Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 50
________________ त्रापि । इति स्नात्रविधिः । प्रतिमाश्च विविधास्तत्तूजाविधौ सम्यक्त्वकरणे इत्युक्तं-"गुरुकारिआइ केई, अने सयकारिआइ तं विति । विहिकारिआइ अन्ने, पडिमाए पूअणविहागं ॥१॥" व्याख्या-गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वपतिमा अविशेषेण पूजनीयाः । सर्वत्र तीर्थकदाकारापलंभेन तदबुद्धरुपजायमानत्वादन्यथा हि स्वाग्रहवशादर्हद्विम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षगो बलाद दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गालक्षणदोषापत्तिरागमनामाण्यात् । तथा हि श्रीकल्पभाष्ये—“निस्सकडमनिस्सकडे अ चेइए सव्वहिं थुई तिन्नि । वेलंवचेइआणिअनाउं इक्किक्किा वावि ॥१॥" निश्राकृते गच्छयतिबद्धे, अनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति । भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्या । चैत्ये तन्तुजालादौ विधिमाह-" सीलेहमखफलए, इअरे चोइंति तंतुमाईसु । अभिजोइंति सवितिसु अणिच्छफेडतदीसंता ।। २ ।।" इतरेऽसंविग्ना देवकुलिका इत्यर्थः, तांस्तन्तुजाललूतापुटकादिषु सत्सु ते साधवो नोदयंति, यथा शीलयत परिकर्मयत, मङ्खफलकानीव मङ्खफलकानि देवकुलानि, मङ्खो नाम चित्रफलकव्यग्रहस्तस्तस्य च यदि फलकमुज्ज्वलं भवति । ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः संमार्जनादिना सम्यगुज्ज्वालयत, ततो भूयान् लोको भवतां पूजासत्कारं कुर्यात् । अथ ते देवकुलिकाः सत्तिकाश्चैयातिवद्धगृहक्षेत्रादित्तिभोगिनस्ततस्तानभियोजयन्ति, निर्भर्त्सयन्ति, यथा एकं तावद्देवकुलानां वृत्तिमुपजीवथ, द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ, इत्यमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति, ततोऽदृश्यमानाः स्वयमेव स्फेटयन्त्यपनयन्तीति तत्तिः । एवमागमाच्च विनश्यच्चैत्याद्युपेक्षा संयतेनापि सर्वथा न कार्येत्यागतं । अयं च चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिमाप्तमाश्रित्योक्तस्तस्यैवैतद्योगसंभवात् । अनृद्धिमाप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याद्युपयुक्तः साधुवचैत्यं याति नषेधिकीत्रयादिभावपूजानुयायिविधिना । स च पुष्पादिसामग्र्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि किंचित् पुष्पग्रथनादि कर्त्तव्यं स्यात्तत् करोति । ननु कथं सामायिकत्यागेनात्र द्रव्यस्तवस्यौचित्यं ? उच्यते, सामायिकमस्य स्वायत्तत्वात् सकलकालमपि कर्त्तव्यं स्यात्, चैत्यकृत्यं तु समुदायायत्तत्वात्कादाचित्कं, प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः । यदागमः-“जीवाणबोहिलाभो, सम्मदिट्ठीण होइ पिअकरणं । आणा जिणंदभत्ती, तित्थस्स पभावणा चेव ॥