________________
1
॥ ३४५ ॥ अंते हि ' या मतिः सैव गतिरित्युच्यते बुधैः । मुधैवेयं श्रुतिर्माभूदितीव स शुकोऽभवत् ॥ ३४६ ॥ युक्तं शुकादिकक्रीडानर्थहेतुः स्मृता जिनैः । तस्य सम्यग्दृशोऽप्यासीद्यत्तया तादृशी गतिः ॥ ३४७ ॥ तादृग् धर्म्येकयोगेऽपि यदभूत्तस्य सा गतिः । तज्जीवगतिवैचित्र्यं स्याद्वादो वा स्फुटीकृतः ॥ ३४८ ॥ दुर्गतिद्वयदुष्कर्म प्राणी तीर्थेऽत्र यात्रया । क्षिपेत्परं पुनर्बंधे तस्य भोगोऽपि संभवेत् ।। ३४९ ।। नचैवं तीर्थमाहात्म्यहानिर्यद् वैद्यसज्जितः । भुक्त्वा' कृ॒पथ्यं' चेन्मंदी स्यात्तत्किं भिषजोऽयशः ।। ३५० ।। प्राग् दुर्दैवोत्थदुर्ध्याना॑द्यद्यप्येषोऽभवत्तथा । तथाप्यप्ता दुतं सम्यक्' सम्यक्त्वैकफलं महत् ।। ३५१ ॥ प्रेत्यकृत्ये कृते राज्ञः प्रव्रज्य प्रथमेद्यवि । क्रमेण हंसीसारस्यौ देव्यौ देव्यौ बभूवतुः ॥ ३५२ ।। ताभ्यामवधिना प्रेक्षि प्रियजीवोऽस्ति कुत्र नौ । अदर्शि च शुकः' खेदादागत्य प्रत्यबोधि च ॥ ३५३ ॥ तत्रैव तीर्थेऽनशनं 'ग्राहितश्च मृतस्ततः । सोऽभूद्देवस्तयोर्भर्त्ता युक्तं तस्येदृशं द्रुतम् ॥ ३५४ ॥ कालक्रमेण ते देव्यौ च्युते पूर्व ततोऽन्यदा । देवेन केवल पृष्टोऽस्मि किं सुलभबोधिकः || ३५५ ॥ प्रभो ! दुर्लभबोधिर्वा भवान् सुलभबोधिकः । इत्युक्ते ज्ञानना' तेनायूचे' कथमिदं पुनः || ३५६ ।। जजल्प केवली यत्ते च्युते देव्यावुभे पुरा । हंसीजीवस्तयोर्मध्यात्पुरे क्षितिमतिष्ठिते ।। . ३५७ ।। मृगध्वजाहयो राजा ऋतुध्वजनृपात्मजः । जातोऽस्ति' सारसीजीवः पुनः स्थानांत॑श्युतः ॥ ३५८ ॥ उपकाश्मीरमध्यस्थविमलाचलमश्रिमे । प्राक् लृप्तमायया पुत्री जातास्ति गांगलेर्मुनेः ॥ ३५९ ॥ नाम्ना कमलमालेति तयोर्जातिस्मरः सुतः । त्वं भातीति सुरः श्रुत्वा शुकरूपः सदुक्तिभिः ॥ ३६० ॥ त्वां तस्मिन्नाश्रमे ' निन्ये कन्यहिलंकृतर्ददे ।
१ प्राप्स्यति । २ प्रथमस्वर्गलोके ।
पश्चादानीय सैन्येन त्वां संयोज्य दिवं ययौ ।। ३६१ ।। पंचभिः कुलकम् ।। ततश्युत्वा पुनः सोऽयं युवयोस्तनयोऽजनि । स्वद्वृत्तं च तदा श्रुत्वा जाति स्मृत्वा विमृष्टवान् ।। ३६२ ।। पितरौ प्रागभूतां मे पत्न्यौ तत्कथमेतयोः । तात मातरिति ब्रूयां । मौनमेव वरं ततः ।। २६२ ।। दोषं किंचिद्विनाप्येष जोषपोषं व्यधादिति । अस्मद्वाक्यमनुल्लंघ्यं मन्वान॒स्त्वैधुनाऽभ्यधात् ।। ३६४ ।। निश्चलं बालभावेऽपि प्राग्भवाभ्यस्तमस्य च । सम्यक्त्वाद्यं हि संस्कारः प्रागभ्यासवशः किल ।। ३६५ ॥ शुकराजोऽपि निर्व्याजं व्याजहार तथैव तत् । तं ज्ञानी पुनरप्यूचे शुक! किं १ चित्रमत्र भोः || ३६६ ॥ भवनाटकमीदृक्षमेवांस्ते यदनंतशः । सर्वजीवैर्मिथः सर्वसंबंधा लब्धपूर्विणः || ३६७ ॥ यतः - “ यः पिता स भवेत्पुत्रो यः पुत्रः स भवेत्पिता । या कांता सा भवेन्माता या माता सापि सा भवेत् ॥ ३६८ ॥ न सा जाई' न सा जोणी न तं ठाणं न तं कुलं । न जाया न लुया 'जथ्थ'सव्वे जीवा अनंतसो ।। ३६९ ||” तस्मान्न रागः कर्त्तव्यो नैव द्वेषश्च कुत्रचित् । व्यवहारोंऽनुसर्त्तव्यः केवलं' समताभृता ।। ३७० ।। ममापीदृक्षसंबंधो वैराग्यैकनिबंधनम् । विशेषेण यथा जज्ञे तथा सम्यग् निशम्यताम् ।। ३७१ ।। श्रीमंदिरपुरे श्रीणां मंदिरेऽस्ति नरेश्वरः । दुर्दातः सूरकांत: स्त्रीलंपटः कपटप्रियः ।। ३७२ ।। वदा॒न्य॑स्तस्य ' मान्यश्च सोमः ' श्रेष्ठिधुरंधरः । श्रीरूपजैत्ररूपश्रीः सोमश्रींस्तस्य च प्रिया ॥ ३७३ ॥ श्रीदत्तस्तु तयोः पुत्रः श्रीमती दयितस्य च । तेषां चतुर्णा संयोगः पुण्ययोगादजायत || ३७४ ॥ यतः – “ यस्य पुत्रा वशे भक्ता भार्या छंदानुवर्त्तिनी । विभवेष्वपि संतोष - स्तस्य स्वर्ग इहैव हि ॥ ३७५ ।। समं सोमश्रिया सोमश्रेष्ठी क्रीडितुमन्यदा । उद्यानेऽगान्नृदेवोऽपि माप तत्रैव दैवतः
१ मौन पुष्टिम् ।
।। ३७८ ।।
”
।। ३७६ ।। तां च सोमश्रियं प्रेक्ष्य प्रक्षुभ्य॑द्रागसागरः । दुष्टस्वांतः क्षणात् क्षोणिकांतः स्वांतः पुरेऽक्षिपत् ॥ ३७७ ॥ यतः – “ यौवनं धनसंपत्तिः । प्रभुत्वमविवेकिता । एकैकमध्येनर्याय किं पुनस्तच्चतुष्टयम् राज्यलक्ष्मीलतायां हि । दावाग्भिर्दुर्नयः स्मृतः 1 तत्कथं राज्यवृद्ध्यर्थी कामयेतन्यिकामिनीम् ॥ ३७९ ॥ अन्यायतोऽन्ये राज्ञैव निवार्यते जनाः सदा । स्वयं कुर्यात्स चेत्तं तन्मात्स्यो न्यायः प्रवर्त्तताम् ॥ ३८० ॥ श्रेष्ठिप्रणुन्नैर्मत्र्याद्यैरित्याद्युक्तः स 'युक्तिभिः । तान् 'प्रत्येमुचद्दुर्वाक्यज्वालामालां न' तां पुनः ।। ३८१ : धिंगहो दुष्टचित्तत्वं युक्ता बा वह्निवर्षिता । प्रधानभानुगोयोगे' सूरकतिस्य' तत्क्षणम् ।। ३८२ ॥ प्राहुर्मत्र्यादयः श्रेष्ठिन् ! कोऽप्युपायोऽत्र नेक्ष्यते । कर्णे कथं धार्यः कथं वार्यः प्रभुर्भुवः || ३८३ || रक्षार्थमेव विहिता 'चिर्भटान्यत्ति चेद्' दृतिः । तदा तेषां कथं कार्या' रक्षा' दक्षाग्रगैरपि || ३८४ || लोकेप्युक्तं - “ माता यदि विषं दद्याद्विक्रीणीत पिता सुतम् । राजा हरति सर्वस्वं ' का ' तत्र परिदेवना || ३८५ ।। ” श्रेष्ठिमुख्यो विलक्षोऽथ पुत्रं प्राह महानहो । बभूव दुर्दैववशादसंभाव्यः पराभवः || ३८६ ।। यतः“ सयंते प्राणिभिर्बादं पितृमातृपराभवाः । भार्यापरिभवं ' सोढुं तिर्यंचोऽपि न हि क्षमाः || ३८७ ॥ " येन तेनाप्युपायेन' युज्यतेऽत्र प्रतिक्रिया । उपायश्चैक एवास्ति द्रव्यव्ययमयः स तु ।। ३८८ ।। षड् द्रव्यलक्षाः नः संति तन्मध्याल्लक्षपंचकम् । सार्द्ध साँर्द्धं गृहीत्वाहं' यास्यामि' कापि दूरतः || ३८९ ।। सेविष्ये' कंचन प्रोद्यैर्भूपालं बलवत्तरम् । वालयिष्यामि तेंऽवां च तद्बलातक्षणादपि || ३९० || स्वयं प्रभुत्वं स्वहस्तगं वा प्रभुं विना नो निजकार्यसिद्धिः । विहाय पोतं तदुपाश्रितं वा वारांनिधिं '
"
१ दुष्टहृदयः । २ सूर्यकांतमणेः प्रधानभानुरश्मियोगेऽग्निवर्षणं युक्तम् तद्वत् सूरकांतनूपस्य मंत्रिवाम्योगे वाक्यज्वाला मालादर्षगं क्तं । 3 ह ।
18
श्रीश्राद्धविधिप्रकरणम