SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ त्रापि । इति स्नात्रविधिः । प्रतिमाश्च विविधास्तत्तूजाविधौ सम्यक्त्वकरणे इत्युक्तं-"गुरुकारिआइ केई, अने सयकारिआइ तं विति । विहिकारिआइ अन्ने, पडिमाए पूअणविहागं ॥१॥" व्याख्या-गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वपतिमा अविशेषेण पूजनीयाः । सर्वत्र तीर्थकदाकारापलंभेन तदबुद्धरुपजायमानत्वादन्यथा हि स्वाग्रहवशादर्हद्विम्बेऽप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षगो बलाद दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गालक्षणदोषापत्तिरागमनामाण्यात् । तथा हि श्रीकल्पभाष्ये—“निस्सकडमनिस्सकडे अ चेइए सव्वहिं थुई तिन्नि । वेलंवचेइआणिअनाउं इक्किक्किा वावि ॥१॥" निश्राकृते गच्छयतिबद्धे, अनिश्राकृते च तद्विपरीते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति । भूयांसि वा तत्र चैत्यानि ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्या । चैत्ये तन्तुजालादौ विधिमाह-" सीलेहमखफलए, इअरे चोइंति तंतुमाईसु । अभिजोइंति सवितिसु अणिच्छफेडतदीसंता ।। २ ।।" इतरेऽसंविग्ना देवकुलिका इत्यर्थः, तांस्तन्तुजाललूतापुटकादिषु सत्सु ते साधवो नोदयंति, यथा शीलयत परिकर्मयत, मङ्खफलकानीव मङ्खफलकानि देवकुलानि, मङ्खो नाम चित्रफलकव्यग्रहस्तस्तस्य च यदि फलकमुज्ज्वलं भवति । ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः संमार्जनादिना सम्यगुज्ज्वालयत, ततो भूयान् लोको भवतां पूजासत्कारं कुर्यात् । अथ ते देवकुलिकाः सत्तिकाश्चैयातिवद्धगृहक्षेत्रादित्तिभोगिनस्ततस्तानभियोजयन्ति, निर्भर्त्सयन्ति, यथा एकं तावद्देवकुलानां वृत्तिमुपजीवथ, द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ, इत्यमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति, ततोऽदृश्यमानाः स्वयमेव स्फेटयन्त्यपनयन्तीति तत्तिः । एवमागमाच्च विनश्यच्चैत्याद्युपेक्षा संयतेनापि सर्वथा न कार्येत्यागतं । अयं च चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिमाप्तमाश्रित्योक्तस्तस्यैवैतद्योगसंभवात् । अनृद्धिमाप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याद्युपयुक्तः साधुवचैत्यं याति नषेधिकीत्रयादिभावपूजानुयायिविधिना । स च पुष्पादिसामग्र्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि किंचित् पुष्पग्रथनादि कर्त्तव्यं स्यात्तत् करोति । ननु कथं सामायिकत्यागेनात्र द्रव्यस्तवस्यौचित्यं ? उच्यते, सामायिकमस्य स्वायत्तत्वात् सकलकालमपि कर्त्तव्यं स्यात्, चैत्यकृत्यं तु समुदायायत्तत्वात्कादाचित्कं, प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः । यदागमः-“जीवाणबोहिलाभो, सम्मदिट्ठीण होइ पिअकरणं । आणा जिणंदभत्ती, तित्थस्स पभावणा चेव ॥१॥" एवमनेके गुणास्तस्मात्तदेव कर्त्तव्यं । उक्तं च दिनकृत्यसूत्रेऽपि-" एवं विही इमो सम्बो, रिद्धिमंतस्स देसिओ । इअरो निअगेहम्मि, काउं सामाइयं वयं ॥१॥ जइ न कस्सइ धारेइ, न विवाओ अ विज्जए । उवउत्तो मुसाहव्य, गच्छए जिणमंदिरे ।। २॥ कारण अत्थिजइ किंचि कायव्वं जिणमंदिरे । तओ'सामाइअंमोत्तुं, करे जंकरणिज्जयं ॥३॥" अत्र च सूत्रगाथोक्तविधिनेति पदेन दशत्रिकाभिगमपंचकादिचतुर्विंशतिमूलद्वारैश्चतुःसप्तत्यधिकद्विसहस्रीमितप्रतिद्वाररूपो भाप्यायुक्तः सर्वोऽपि विधिरभ्यूह्यः यथा-"तिनिनिसीही तिनि उ पेयाहिणा तिनि चेव य पैणामा । तिविहा पूऔय तहा, अवत्यति अभावणं चेव ॥१॥ तिदिसि निरिक्षणविरई, पयभूमिमज्जणं च तिरकुत्तो। वनाईतिरं मुद्दांति न तिविहं च पणिहाणं ॥२॥" इत्यादि, । विधिप्रधानमेव च विधीयमानं सर्व देवपूजावंदनकादि धर्मानुष्ठानं महाफलमन्यथा त्वल्पफलं सातिचारतया च जातु ततः प्रत्यपायादेरप्यापत्तिः । उक्तं च-“धर्मानुष्ठानवैतथ्यात्मत्यपायो महान् भवेत् । रौद्रदुःखौघजननो दुष्पयुक्तादिवोषधात् ॥ १॥" चैत्यवन्दनादेश्वाविधिना विधाने प्रायश्चित्तमप्युक्तमागमे। तथाच महानिशीथसप्तमाध्ययनसूत्र-" अविहीए चेइआई. बंदिज्जा तस्सणं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अन्नेसिं असद्धं जणेइ इइ काऊणं । " देवताविद्यामंत्रादयोऽपि विधिनैवाराद्धाः सिद्धिफला, अन्यथात्वनाद्यपि सद्यः कुर्युः । यथा ऽयोध्यायां सुरपियो यक्षः प्रत्यब्दं यात्रादिने चित्रितश्चित्रकरमचित्रितस्तु पूर्लोकं हन्ति, ततो नश्यन्तश्चित्रकृतो मिथः प्रतिभृत्वादिना राज्ञा शृङ्खला बद्धीकृताः, घटन्यस्तपत्रिकायां यन्नाम नियोति तत्पाद्यिक्षश्चिच्यते, अन्यदा वृद्धापुत्रस्य नामनिर्गमे वृद्धारोदने कौशांब्यागतकियदिनस्थितचित्रकृद्दारकेण 'ध्रुवमविधिनैते चित्रयंति ' इति विमृश्य दृढमुक्तं 'अहं चित्रयिष्यामि ' इति ततस्तेन षष्ठं कृत्वा वपुर्वस्त्रवर्णककूर्चिकादिपावित्र्याष्टपुटमुखकोशादिविधिना स चित्रितः, पदोः पतित्वा च क्षमितः, तष्टो दारकेणोक्तः मारिने कायो, पुनस्तुष्ट एकांशदशेने यथास्थरूपचित्रणकलां ददो । तेन कोशांबीश जालिकांगुष्ठदर्शिना मृगावतीरूपं यथास्थं चित्रितं । राज्ञोरुतिलकं दृष्ट्वा स वध्य आज्ञप्तः । सर्वरकथनेऽपि मुखमात्रदर्शनेन कुब्जारूपचित्रणेऽपि छिन्नसंदशः । पुनर्यक्षमाराध्य वामहस्त चित्रितां मृगावतीं चंडप्रद्योतायादर्शयत स प्रहितदतधिक्कारे कौशांबी रुरोध । शतानीके मृते मृगावतीगिरोजायन्यानीतेष्टकाभिर्वप्रं तृणान्नपूर्णा पुरीं च चक्रे । श्रीवीरे समवसृते भिलपृष्टं ' या सा सासेति' संबंधं श्रुत्वा सांगारवत्याद्याश्च प्रद्योतराज्ञोऽष्टौ प्रव्रजिताः । इति विध्यविध्यो श्रीश्राद्धविधिप्रकरणम् 49
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy