________________
देधा धर्मश्चिरार्जितोऽप्याद्यः । प्रमितानियतफलोऽन्यस्त्वप्यल्पोऽनंतनियतफलः ॥ ९३ ॥ उक्तं विना न वृद्धिर्विते दत्तेऽपि बहुतरेऽपि चिराव । प्रोक्ते तु प्रत्यहमप्येवं धर्मेऽपि नियमोक्ता॥ ९४ ।। श्रेणिकवत्तत्वविदोऽप्यविरत्युदये हि न नियमप्राप्तिः। तत्माप्तावपि विधुरे दृढता वासनतरसिद्धेः॥ ९५ ।। पाक् प्रेम्णा बहुमानानियमोपगमोऽस्य मासिकस्यापि । ह्यस्तु तदा जिनदर्शननतिकृतितः स्तन्यमापपिवान् ।। ९६ ॥ अद्यः पुनस्तदयोगात् सीदनपि न दृढहत पपौ स्तन्यम् ।। अस्माद्विरा त्वभिग्रहपूर्तेः पातुं प्रवकृतेऽपि ॥ ९७॥ यत्पाग् जन्मनि विहितं विधित्सितं वा शुभाशुभं सर्वम् । तज्जन्यतेऽन्यजन्मान जन्मयुजामग्रजन्मेव ।। ९८ ॥ अप्यव्यक्तमाक्तनजिनभक्तमहिमतोऽस्य महिमवतः । सर्वांगीणसमृद्धिश्चित्रसवित्री किल भवित्री ।। ९९ ।। कन्याजीवाश्च दिवश्युताः पृथक् प्रौढनृपकुलायाताः । राश्योऽस्यैव भविन्यः सहसुकृतकृतां हि सह योगः ॥१०० ॥ इति यतिगिरा तथा शिशुतनियमसमीक्षया क्षितीशाद्याः । सनियमधर्मधुरायां दधिरे धौरेयतां नितराम ॥ १०१ ॥ पुत्रप्रतिबोधकृते विहराम्यहमित्युीर्य गुरुवीर्यः । यतिरुत्पपात वैताढ्यं प्रति विनतातनूज इव ॥ १०२ ।। जातिस्मरनिजगदाश्चर्यसृजातिस्मरः स्वरूपा । मुनिवनियमं निर्वाहयनिमं स क्रमावधे॥१०३॥ पावर्द्धत प्रतिदिनप्रवर्द्धमानप्रधानतनुयष्टेः। स्पर्धादिव लोकोत्तररूपादिगुणोत्करस्तस्य ॥१०४ ॥धर्मस्त्वस्य गुणानपि गुणीकरोति स्म सुप्रसारितया । न्ययमयददनं यदयं विना जिनार्चा त्रिवर्षोऽपि ॥१०५॥लिखितपठितादिनकलाद्वासप्ततिमप्यसौ सलीलमपि । लिखितपठिता इव द्रतम कृत कृती सुकृतमहिमाहो!॥१०६॥ पुण्यानुबंधिपुण्यात्पुण्याप्तिः परभवे भवेत्सुलभा।इति सम्यग् गृहिधर्म स्वीचक्रेस स्वयं सगरोः
- विनतातनजः' गरुडः। ॥१०७॥ विधिना विनान पूर्ग फलमिति विधिनैव देवपूजादि । सतास्त्रिसंध्यमाधात् सामाचारी ह्यसौ गृहिगाम् ॥१०८॥सततममध्यमभावोऽप्यवाप्तवान् मध्यमं क्रमेण वयः। पुंड्रेक्षुदंडवदसावहार्यमाधुर्यधुर्योऽभूत् ॥ १०९ ॥ अपरेऽति नरेशायोपददे वैदेशिकेन केनचन । उच्चैःश्रवा इवाश्वः सुलक्षणो धर्मदत्तकृते ॥ ११० ॥ तं विष्टपेऽप्यसदृशं स्वमिव व्यालोक्य सदृशयोगचिकीः। सोऽध्यारुरोह सहसा पितुर्निदेशादहो! मोहः ॥ १११ ।। आरोहणसमसमयं सातिशयं खेऽपि दर्शयन्तु रयम् । हय उत्पपात सुरपतिहयमिव संगतुमत्युत्कः ॥ ११२॥ दृश्यः क्षणात्वदृश्यः खे यान् योजनसहस्रपरतस्तम् । योजनसहस्रविकटाटव्यां मुक्त्वागमत् कापि ॥ ११३ ।। फणिफुत्कृतिकपिबत्कृतिकिरिधर्वतिचित्रकायचीत्कृतिभिः । चमरीभांकृतिगवयत्राट्कृतिदुष्फेरुफेत्कृतिभिः ॥ ११४ ।। न भयं भयंकरत्वेऽप्यभयप्रकृतिळभावयत्सोऽस्याम् । विपदि हि सत्वोद्रेकः संपदि च सतामनुत्सेकः ।। ११५ ।। युग्मम् ॥ शून्येऽप्यशून्यहृदयोऽरण्येऽप्युपवन इव स्वभवनस्य । अस्थात्सुस्थात्मासौ स्वैरविहारी करींद्र इव ।। ११६ ।। दूनः परं जिना योगवियोगात्फलाद्यपि स नादत् । तदहनि पापक्षपणं ससर्ज किल निर्जलं क्षपणम् ॥ ११७ ॥ शीतलजलविविधफलमाचुर्येऽप्यस्य सीदतोऽप्युचैः । क्षपणत्रयमित्यासीत्स्वनियमधर्मकदृढताहो ! ॥ ११८ ॥ म्लानतमेऽप्यथ लूकाविलुप्ततममाल्यवत्तदीयेंगे । चित्ते त्वम्लानतमे प्रादुर्भूयावदत् त्रिदशः ॥ ११९ ।। अयि ! साधु साधु साधो! दुःसाधमसाधयः सुधैर्यमदः । निजजीवितानपेक्षा नियमापेक्षा तवैवैवम् ।। १२० ॥ युक्तं व्यक्तं चक्रे शक्रः श्लाघां तवासहिष्णुस्ताम् । पर्येक्षे ते कक्षा कक्षांतरिहापहृत्यैवम् ॥ १२१ ॥ तव दृढ़तयास्मि तुष्टः शिष्टमते ! स्वेष्टमेकवाक्येन । याच
प्रतिश। स्व विचार्येषोऽप्यूचे कुर्याः स्मृतः कार्यम् ।। १२२ ॥ अद्भुतभाग्यनिधिर्धवमयमेवं यद् वर्णाकृतोऽस्म्यमुना । इति चिंतयस्तदुदितं प्रतिपद्य सपद्यागात् त्रिदशः । १२३ ॥ स्वपदमाप्त्याचं मे कयमय भवितेति चिंतयेद्यावत् । तावन्नृपसूः प्रेक्षामास स्वावासमध्ये स्वम् ॥ १२४ ।। अप्यस्मृतेन संमति नियतममयेन तेन निजशक्त्या । मुक्तोऽस्मिन्नास्मि पदे तुष्टस्य सुरस्य कियदेतत् ॥ १२५ ॥ राजतनूजः स्वजनान् निजसंगमतो निजं परिजनं च । पीतान् सांप्रतमतनोद्राजानमपिपिणाञ्चित्रम ॥ १२६ ॥ तस्मिन् दिनेऽप्यनुत्सुकतयैव विधिवद विधाय जिनपूजाम् । कृतवान्नृपसूः पारणमहो! विधिर्धर्मनिष्णानाम् ॥ १७ ॥ अथच-पूर्वा दिदिक्षु देशाधिपनृपतीनामतीव बहुमान्याः । बहुपुत्रोपरि पुत्र्योऽभवन् क्रमात्ताः कनीजीवाः ॥ १२८ ।। धर्मरतिर्धर्ममतिधर्मश्रीर्धर्मिणी च सत्याहाः । पञव चतूरूपा तास्तारुण्योद्गमेऽथ बभुः॥१२९॥ ताः कुतुकाज्जिनसदनेऽन्यादिने सदनेकसुकृतमहसदने । प्राप्तास्त्वहत्पतिमा प्रेक्ष्यास्माषुर्निजां जातिम् ॥ १३० ॥ अथ ता विना जिनाची भुक्तिं नित्यं नियम्य जिनभक्तिम् । कुर्वाणाः प्राक्परिचितवरार्थमभिजगृहुरेकहृदः ॥ १३१ ॥ तद् ज्ञात्वा प्रागदेशाधिपः स्वपुत्र्याः स्वयंवरं प्रवरम् । कारयति स्माकारयति स्माखिलराजकं तस्मिन् ।। १३२ ॥ राजधरस्य सपुत्रस्याहानेऽपि हि न धर्मदत्तोऽगात् । ईदृशि कः संदिग्धे मेधावी धावतीति धिया ॥ १३३ ।। अथच–निजजनकसद्गुरुगिरा व्रतार्थी विचित्रगतिखगराद् । एकसुताभृद्राज्याहे प्रज्ञप्तीमपरिपृच्छत् ।। १३४ ॥ सा प्राह देहि राज्यं सुतां च योग्याय धर्मदत्ताय । मुदित स ततस्तस्याहानार्थमवाप राजपुरम् ॥ १३५ ।। सम्यक् स्वयंवरस्य व्यतिकरमवबुध्य धर्मदत्तमुखात् । तं नीत्वागात्कुतुकात्स्वयंवरे स सुरवददृश्यः ।। १३६ ॥ तत्र च चित्रकरे तो स्वयंवरे राजकन्यया मुक्तान् । श्याममुखान् मुषितानिव निखिल
54
श्रीश्राद्धविधिप्रकरणम्