SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दव्वयं, आराहिअजाइ अच्चुअं जाव । भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं ॥१॥" द्रव्यस्तवे च यद्यपि षद्कायोपमर्दनादिका काचिद्विराधना स्यात् तथापि कूपोदाहरणेन गृहिणः स कमुचित एव कर्तृद्रष्दृश्रोतृणामगण्यपुण्यानुबंधनिबंधनत्वात् । यथा नव्यग्रामे स्नानपानाद्यर्थ जनैः कूपखनने तेषां तृष्णाश्रमकर्दममालिन्यादि स्यात् परं कृपजलोद्गमे तेषामन्येषां च तृष्णादेः प्राक्तनमलादेश्वोपशमेन सर्वदा सर्वांगीणं सुखं स्यात् तथेहापि। तदावश्यकनियुक्तौ-"अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथए कूवदिटुंतो ॥१॥" अन्यत्रापि-"आरंभपसताणं गिहीण छज्जीववहअविरयाणं । भवअडविनिवडिआणं' दव्वथओ चेव आलंबो ॥१॥ स्थेयो वायुचलेन नितिकरं निर्वाणनिर्घातिना, स्वायत्तं । बहुनायकेन । सुबहु स्वल्पेनसारं परं । निस्सारेण धनेन पुण्यममलं कृत्वा जिनाभ्यर्चनं, यो गृहाति । वणिक स एव निपुणो । वाणिज्यकमण्यलं ॥२॥ यास्याम्यायतनं जिनस्य लभते ध्यायंश्चतुर्थ फलं, षष्ठं चोत्थित उद्यतोऽष्टममथो । गंतु प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं । बहिर्जिनगृहात्माप्तस्ततो द्वादशं, मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ ३॥" पद्मचरित्रे त्वेवमुक्तं-"मणसा होइ चउत्थं, छटफलं उहिअस्स संभवइ । गमणस्स य पारंभे, होइ फलं अट्ठमोवासो ॥ १।। गमणे दसमं तु भवे, तह चेव दुवालसं गए किंचि । मझे पकुववासो मासुववासं च दिट्ठमि ।। २॥ संपत्तो जिणभवणे, पावइ छम्मासिकं फलं पुरिसो । संवच्छरियं तु फलं, दारसहिओ लहइ ॥३॥ पायकिणेण पावइ, वरिससयफलं तओ जिणे महिए । पावइ वरिससहस्सं, अणंत पुण्णं जिणे थुणिए ॥४॥ सयं पमज्जणे पुनं, सहरसं च विलेवणे । सयसाहस्सिआ माला अणंतं गीअवाइए ॥५॥" पूजा च प्रत्यहं त्रिसंध्यं विधेया। यतः-"जिनस्य 'पूजनं हंति प्रातःपापं निशाभवम् । आजन्मविहितं मध्ये ' सप्तजन्मकृतं निशि ॥१॥ जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सत्फला स्वस्वकाले स्युरेवं पूजा जिनेश्वरे ॥२॥ जिणपूअगं तिसंझं, कुणमाणो सोहए अ संमत्तं । तिस्थयरनामगुत्तं, पावइ सेणिअनरिंदुन्न ॥३॥ जो पूएइ तिसंझं, जिणिंदरायं सया विगयदोस । सो तइअभवे सिज्झइ, अहवा सत्तट्टमे जम्मे ॥४॥ सवायरेण भयवं, पजंतो वि देवनाइहिं । नो होइ पूइनो खलु, जम्हाणंतग्गुणो भयवं ॥५॥ तुममच्छीहिनदीससि, नाराहिनसिपअपूाए । किंतु गुरुभत्तिराएण वयणपरिपालणेगं च ॥६॥" देवपूजादौ च हार्दबहुमानसम्याग्विधिविधानयोः शुद्धाशुद्धरौप्यटककदृष्टांतेन चतुर्भगी झेया। यथा शुद्ध रूप्यं शुद्धा मुद्रेति प्रथमो भंग । शुद्ध रूप्यमशुद्धा मुद्रेति द्वितीयः । शुद्धा मुद्रा रूप्यमशुदमिति तृतीयः । द्वयोरशुद्धत्वे चतुर्थः । एवं देवपूजादौ सम्यग् बहुमाने सम्यग् विधौ च प्रथमः । सम्यग् बहुमानो न तु सम्यग विधिरिति द्वितीयः । सम्यविधिर्न तु सम्यग् बहुमान इति तृतीयः । द्वयोरभावे तुर्यः । उक्तं च वृहद्भाष्ये-" इत्थ पुण वंदणाए, रुप्पसमो होइ चित्तबहुमाणो । टंकसमा विन्ने, संपुन्ना बाहिरा किरिया ॥१॥ दुण्डंपि समाओगे, सुवंदणा छे अवगसरिच्छा । बीअगरूवगतुल्ला, पमाइणो भत्तिजुत्तस्स ॥२॥ लाभाइनिमित्ताओ, अखंडकिरियपि कुन्बो तइया । उभयविहूणा नेा, अवंदगा चेव तत्तेणं ॥३॥ एसो इहभावत्थो, कायन्वो देसकालमासज्ज । अप्पा वा बहुगा वा, विहिणा बहुमाणजुत्तेण ॥४॥ अन्नं च जिणमयंमी, चउब्बिई वनि अणुहाणं । पीईजु भत्तिजुअं, वयणपहाणं असंगं च ॥५॥ज कुगइ पाइरसा, वढइ जावस्स उजुसहावस्स । बाला ईणव रयणे, पीइअणुट्ठाणमेअंतु ॥६॥ बहुमाणविसेसाओ, मुदविवेगस्स भव्यजीवस्स । पुबिल्लसमंकरगं, भत्तिअणुट्ठाणमाई सु॥७॥ तुल्लंपि पालणाई, जायाजणणीण पीइभत्तिगयं । पीईभत्ति जुआणं, भेओ नेओ तहेहंपि ॥८॥ जो पुण जिणगुणवेई, सुचविहाणेण वंदणं कुणइ । वयणाणुटाणमिणं, चरित्तिणो होइ निअमेण ॥९॥ जं पुण अब्भासरसा, सुशं विणा कुणइ फळनिरासंसो। तमसंगाणुढाणं, विशेअं निउणदंसीहिं ॥१०॥ कुंभारचकभमणं, पढमं दंडा तओ वि तयभावे । वयणासंगाणुट्ठाणभेअकहणे इमं नायं ॥ ११ ॥ पहम भावलबाओ, पायं बालाइआण संभवइ । तत्तोवि उत्तरुत्तरसंपत्ति निमओ होइ ॥१२॥ तम्हा चउन्विहपि हु. नेअमिगं पढमरूवगसमाणं । जम्हा मुगीहिं सव्वं, परमपयनिबंधणं भणियं ॥१३ ॥ बीअगरूवसमंपि हु, सम्माणुढाणकारणत्तेग । एगतेण न दुटुं, पुवायरिया जओ विति ॥१४॥ असढस्स अ परिसुद्धा, किरिया सुदाइकारणं होइ । अंतो विमलं रयणं, सुहेण बझं मलं चयइ ॥१५॥ तइअगरूवगतुल्ला, मायामोसाइदोससंपत्ता। कारिमरूवयववहारिणोव्व कुज्जामहाणत्यं ॥१६॥ होइ अ पाएणेसा, अन्नागाओ असदहाणाओ । कम्मस्स गुरुत्ताओ, भवाभिनंदीणजीवाणं ॥१७॥ उभयविहिणाओ पुणो, नियमाराहणविराहणारहिआ। विसयम्भासगुणाओ, कयाइ होजा मुहनिमित्तं ॥१८॥ जह सावगस्स पुत्तो, बहुसो जिणबिंबदंसणगुणणं । अकयसुकओ वि मरिगं, मच्छभवे पाविओ सम्म ॥१९॥" एतद्गाथासु पंचमादिगाथासप्तकस्यार्थलेशो यथा-"सदनुष्ठानं चतुर्विधं-प्रीतियुतं भक्तियुतं वचनेप्रधानं असंगानुष्ठानं च, । यत्कुर्वतःमीतिरसोतिरुचिरूपो वर्दते तत् प्रीत्युनुष्ठानं १। पूज्येषु प्रीत्यनुष्ठानसममाप करणं भक्त्यनुष्ठानं २। प्रीत्या पल्याः पालनादि क्रियते मातुस्नु भत्यति प्रीतिभक्योर्विशेषः। वचनानुष्ठानं सर्वत्रागमात्मकमवृत्तिरूपं चरित्रिगः साधोर्नान्यस्य पार्थस्थादेः ३ । यत्पुनरभ्यासरसादभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन श्रुतापेक्षा विनैव करोति फल निराशंसो श्रीश्राद्धविधिप्रकरणम् 51
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy