Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 62
________________ उभयोरपि स्नेहः एकदा ज्ञानी पृष्टः स्नेहकारणं प्राह । एषा पूर्वभवे तव माताऽभूत् । तया जिनस्याग्रे दीपं कृत्वा पश्चात्तेनैव दीपेन गृहकार्याणि कृतानि । धृपाङ्गारेण चुल्ली सन्धुक्षिता । तेन कर्मणा उष्ट्री जाता। यतः-अतो देवदीपे लेखा न वाच्यन्ते । गृहकार्य न क्रियते । नाणकं न परीक्ष्यते । देवदीपादीपः स्वकार्ये न क्रियते । देवश्रीखण्डेन तिलकं न क्रियते स्वललाटादौ । देवजलेन करौ न प्रक्षाल्यौ । देवस्य शेषापि पतिता स्वल्पैव च गृह्यते न शरीरादुत्तार्य । देवसत्कं च झल्लरीभेर्यादि गुरूणामपि सङ्घस्यापि चाग्रे न वाद्यं । केचिचाहुः , पुष्टालम्बने यदि देवझल्लर्यादि व्यापार्यते, तदा पूर्व बहुनिष्क्रयो देवस्य मोच्यो। यतः- " मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारइ मूढो, नियकज्जे सो हवइ दुहिओ ।।१।।" निष्क्रयं दत्वा खकार्यार्थ गृहीतस्य देवझल्लर्यादिकस्य जातु भङ्गादिविनाशे स्वद्रव्ये समारचनं कार्य । स्वगृहार्थकृतदीपस्य देवदर्शनार्थमेव देवाग्रे आनयनेऽपि देवसत्कत्वं न स्यात्, पूजार्थमेव देवाग्रे मोचने तु देवसत्कत्वं । मुख्यवृत्या देवदीपकृते कौशिकादि पृथगेव कार्य । स्वकौशिकादौ देवपूजार्थ दीपकरणे तु तैलवादि स्वकार्ये न व्यापार्य । एवं केनाप्यर्चाकृत्कराङ्. घ्रिक्षालनाद्यर्थ यदि जलं चैत्ये मुक्तं स्यात्तदा तज्जलव्यापारणेऽपि न दोषः । तत एव स्वगृहे पिङ्गानिकाचङ्गेरीओरसादि श्रीखंडकपूरकस्तूयोदि च स्वनिधास्थ(थे)मेव देवपूजादो व्यापार्य, न तु देवसत्कं काये। तथा सति स्वगृहपयोजनेऽपि व्यापारयितुं कल्पते, एवं झल्लरीभेोद्यपि । यदि साधारणं कृत्वा मुक्तं स्यातदा धर्मकार्ये सर्वत्र कल्पते । खसत्कं तु सावाणजव: निकादि कियाद्दिनानि देवगृहादौ विलोक्यमानत्वेन व्यापारणाय मुक्तमपि देवादिसत्कं न स्यात्, अभिपायस्यैव प्रमाणीकर णात् । अन्यथास्वभाजनस्थनैवेद्यढोकने भाजनानामपि देवसत्कीभवनप्रसङ्गः । गृहाट्टादि च देवज्ञानसत्कं भाटकेनापि श्राखून न व्यापार्य निःशूकताद्यापत्तेः । साधारणसम्बंधि तु संघानुमत्या यदि व्यापार्यते, तदापि लोकव्यवहाररीत्या भाटकमर्प्यते नतु न्यून, तच्चोक्तदिनमध्ये स्वयमेवाप्यं । तत्र च यद् भित्यादि प्राक्तनं विनश्यत्समारच्यते, तत्र यावल्लगति तावद् भाटक मध्ये वालनीयमिति, तथा लोकव्यवहारात । यत्तु स्वकार्यार्थमाळ्यादि नव्यं कार्यते, तत्र यल्लगति तद् भाटकमध्ये न वाल्यं, साधारणद्रव्योपजीवनदोषापत्तेः। सीदन् साधर्मिकस्तु सोक्त्या भाटकापणं विनापि साधारणे गृहे वसति । तथान्यस्थानाभावे तीर्थादौ चैत्ये यदि बहुस्थितिस्वापादि क्रियते तदापि व्यापारणानुसारेणाधिकनिष्क्रयो मोच्यः । स्तोकनिष्क्रयार्पणे स्पष्ट एव दोषः । एवं च सम्यग निष्क्रयापणं विना देवज्ञानसाधारणसत्कं कर्पटकनालिकेरस्वर्णरूप्यपट्टिकाकलशपुष्पपक्कानसुखभक्षिकादिकमुद्यापननन्दिपुस्तिका_दौ न मोच्यं । उद्यापनादौ हि प्रौढाडम्बरेण स्वनाम्ना मण्डिते बहुजनश्लाघादि स्यात् । स च स्तोकं निष्क्रयं मुञ्चतीति