ततश्चिंतातुरः सिंहश्चतुरः सचिवेश्वरः । सूरीन् माह प्रभो ! युक्त्या नृपः पर्यवसाप्यताम् ||३१४ ॥ धर्मस्थानेऽन्यदा नूनमुड्डाहो भविता जने । गत्वा तेऽप्यभ्यधुर्भूप ! लाभालाभं विभावय ।। ३१५ ।। सहसा विहितं कार्यं न प्रायेण प्रमाण्यते । आकाराः सहसाकारादयः सर्वत्र हि स्मृताः ।। ३१६ ॥ अतिक्लांतोऽपि वपुषाऽनतिकांतस्तु चेतसा । भूपोऽभ्यथात्मर्त्यशक्तमुपदेश्यमिदं प्रभो ! ।। ३१७ || अहं तु स्वोक्त निर्वाहेऽलंकर्मीणैकविक्रमः । प्राणप्रहाणमप्यस्तु नान्यथाभिग्रहस्तु मे ॥ ३१८ ॥ उत्साहयंत्यौ सोत्साहे तन्निर्वाहे निजं प्रियम् । वीरपत्न्यौ वीरपत्नीव्रतं ते अपि तेनतुः || ३१९ ।। अहो धर्मैकचित्तत्व॑म॒हो धर्मकुटुंबता । अहो सात्विकतेत्युच्चैस्तदा श्लाघि न कैर्नृपः ॥ ३२० ॥ अथ किं भावि किं कृत्यमिति चिंताचिताकुलः । तत्र रात्रो सिंहमंत्री सुप्तस्तप्तहृदंबुजः || ३२१ ।। विमलादेरधिष्ठाता स्वप्नांतर्यक्षगोमुखः । साक्षाद्भूयांचचक्षे तं चिंतां' मंत्रीश ! माकृथाः || ३२२ || महीशसाहसाकृष्टस्तुष्टोऽहं दिव्यशक्तितः । विमलाद्रिमहातीर्थ प्रत्यासन्नं समानयम् ॥ ३३३ ॥ प्रातश्वलद्भिस्तद्यामसमये द्रक्ष्यते ध्रुवम् । तत्र नत्वा जिनं सर्वैः पूरणीया अभिग्रहाः || ३२४ || मंत्रिणा स्वम एवोक्तं ज्ञापयेत्थं परानपि । यथा सर्वेऽपि मन्यतेऽन्येभ्यः स्वमान् ददेऽथ सः || ३२५ ।। तस्यामटव्यां नव्यं तत्तीर्थं तद्रूपमाशु सः । गिरेरुपरि चक्रे च किं वा देवैर्न सिध्यति ।। ३२६ ।। देवैर्विकुर्वितं पक्षमेवोत्कर्षेण तिष्ठति । कृतं तु चिरमप्यन्मूर्त्तिवदैवतोपर || ३२७ || जाते प्रभाते सूरींद्रनरेंद्रसचिवादयः । अन्येऽपि संघलोकाश्च स्वमान् प्राहुः परस्परम् ।। ३२८ ।। संवादसाहगः
१ निंदा ।
सर्वे' प्रस्थिताः पुरतस्ततः । तथैव तीर्थं तत्तत्र दृष्ट्वा मुमुदिरेतराम् || ३२९ ।। नत्वार्चित्वा जिनं सर्वेऽभिग्रहान् स्वानंपूपुरन । देहं च हर्षरोमांचैरात्मानं सुकृतामृतैः ॥ ३३० ॥ तत्र स्नात्रध्वजारोपमालो दुघट्टनमुख्य कैः । कृत्यैः समत्रैः सर्वेऽपि धन्यंमन्यास्ततोऽचलन् ॥ ३३१ ॥ भगवद्गुणचूर्णैककार्मणात्किल पार्थिवः । चलितोऽपि पुनः पश्चाद्ववलेऽर्हन्नमस्यया ॥ ३३२|| एहिरेयाहिरामेत्र ससवारान् विनिर्ममे । स्वात्मनो रक्षणायेव सप्तदुर्गतिपाततः ।। ३३३ ।। किमेतदिति पृष्टश्च नृसिंहसिंहमंत्रिणा । माह मोक्तुमशक्तोऽस्मि तीर्थवामिवर्भिकः ।। ३३४ ।। तदत्रैव पुरं नव्यं स्थाप्यतां स्थितये मम । जहाति कः सुधीर्लब्धास्थानमिष्टं निधानवत् ॥ ३३५ ॥ वास्तुरीत्या ततस्तत्र मंत्री पुरमतिष्ठिपत् । स्वामिनोक्तं च युक्तं च न कः कुर्याद्विविक्तधीः ।। ३३६ ।। पुरे मुक्तकरे तंत्र लोभतः स्वार्थतीर्थयोः । श्रीसंघसत्का अन्ये च भूयांसोऽप्यवसन् जनाः ॥ ३३७ ॥ नाम्ना श्रीविमलपुरं पुरं तच्च प्रतिष्ठितम् । तस्यैव नाम्नः प्रामाण्यं यस्य सार्थकता भवेत् ।। ३३८ || भुंजानः प्राज्यराज्यर्द्धि श्रीजिनध्यानवासनः । राजा तत्र खं तस्यौ'द्वारवत्यामिवाऽच्युतः ।। ३३९ ।। एकः शुकश्च तचैत्ये सुस्वरः कलहंसवत् । मनोविनोदकृत् क्रीडाभूमिर्भूमिभुजोऽभवत् ।। ३४० ।। आसेदुषोऽपि प्रासादं तत्क्रीडारसतोऽस्य च । अर्हद्ध्यानं धूम्रमुच्चैर्धूमाच्चित्रमिवाभवत् ।। ३४१ ।। भूतिः प्रतिसमये पुरः श्रीऋषभप्रभोः । प्रपेदेऽनशनं सोऽथ रीतिरेषा हि धर्मिणाम् ।। ३४२ || धीरस्वति उभे कांते तस्य निर्याप नापरे । नमस्कृतीर्ददातस्म' समयज्ञा हि सद्धियः || ३४३ ।। तदा प्रासादंगाग्रेऽशब्दायत शुकः सकः । देवादेव निपस्यापि ध्यानं 'तस्मिन्नुपेयिवान् ।। ३४४ ॥ ध्यानाकृष्ट इवात्मापि शुकयोनौ प्रयातवान् । निजच्छायेव दुर्लघ्या काप्यहो भवितव्यता
१ श्रीसंघसंबंधिनः संघस्थाजना इत्यर्थः । २ ' अच्युतः ' कृष्णः ।
श्रीश्राद्धविधिप्रकरणम
17