SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ऊनोऽभिधाक्षरेणैव । तुल्योऽधिकोऽपि च वणिपुत्रः स्यात् श्रेष्ठितः क्रमतः ॥४५॥ कुलपुत्रः पुत्रतया मान्यो धन्याभिधोरए भृत्यवरः। सोऽन्येद्युः स्नानार्थी स्नानार्हे सरसि सरति स्म ।। ४६।। तत्र त्रिधा सुकमले जलकेलिं स किल कलभवत्कलयन् । दिव्यमिवातुलपरिमलमलभत कमलं सहस्रदलम् ।। ४७॥ निर्गत्य ततश्चलितः पीत्या कलित क्रमेण मिलितश्च । आरामिककन्यानां कुसुमान्युच्चित्य यांतीनां ।। ४८॥ पाग्भूरिपरिचिताभिस्ताभिर्भणितश्च चतसृभिज्ञाभिः । भो भद्र ! भद्रशालद्रमसुममिव दुर्लभमिहैतत् ॥४९॥ मा यत्र तत्र यौक्षीरुत्तममिदमुचितमुत्तमस्यैव । सोऽप्याख्यद् योक्ष्येऽदः स्फुटमुकुटमिवोत्तमस्यैव ॥ ५० ॥ दध्यौ च ममाभ्यर्च्यः सुमित्र एवोत्तमः समग्राणाम् । यो येन सुनिर्वाहः कस्तस्य ततः परमः ।। ५१॥ मुग्धात्मा ध्यात्वैतत्तत प्राभृतमकृत दैवतायेव । गत्वा नत्वा विनयाद्यथावदुक्त्वा सुमित्राय ।। ५२ ॥ स्माह सुमित्रः श्रेष्ठी वसुमित्रः सत्तमस्तदहमदः। तस्याहर्निशदास्यादपि न स्यादनृणभावो मे ॥५३॥ वसुमित्राय ततोऽसौ दौकितवान् माग्वदुक्तवान् सोऽथ । मंत्र्युत्तमोऽस्ति यस्मान्ममात्र सर्वार्थसिद्धिरिह ॥ ५४ ।। ढोकयति स्म तथैव प्रीत्यामात्याय सोऽथ सोऽप्यवदत् । मत्तोऽपि सत्तमः क्षमाभन हि क्षमाप्रजाभः ॥ ५५ ॥ स्रष्टुरिव यस्य दृष्टेरपि प्रभावोऽद्भुतो भुवि यया द्राग् । सर्वलघुः सर्वगुरु: सर्वगुरुः स्याच सर्वलघुः ॥५६॥ सोऽथ तथैव तदुपदीकृतवान् सपदीश्वराय वसुधायाः। राजापि जैनसद्गुरुसेवाभिमुखो बभाषे तम् ॥ ५७॥ यत्क्रमकमलेऽलिकलां कलयंति मदादयोऽपि सैव गुरुः । उत्तम इह तद्योगस्त्वल्पः स्वात्यंबुयोग इव ॥५८॥ इत्याख्याति क्षितिऽतरीक्षतस्तत्र चित्रकृत्सुरवत् । चारणमहर्षिरागात् स्पृहालतायाः सफलताहो ॥५९॥ बहुमानासनदानाभिवंदनादीनि विहितपूर्विषु च । उर्वीश्वरादिषु मुनेर्धन्योष्ठौकत तथैवैतत् ॥६०॥ मुनिनोक्तमुत्तमत्वं तरतमभावेन भवति केष्वपि चेत् । तद्विश्रांतिस्त्वईत्येवाईति विश्वविश्वार्थे ॥ ६१ ॥ तस्मात्तस्यैवोचितमेतद् भोस्त्रिजगदुत्तमतमस्य । कामगवीव नवीनात्रामुत्र जिनार्चनार्थितदा ॥ ६२ ॥ इति यतिवाक्यान्मुदितो भद्रकभावः स भावतश्चैत्ये । गत्वाईत शिरसि तच्छत्रमिवादात्पवित्रतनुः॥ ६३ ॥ तेन स शिरस्कजिनवरशिरसः शोभानिभालनातुलमुत् । शुभभावनाश्रितमनाः सुस्थस्तस्थौ क्षणं यावत् ॥ ६४॥ तावत्तत्र चतस्रः कन्यास्ताः कुसुमविक्रयायेयुः । ददृशुश्चाईतशीर्षे तत्कमलं तेन विन्यस्तम् ।। ६५ ॥ अनुमोदनोद्यतास्ता अपि संपदीजमिव भगवतोऽगे । एकैककुसुममसमं समं समारोपयामासुः ॥ ६६ ॥ पुण्ये पापे पाठे दानादानादनान्यमानादौ । देवगृहादिककृत्येष्वपि प्रवृत्तिर्हि दर्शनतः ॥ ६७॥ धन्यंमन्यः पाप च धन्यः कन्याश्च निजनिजस्थानम् । सति संयोगे प्रणमति तत्मभृति प्रतिदिनं स जिनम् ॥ ६८॥ इति च ध्यायति धिम् मां प्रतिदिनजिननमननियममपि लातुम् । असमर्थ रंकमिवाप्यहर्निशं परवशं पशुवत् ॥ ६९ ॥ धात्रीशमंत्रिवसुमित्रसुमित्राख्यास्तु चारणपिगिरा । प्रतिपन्ना गृहिधर्म क्रमात्मपन्नाश्च सौधर्मम् ॥ ७० ॥ धन्योऽप्यहंदभक्तेः सौधर्मेऽभून्महर्दिकत्रिदशः। जातास्ताश्च चतस्रः क्रमात्कुमार्योऽस्य मित्रसुराः॥७१ ॥ नृपदेवश्युत्वा द्वैतादये गगनवल्लभ नगरे । सुरनगरे सुरपतिवच्चित्रगतिः खेचराधिपतिः ।। ७२ ॥ सचिवसुरश्युत्वाऽस्य च पुत्रः पित्रोः परप्रणयपात्रम् । जातोऽस्ति विचित्रगतिर्नाम्ना धाम्नापि पितुरधिकः ।।७३|| स प्राज्यराज्यलोभाभिभूतहृदयोऽन्यदा पितृनिहत्यै । गूढदृढमंत्रमाधात् धिर धिग् लोभाध्यमपि सूनोः ॥ ७४ ॥ दैवात्तु गोत्रदेव्यादेशादवगत्य गूढमंत्रं तम् । आत्यंतिकमाकस्मिकभयेन वैराग्यमाप नृपः ।। ७५ ॥ हा किं कुर्वे किंवा शरणीकुर्वे ब्रुवेऽथ किं कस्य । अकृतसुकृतः सुतादपि पशुमृतिमाप्तास्मि कुगतिमपि ॥ ७६ ॥ अद्यापि चेतये वेत्यालोच्य स पंचमाष्टिकतलोचः । सुरदत्तव्रतिलिंगः साग व्रतमादत्त सत्तमधीः ॥ ७७॥ क्षमितश्चानशययुजात्मजेन राज्यार्थमर्थितोऽत्यर्थम । तं व्रतहेतुं शंसनिःसंगः पवनवद् व्यहरत् ।। ७८ ।। यतिचर्ययास्य चरतस्तपांसि चरतश्च दुस्तपान्युदभूत । ज्ञानं तृतीयमेतत् स्पर्धादिव तत्तुरीयमपि ॥ ७९ ॥ ज्ञानाद् ज्ञात्वा लाभं सोऽहं मोहं व्यपोहितुं भवताम् । अत्रागमं समग्रं कथयाम्यथ शेषसंबंधम् ॥८०॥ वसुमित्रसुरश्श्युत्वा त्वमभूर्भूपः सुमित्रदेवस्तु । तव देवी प्रीतिमती प्रीतिचा प्राग्भवाभ्यस्ता ॥ ८१॥ सुश्राद्धत्वज्ञप्त्यै कचित्कचित्रिकृतिमकृत स सुमित्रः । तत्स्त्रीत्वमत्र हि हिताहितार्थजडता सतामपि हा ॥ ८२ ।। मत्पुत्रात्माग् माभूत्पुत्रो भ्रातुर्लघोरिति च दध्यौ । तदिह विलंब्य सुतोऽभूत्सकृदपि कुध्यातमतितीव्र ।। ८३ ॥ धन्यमुरेणान्यदिने स्वोत्पत्तिपदं जिनेश्वरः सुविधिः । पृष्टः पोचे तस्योत्पसिं युवयोः सुतत्वेन ॥ ८४ ॥ पित्रोधाभावे कुतः सुतस्यास्तु धर्मसामग्री । सद्भाव एव कूपे घुपकूपे सुलभमभः स्यात् ॥ ८५ ॥ इत्यात्मबोधिबीजप्राप्त्यै स मरालरूपभूद्राज्ञीम् । तत्तदुदित्वा स्वप्नं दत्वा त्वामपि च बोधितवान् ॥८६॥ देवभवे केऽप्येवं प्रयतंते प्रेत्य बोधिलाभकृते । नृभवेऽप्यन्ये स्वणिमिवाप्तमपि हारयंत्यपि तम् ।। ८७ ॥ सम्यग्दृष्टिसुरः स च ततश्युतोऽयं सुतोऽभवद्युवयोः । हेतुर्मातुस्तादृक् सुस्वप्नसुदोहदादीनाम् ।। ८८॥ कार्य छायेव पतिं सतीव चंद्रं च चंद्रिकेव रविम् । छबिरिव तडिदिव जलधरमिममनुसरति स्म जिनभक्तिः ।। ८९॥ ह्योऽस्य च चैत्ये नीतस्याईत्मतिमानिरीक्षणेन मुहुः । हंसागमादिवा श्रवणेन च मूर्छितश्चाशु ॥ ९० ॥ जातं जातिस्मरणं विहितप्रागजन्मकृत्यसंस्मरणम् । तदनु विना जिनदशेननती न दास्यामि किमपि मुखे ॥ ९१ ।। इति य स्वीकृतवाभियममात्ममनसैव । स नियमधर्मो धनियमधर्मादतिशाय्यनंतगुणः॥ ९२ ॥ तथाहि-अनियमसनियमभेदाद् श्रीश्राद्धविधिप्रकरणम 53
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy