________________
जिनकल्पिकादिस्तदसंगानुष्ठानं ४ । यथा चक्रभ्रमणमेकं दंडसंयोगाज्जायते एवं वचनानुष्ठानमप्यागमात्मवर्त्तते, यथा चान्यच्चक्रभ्रमणं दंडसंयोगाभावे केवलादेव संस्कारापरिक्षयात् स्यात् ,, एवमागमसंस्कारमात्रेण यद्वचननिरपेक्षं तदसंगानुष्ठानमिति पंचमादिगाथासप्तकार्थः । एवं च देवपूजादावेकांतहार्दबहुमाने यथोक्तविधिविधाने चसंपूर्णफलमिति। तत्र सम्यग् यतनीयं, अत्र धर्मदत्तनृपनिदर्शनं दर्यते । तच्चेदं,-"राजद्राजतचैत्ये राजपुरे राजते स्म राजधरः। राजा राजेव नृणांशीतकरः कुवलयोल्लासी ॥१॥प्रीतिमतीप्रभृतीनां पंचशती तस्य करगृहीतानाम् । आसीद्यासुन्यासीकृतेव रूपर्द्धिरमरीभिः॥२॥ अर्थात् प्रीतिमतीत्वं प्रीतिमतीवर्जमन्यभार्याभिः। विश्वानंदननंदनलाभाल्लेभेष्य निखिलाभिः ॥३॥ सुतवंध्या वंध्यावत्पीतिमती त्वधिकमाप हृदि खेदम् । दुर्विषहः खलु पंक्तेर्भेदो हि विशिष्य मुख्यत्वे ॥ ४ ॥ यदि वा दैवायत्ते वस्तुनि किं मुख्यतादिचिंताभिः। तदपि तदतिं दधतां धिग मौढ्यं मृहहृदयानाम् ॥ ५॥ विविधोपयाचितशते वैफल्यमिते तदर्तिरतिववृधे । नाशाप्युपेयविषया निष्फलतायामुपायानां ॥ ६ ।। कश्चिन्मरालबालस्तयान्यदा धाम्नि बालवद्विलसन् । नीतः करेऽप्यभीतः स्फीतनृवाचेत्युवाचेमां ।। ७ ।। भद्रे ! खैरमिहाप्तं किं मां धरसे रसेन निपुणापि । स्वैरविहारपराणां धरणं हि निरंतरं मरणं ॥ ८॥ वंध्यात्वमनुभवंत्यपि कथमीदृशमशुभकर्म निर्मासि? । शुभकर्मणैव धर्मो धर्माच्च निजेष्टसिद्धिरपि ॥९॥ अथ सा विस्मितभीताऽभाषत भो! भाषसे किमीग् माम् । त्वां दक्षमुख्य ! मंक्ष्वपि मोक्षाम्येकं तु पृच्छामि ॥ १०॥ नानादैवतपूजनदानादिसुकर्मनिर्मिमाणापि । संसारसारभूतं सप्तेवामोमि किं न सुतम् ॥ ११ ॥ पुत्राति मम च कथं वेत्स्यभिधत्से नृभाषया च कथम् । सोऽप्यभ्यधत्ताक मम? तप्त्याभिदधे
1 " प्रतिमतात्यन्वर्थः" इत्यपि पाठः । तु ते हितकृत ॥ १२ ॥ प्राकृतकमोधीना धनतनयसुखादिसंपदः सकलाः। विघ्नोपशमनिमित्तं त्वत्रापि कृतं भवेत्सकतम ।। १३ ।। यत्तद देवार्चाचं मिथ्या मिथ्यात्वमाचरंत्यधियः । जिनधर्म एव भविनामत्रामुत्राप्यभीष्टफलः ॥ १४॥ यदि जिनधर्माद्विघ्नोपशमादिन भावि तत्कुतोऽन्येभ्यः। यद् भानुना न भेद्यं तमः कथं तद् ग्रहैरितरैः॥१५॥ तत्यक्त्वा मिथ्यात्वं कुपथ्यामिव तथ्यमाहतं धर्मम् । सेवस्व सुपथ्यमिवामोपि यथात्राप्यखिलामिष्टम् ॥ १६॥ इत्युक्त्वोडीय गते सितच्छदे कापि सपदि पारदवत् । अतिविस्मिता स्मितास्याऽजायत जाततनयाशा ॥ १७ ॥ अौ सत्यां धर्माद्यास्थास्थास्नुत्वमाश्रयत्युच्चैः। इति सा श्रावकधर्म
सः प्रपेदे सपदि सुगुरोः ॥ १८ ॥ त्रिर्जिनपूजादिपरा सद्दर्शनशालिनी च सुलसावत् । साभूत् क्रमतः सुमहानहोगुणः कोऽपि इसगिरः ।। १५ ।। नाद्यापि पट्टदेव्यास्तनुजस्तनुजाः परः शतास्तु परे। राज्याई एषु कोन्विति चिंता जज्ञेऽन्यदा राज्ञः ।। २०॥ निशि च नरेशं स्वप्ने साक्षादिव दिव्यपूरुपः कश्चित् । स्माह महीश ! वृथा मा कृथाः स्वराज्याईसुतचिंता ॥ २१ ॥ विश्चैककल्पफलदं विधिवन्जिनधर्ममेव सेवस्व । यस्मात्तवेष्टसिद्धिर्भवेद भवेऽस्मिन् परस्मिश्च ।। २२ ॥ स्वप्नोपलंभतोऽस्मात्पयतोऽईद्धर्ममारराध मुदा । राजा जिनार्चनाद्यैः को वेदृक् स्वप्नवानलसः ।। २३ ॥ अथ च । अवतीर्णवान् वितीर्णप्रीतिभरः प्रीतिमत्यदरसरसि । हंस इवोत्तमजंतुः कोऽप्यर्हत्स्वप्नदर्शनकृत ॥ २४॥ मणिचैत्यार्चाकारणतदर्चनादौ हि दोहदस्तस्याः । गर्भानुभावतोऽभूत् पुष्पं हि फलानुरूपं स्यात् ॥ २५ ॥ मनसैव साध्यसिद्धिर्देवानां स्ववचसा नृदेवानाम् । धनिनां धनेन सद्योऽप्यपरनराणां पुनर्वपुषा ॥ २६ ॥ इति नृपतिनिःशेष सविशेष दोहदं तदीयमिदम् । सद्यो दुष्पूरमपि प्रापूरयदतुलमुत्पूरः ॥२७॥ धुर्यप्यपारिजातः सुमेरुभूम्येव पारिजाततरुः । तनयस्तया प्रजातः प्रजातमहिमा क्रमात् जातः ॥ २८॥ जात्वकृतपूर्वजन्माधुत्सवपूर्वकमपूर्वमुत् क्ष्माभृत् । पुत्रस्य धर्मदत्तेत्यभिधां विदधे सदन्वाम् ॥ २९ ॥ श्रीजिनभुवनेऽज्यदिने सानंदं नंदने सदुपदावत् । नीत्वोत्सवैरभिनवैः प्रणमय्यार्हत्पुरो मुक्ते ॥ ३० ।। प्रोक्तवती प्रीतिमती प्रीतिमतीपोचकैः प्रति सखी स्वाम् । हंसस्य तस्य सखि ! मेऽमृतकृत्काप्युपकृतिः कृतिनः ॥ ३१ ॥ युग्मम् ।। अपि दुपापं पापं यद्वचनाराधनानिधिवदधनः । जैनेंद्रधर्मरत्नं सुपुत्ररत्नं च परमीदृक् ॥ ३२ ॥ इत्युक्तिसमकमाकस्मिकमू मृच्छति स्म मंद इव । बालस्तत्कालमथो तन्माताप्युग्रतद्दुःखात् ॥ ३३ ।अहह सहसा सहाभूद द्वयोः किमित्युच्चकैस्तटस्थजनाः । दृग्दोषदिव्यदोषाद्याशंकिहृदोऽथ पूचक्रुः ॥३४॥ तत्कालमिलितराजामात्यायैः शीतलोपचारकृते । जातः सचेतनोऽसौ क्षणात्तदंबाप्यहो! योगः ॥ ३५॥ वर्धापनादि जज्ञे निन्ये सूनुश्च निजगृहे समहम् । तदहास्थितश्च सुस्थः स्तन्यास्वादादिकृत प्राग्वत् ॥३६॥ स्तन्यमहनि द्वितीये शुभंयुरपि नापिबत्त्वरीचकिवत । चतुराहारमत्याख्यातेव न चौषधाद्यपि सः ॥ ३७॥ पित्रादिषु पौरादिषु दुःखिषु मंत्र्यादिकेषु मूढेषु । मध्याह्ने मुनिरागात्तत्सुकताकृष्ट इव नभसा ॥ ३८ ॥ प्रणतः पूर्वमपूर्वप्रीत्या शिशुना नृपादिभिस्तु ततः । शिशुमुखमुद्रणहेतुं पृष्टश्च स्पष्टमाचष्ट ।। ३९ ।। दोषा यत्र न किंचन जिनदर्शनमस्य किंतु कारयत । येनाधना स्वयमयं स्तनधयत्वं सदर्थयति ॥४०॥ नीतस्ततोऽहतोऽये नतिपूर्वे पूर्ववत्पत्तोऽसौ । स्तन्यं पातं प्रीति मापुश्चाश्चर्यमथ सर्वे ॥ ४१ ॥ पुनरवनिपतिमुनिपतिमपृच्छदत्यद्भूतं किमेतदिति । सोऽप्यभगत्पूर्वभवाभिधानपूर्व भणामि शृणु ॥ ४२ ॥ पुरिकापुरि कापुरुषैरूनायां सुपुरुषैरनूनायाम् । सकृपः कृपणेष्वकृपः शत्रुषु कृपनामनृपतिरभूत् ॥ ४३ ॥ सुत्राममं. त्रिमित्रं मत्यामात्योऽस्य चित्रमत्याहः । इच्छावमुरिव वमुभिर्वसुमित्रस्तस्य मित्रमभूत् ॥ ४४ ॥ आढ्योऽस्य वणिक्पुत्रः सुमित्र
श्रीश्राद्धविधिप्रकरणम
52