व्यक्त एव दोषः । अत्र लक्ष्मीवती ज्ञातम् । “यथा-सा महर्द्धिर्धर्मिष्ठा महत्वार्थिनी स्तोकस्तोकनिष्क्रयार्पणेन विविधोद्यापनादिपुण्यकार्याणि प्रौढाडम्बराण्यजस्रं करोति कारयति च । देवादिद्रव्यं वर्द्धयन्त्यस्मि, प्रभावनां च पोज्झम्भयन्त्यस्मीति धिया । एवं श्राद्धधर्ममाराध्य मृता स्वर्गतापि प्रज्ञापराधदोषाद्धीनसुरीत्वेनोत्पन्ना, क्रमाच्युता महेभ्यस्य निरपत्यस्य मान्यपुत्रीत्वेनोत्पन्ना । परं तस्यागभेस्थत्वे मातु: सीमन्तमहः परचक्रभयोद्रेकेण जन्मषष्ठीनामस नामुण्डनादिमहाश्च नृपत्यमात्यादीनां गृहे शोकोत्पत्या नाजायन्त पित्रा पौढमौढतराडम्बरेण प्रारब्धा अपि । तथा माणिस्वर्णाभरणानि सर्वाङ्गीणानि पित्रा सादरं कारितान्यपि तया दिनमात्रमपि परिधातुं नाशक्यन्त स्तेनादिभयेन । एवं भोजननेपथ्यादावपि पायो यद्यत्सामान्यं तत्तत्तस्या आपतती सर्वत्र मान्यत्वेऽपि प्राकर्मदोषेण । तदुक्तं केनचित्-" सायर तुज्झ न दोसो दोसो अम्हाणपूव्वकम्माणं । रयणायराम भारए, सालुरो हत्थि मे लग्गो ॥१॥" अस्या एकोपि महो न जातोऽस्तीत्यत्या. डम्बरेण पित्रा तस्या विवाहे विधीयमाने लग्नासत्तौ माता मृता तेन निरुत्सवं पाणिग्रहणमात्रमजनि । महेभ्योदारश्वशुरगृहगमनेऽपि मान्यत्वेऽपि च प्राग्वनवनवभयशोकमान्यादिना मनोऽभीष्टभोगसुखोत्सवादियोगस्तस्याः प्रायो नासीत् । ततस्तयाऽत्युद्विग्नया संविग्नया च कचित् केवली पृष्टः प्रोचे, " प्राग्भवे त्वया स्तोकनिष्क्रयार्पणप्रौढाडम्बरदर्शनादिना दुष्कर्मार्जितं तत्फलमिदं" । ततः सा तत्पापमालोच्य प्रव्रज्य क्रमात् सिद्धा ॥ तस्मादुद्यापनद्वौकनादौ निष्क्रयग्राह्यवर्तुलिकानालिकेरमोदकादेर्यावन्मूल्यं स्यात्तावत्चनिष्पादनानयनाद्युपक्रमपदे तदनुसारेण कियदधिकं चार्पणीयं । एवं निष्क्रयशुद्धिः। केनचित् सविस्तरोधापनादौ स्वनाम्ना मण्डितेऽधिकशक्त्यायभावात्तदुद्यापनाचारसत्यापनार्थ कश्चिद्यावन्मुश्चति, तावतापि न दोषः । तथा स्वगृहचैत्यदौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्य । नापि चैत्ये स्वयमारोप्यं, किन्तु सम्यग् स्वरूपमुक्त्वार्चकादेः पार्थात् । तद्योगाभावे तु सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमप्यारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नाप्यं, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः । मुख्यवृत्या तु मासदेयं पृथगेव कार्य । गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यमन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यान्नतु स्वद्रव्येण । तथा चानादरावज्ञादिदोषः । न चैवं युक्तं स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् । देवगृहे देवपूजापि स्वद्रव्येणैव यथाशक्ति कार्या, नतु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण । देवसत्कपुष्पादिना वा, प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयं सम्यग् मूल्यादियुक्त्या च विक्रेयं न तु यथा तथा मोच्यं, देव श्रीश्राद्धविधिप्रकरणम् 61

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134