SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ब्राप्तम् । न चाविधिकृतादकृतमेव वरमिति प्रतिपक्षश्चित्यः । यदुक्तं-" अविहिकया वरमकर्य, अमूयवयणं भणंति समयन्नू । पायच्छित्तं अकए, गुरु अं वितहं कए लहुरं ॥१॥" तस्माद्धर्मानुष्ठानं निरंतरं कार्यमेव, किंतु तत्कुर्वता सर्वशक्त्या विधिविधौ यतनीयं । इदमेव च श्रद्धालोर्लक्षणं । आहुश्च-" विहिसारं चित्र सेवइ, सद्धालू सत्तिम अणुट्ठाणं । दवाइदोसनिहओ, वि परकवायं वहइ तंमि ।। १ ।। धन्नाण विहिजोगो, विहिपरकाराहगा सया धना । विहिबहुमाणा धन्ना, विहिपकअसगा धन्ना ॥२॥ आसन्नसिदिआणं, विहिपरिणामो होइ उ सयकालं । विहिचाओ अवहिभत्ती, अभवजिअदूरभव्वाणं ॥३॥" कृषिवाणिज्यसेवाद्यपि भोजनशयनासनगमनवचनाद्यपि च द्रव्यक्षेत्रकालादिविधिना पूर्ण फलत्यन्यथा त्वल्पमेव । श्रूयते हि द्वौ नरौ द्रव्यार्थिनौ देशांतरे सिद्धनरं बहूपाशितवंती, ततस्तुष्टेन तेन तुंबीफलबीजानी समभावाण्यर्पितानि, सम्यगाम्नायश्चोक्तो, यथा शतवारकृष्टक्षेत्रे निरातपे उक्तनक्षत्रवारयोगे तानि वाप्यानी वल्लनिष्पत्तौ कानिचिबीजानि संगृह्य सपत्रपुष्पफला सा वल्ली क्षेत्रस्थैव दह्यते तद् भस्मन एकगदीआणकश्चतुःषष्टिगदिआणकताम्रमध्ये क्षिप्यते, ततो जात्यं हेम स्यादिति सिद्धशिक्षितौ गृहमायातौ । एकेन यथाविधि कृते जात्यं हेम जज्ञे । अन्येन किंचिन्न्यूनश्चक्रे तस्य च रूप्यमेवेति सर्वत्र सम्यम् विधिज्ञेयः, कार्यश्च सर्वशक्त्या । पूजादिपुण्यक्रियाप्रांते च सर्वत्राविध्याशातनानिमित्त मिथ्यादुष्कृतं दातव्यं । अंगादिपूजात्रयफलं त्वेवमाहुः-" विग्धोवसामिगेगा, अब्भुदयपसाहणी भवे बीआ । निव्वुइकरणी तडआ, फलया उ जहत्थनामेहिं ।। १॥" अत्र च प्रागुक्तमंगाग्रपूजाद्वयं चैत्यबिंबकारणयात्रादिश्च द्रव्यस्तवः । यदाह" जिगभवणबिंबठवणजत्तापूआइसुत्तओ विहिगा । दव्वत्थोत्ति नेअं, भावत्ययकारणतेण ॥१॥ निचं चित्र संपुनः, जइवि हु एसा न तीरए काउं । तहवि अणु चिट्ठिअन्ना, अरूयदीवाइदाणेग ॥२॥ एगंपि उदगबिंद, जह परिहत्तं महासमुइंमि । जायइ अस्कयमेवं, पूआ विहु वीअरागेसु ॥३ ।। एएणं बीएणं, दुकाई अपाविऊण भवगहणे । अञ्चंतुदारभोए, भोत्तुं सिझंति सव्वजिया ॥ ४ ॥ पूआए मणसंती, मगसंतीए उत्तमं झाणं । सुइझाणेण य मुरको मुरके सुरकं निराबाहं ॥ ५॥ पुष्पाद्यर्चा तदाज्ञा च, तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पंचविधा जिने ।। ६॥" द्रव्यस्तवश्वाभोगानाभोगाभ्यां द्विधा। यदाहुः-"देवगुणपरित्राणा तब्भावाणुगयमुत्तमं विहिणा। आयरसारं जिणपूअणेण आभोगदनथओ॥१॥ एत्तोचरित्तलाभो, होइ लहुँ सयलकम्मनिदलगो । ता एत्थसम्ममेव हि, पहिअव्वं मुदिट्टीहि ॥ २॥ पूाविहिविरहाओ, अपरिन्नाणा उ जिणगयगुणाणं । सुहपरिणामकयत्ता, एसोऽणाभोगदव्यथओ ।। ३ ।। गुणठाणठाणगत्ताएसो एवंपि गुणकरो चेव । सुहसुहयरभावविसुद्धिहेउओ बोहिलाभाओ ।। ४ ।। असुहरकरण धणि, धन्नाणं आगमेसि भदाणं । अमुणिअगुणे वि नूणं, विसए पीई समुच्छलइ ॥