१॥" एवमनेके गुणास्तस्मात्तदेव कर्त्तव्यं । उक्तं च दिनकृत्यसूत्रेऽपि-" एवं विही इमो सम्बो, रिद्धिमंतस्स देसिओ । इअरो निअगेहम्मि, काउं सामाइयं वयं ॥१॥ जइ न कस्सइ धारेइ, न विवाओ अ विज्जए । उवउत्तो मुसाहव्य, गच्छए जिणमंदिरे ।। २॥ कारण अत्थिजइ किंचि कायव्वं जिणमंदिरे । तओ'सामाइअंमोत्तुं, करे जंकरणिज्जयं ॥३॥" अत्र च सूत्रगाथोक्तविधिनेति पदेन दशत्रिकाभिगमपंचकादिचतुर्विंशतिमूलद्वारैश्चतुःसप्तत्यधिकद्विसहस्रीमितप्रतिद्वाररूपो भाप्यायुक्तः सर्वोऽपि विधिरभ्यूह्यः यथा-"तिनिनिसीही तिनि उ पेयाहिणा तिनि चेव य पैणामा । तिविहा पूऔय तहा, अवत्यति अभावणं चेव ॥१॥ तिदिसि निरिक्षणविरई, पयभूमिमज्जणं च तिरकुत्तो। वनाईतिरं मुद्दांति न तिविहं च पणिहाणं ॥२॥" इत्यादि, । विधिप्रधानमेव च विधीयमानं सर्व देवपूजावंदनकादि धर्मानुष्ठानं महाफलमन्यथा त्वल्पफलं सातिचारतया च जातु ततः प्रत्यपायादेरप्यापत्तिः । उक्तं च-“धर्मानुष्ठानवैतथ्यात्मत्यपायो महान् भवेत् । रौद्रदुःखौघजननो दुष्पयुक्तादिवोषधात् ॥ १॥" चैत्यवन्दनादेश्वाविधिना विधाने प्रायश्चित्तमप्युक्तमागमे। तथाच महानिशीथसप्तमाध्ययनसूत्र-" अविहीए चेइआई. बंदिज्जा तस्सणं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अन्नेसिं असद्धं जणेइ इइ काऊणं । " देवताविद्यामंत्रादयोऽपि विधिनैवाराद्धाः सिद्धिफला, अन्यथात्वनाद्यपि सद्यः कुर्युः । यथा ऽयोध्यायां सुरपियो यक्षः प्रत्यब्दं यात्रादिने चित्रितश्चित्रकरमचित्रितस्तु पूर्लोकं हन्ति, ततो नश्यन्तश्चित्रकृतो मिथः प्रतिभृत्वादिना राज्ञा शृङ्खला बद्धीकृताः, घटन्यस्तपत्रिकायां यन्नाम नियोति तत्पाद्यिक्षश्चिच्यते, अन्यदा वृद्धापुत्रस्य नामनिर्गमे वृद्धारोदने कौशांब्यागतकियदिनस्थितचित्रकृद्दारकेण 'ध्रुवमविधिनैते चित्रयंति ' इति विमृश्य दृढमुक्तं 'अहं चित्रयिष्यामि ' इति ततस्तेन षष्ठं कृत्वा वपुर्वस्त्रवर्णककूर्चिकादिपावित्र्याष्टपुटमुखकोशादिविधिना स चित्रितः, पदोः पतित्वा च क्षमितः, तष्टो दारकेणोक्तः मारिने कायो, पुनस्तुष्ट एकांशदशेने यथास्थरूपचित्रणकलां ददो । तेन कोशांबीश जालिकांगुष्ठदर्शिना मृगावतीरूपं यथास्थं चित्रितं । राज्ञोरुतिलकं दृष्ट्वा स वध्य आज्ञप्तः । सर्वरकथनेऽपि मुखमात्रदर्शनेन कुब्जारूपचित्रणेऽपि छिन्नसंदशः । पुनर्यक्षमाराध्य वामहस्त चित्रितां मृगावतीं चंडप्रद्योतायादर्शयत स प्रहितदतधिक्कारे कौशांबी रुरोध । शतानीके मृते मृगावतीगिरोजायन्यानीतेष्टकाभिर्वप्रं तृणान्नपूर्णा पुरीं च चक्रे । श्रीवीरे समवसृते भिलपृष्टं ' या सा सासेति' संबंधं श्रुत्वा सांगारवत्याद्याश्च प्रद्योतराज्ञोऽष्टौ प्रव्रजिताः । इति विध्यविध्यो श्रीश्राद्धविधिप्रकरणम् 49

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134