५॥" यथा शुकमिथुनस्याईद्विवे । होइ पओसो विसऐ, गुरुकम्माणं भवाभिनंदीणं । पत्थंमि आउराणव उवहिए निच्छिए मरणे ॥६॥ एत्तो चिय तत्तन्नू, जिणबिंबे जिणवरिंदधम्मे वा । असुहन्भासभयाओ, पओस लेसपि वज्जति ॥ ७ ॥" परजिना द्वेष कुंतलाराजीज्ञातम् । यथा,-" अवनिपुरे जितशत्रुनृपस्य पट्टदेवी कुंतला, अईद्धर्मनिष्ठा, धर्मे प्रवर्तिका, तद्वचसा तस्याः सपत्न्यः सर्वा धर्मिष्ठीभूतास्तां बहुमन्यन्ते। अन्यदा सर्वराज्ञीनां सांगोपांगनव्यप्रासादेषु निष्पद्यमानेषु कुंतला अतुच्छमत्सराकुला स्वप्रासादं तत्पतिमाः तत्र महापूजा नाट्यादिविधिं च विशिष्टतरं विशिष्टतरं कारयति । सपत्नीचैत्य प्रतिमापूजादौ च प्रद्वेषं वहति । अहह मत्सरस्य दुस्तरता ! तदभ्यदधाहि-"पोता अपि निमजति मत्सरे मकराकरे | तत्तत्र मज्जनेऽन्येषां दृषदामिव किं नवम् ॥१॥ विद्यावाणिज्यविज्ञानवृद्धिऋद्धिगुणादिषु । जातौ ख्यातौ प्रोन्नतौ च धिग् धिग् धर्मेऽपि मत्सरः ॥२॥" ऋज्व्यः सपल्यस्तु तस्याः कृत्यं नित्यमनुमोदंते । एवं मत्सर ध्यविविधव्याधिबाधिता राज्ञा गृहीताभरणादिसारा भृशार्त्तिभृन्मृत्वा सपत्नीचैत्यार्चापद्वेषण शुनी जाता, स्वचैत्यद्वारे पूर्वाभ्यासात्तिष्ठति । अथ तत्रागतः केवली कुंतला मृत्वा कगतेति राज्ञीभिः पृष्टः सर्व यथावदाचष्ट । ततस्ताः परमसंविनास्तस्याः शुन्या भक्ष्यं क्षिपंत्यः सस्नेहं माहुः, महाभागे ! धर्मिष्ठयापि त्वया हा किमेवं मुधा प्रद्वेषः कृतः ? येनेदृग जातासीति । तदाकर्णनचैत्यदर्शनादिना जातजातिस्मृतिः सा शुनी संविग्ना सिद्धादिसमक्षं प्रदेषाद्यालोच्य प्रतिपन्नानशना मृत्वा वैमानिकी भूता । तस्मात् प्रद्वेषस्त्याज्यः । इति द्रव्यस्तवः । इह सर्वापि भावपूजा श्रीजिनाज्ञापालनं च भावस्तवः। जिनाज्ञा च द्विमकारा स्वीकारपरिहाराभ्यां । तत्र सुकृताचरणं स्वीकारः, निषिद्धानासेवनं परिहारः। स्वीकारपक्षाच्च परीहारपक्ष एव श्रेष्ठः, यतो निषिद्धासेविनो बहपि सुकृताचरणं विशेषगुणाय नोपजायते । यथाहि व्याधितस्य प्रतीकारः स्वीकारपरिहाराभ्यां द्वेधा तत्रौषधानां स्वीकारोऽपथ्यस्य च परिहारः, भेषजानां हि करणेऽप्यपथ्यासविनो नारोग्यलाभः । यत:-" औषधेन विना व्याधिः पथ्यादेव निवर्तते । न तु पथ्यविहीनस्य औषधानां शतैरपि ॥१॥" एवं भक्तिरापि निषिद्धाचरणशीलस्य न विशेषफलाय । यदि तु द्वयमपि भवति तदा संपूर्णसिद्धिः, यथा पथ्यशीलस्यौषधैः । श्रीहेममयोऽप्याहुः—“ वीतराग ! सपर्यातस्तवाज्ञापालनं वरम् । आज्ञा रादा विराद्धा च शिवाय च भवाय च ॥ १॥ आकालमियमावा ते हेयोपादेयगोचरा । आस्रवः सर्वथा हेय उपादेयश्च संवरः॥२॥" द्रव्यभावस्तवयोश्चैवं फलमूचुः-" उक्कोसं 50 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy