SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उभयोरपि स्नेहः एकदा ज्ञानी पृष्टः स्नेहकारणं प्राह । एषा पूर्वभवे तव माताऽभूत् । तया जिनस्याग्रे दीपं कृत्वा पश्चात्तेनैव दीपेन गृहकार्याणि कृतानि । धृपाङ्गारेण चुल्ली सन्धुक्षिता । तेन कर्मणा उष्ट्री जाता। यतः-अतो देवदीपे लेखा न वाच्यन्ते । गृहकार्य न क्रियते । नाणकं न परीक्ष्यते । देवदीपादीपः स्वकार्ये न क्रियते । देवश्रीखण्डेन तिलकं न क्रियते स्वललाटादौ । देवजलेन करौ न प्रक्षाल्यौ । देवस्य शेषापि पतिता स्वल्पैव च गृह्यते न शरीरादुत्तार्य । देवसत्कं च झल्लरीभेर्यादि गुरूणामपि सङ्घस्यापि चाग्रे न वाद्यं । केचिचाहुः , पुष्टालम्बने यदि देवझल्लर्यादि व्यापार्यते, तदा पूर्व बहुनिष्क्रयो देवस्य मोच्यो। यतः- " मुल्लं विणा जिणाणं, उवगरणं चमरछत्तकलसाई । जो वावारइ मूढो, नियकज्जे सो हवइ दुहिओ ।।१।।" निष्क्रयं दत्वा खकार्यार्थ गृहीतस्य देवझल्लर्यादिकस्य जातु भङ्गादिविनाशे स्वद्रव्ये समारचनं कार्य । स्वगृहार्थकृतदीपस्य देवदर्शनार्थमेव देवाग्रे आनयनेऽपि देवसत्कत्वं न स्यात्, पूजार्थमेव देवाग्रे मोचने तु देवसत्कत्वं । मुख्यवृत्या देवदीपकृते कौशिकादि पृथगेव कार्य । स्वकौशिकादौ देवपूजार्थ दीपकरणे तु तैलवादि स्वकार्ये न व्यापार्य । एवं केनाप्यर्चाकृत्कराङ्. घ्रिक्षालनाद्यर्थ यदि जलं चैत्ये मुक्तं स्यात्तदा तज्जलव्यापारणेऽपि न दोषः । तत एव स्वगृहे पिङ्गानिकाचङ्गेरीओरसादि श्रीखंडकपूरकस्तूयोदि च स्वनिधास्थ(थे)मेव देवपूजादो व्यापार्य, न तु देवसत्कं काये। तथा सति स्वगृहपयोजनेऽपि व्यापारयितुं कल्पते, एवं झल्लरीभेोद्यपि । यदि साधारणं कृत्वा मुक्तं स्यातदा धर्मकार्ये सर्वत्र कल्पते । खसत्कं तु सावाणजव: निकादि कियाद्दिनानि देवगृहादौ विलोक्यमानत्वेन व्यापारणाय मुक्तमपि देवादिसत्कं न स्यात्, अभिपायस्यैव प्रमाणीकर णात् । अन्यथास्वभाजनस्थनैवेद्यढोकने भाजनानामपि देवसत्कीभवनप्रसङ्गः । गृहाट्टादि च देवज्ञानसत्कं भाटकेनापि श्राखून न व्यापार्य निःशूकताद्यापत्तेः । साधारणसम्बंधि तु संघानुमत्या यदि व्यापार्यते, तदापि लोकव्यवहाररीत्या भाटकमर्प्यते नतु न्यून, तच्चोक्तदिनमध्ये स्वयमेवाप्यं । तत्र च यद् भित्यादि प्राक्तनं विनश्यत्समारच्यते, तत्र यावल्लगति तावद् भाटक मध्ये वालनीयमिति, तथा लोकव्यवहारात । यत्तु स्वकार्यार्थमाळ्यादि नव्यं कार्यते, तत्र यल्लगति तद् भाटकमध्ये न वाल्यं, साधारणद्रव्योपजीवनदोषापत्तेः। सीदन् साधर्मिकस्तु सोक्त्या भाटकापणं विनापि साधारणे गृहे वसति । तथान्यस्थानाभावे तीर्थादौ चैत्ये यदि बहुस्थितिस्वापादि क्रियते तदापि व्यापारणानुसारेणाधिकनिष्क्रयो मोच्यः । स्तोकनिष्क्रयार्पणे स्पष्ट एव दोषः । एवं च सम्यग निष्क्रयापणं विना देवज्ञानसाधारणसत्कं कर्पटकनालिकेरस्वर्णरूप्यपट्टिकाकलशपुष्पपक्कानसुखभक्षिकादिकमुद्यापननन्दिपुस्तिका_दौ न मोच्यं । उद्यापनादौ हि प्रौढाडम्बरेण स्वनाम्ना मण्डिते बहुजनश्लाघादि स्यात् । स च स्तोकं निष्क्रयं मुञ्चतीति व्यक्त एव दोषः । अत्र लक्ष्मीवती ज्ञातम् । “यथा-सा महर्द्धिर्धर्मिष्ठा महत्वार्थिनी स्तोकस्तोकनिष्क्रयार्पणेन विविधोद्यापनादिपुण्यकार्याणि प्रौढाडम्बराण्यजस्रं करोति कारयति च । देवादिद्रव्यं वर्द्धयन्त्यस्मि, प्रभावनां च पोज्झम्भयन्त्यस्मीति धिया । एवं श्राद्धधर्ममाराध्य मृता स्वर्गतापि प्रज्ञापराधदोषाद्धीनसुरीत्वेनोत्पन्ना, क्रमाच्युता महेभ्यस्य निरपत्यस्य मान्यपुत्रीत्वेनोत्पन्ना । परं तस्यागभेस्थत्वे मातु: सीमन्तमहः परचक्रभयोद्रेकेण जन्मषष्ठीनामस नामुण्डनादिमहाश्च नृपत्यमात्यादीनां गृहे शोकोत्पत्या नाजायन्त पित्रा पौढमौढतराडम्बरेण प्रारब्धा अपि । तथा माणिस्वर्णाभरणानि सर्वाङ्गीणानि पित्रा सादरं कारितान्यपि तया दिनमात्रमपि परिधातुं नाशक्यन्त स्तेनादिभयेन । एवं भोजननेपथ्यादावपि पायो यद्यत्सामान्यं तत्तत्तस्या आपतती सर्वत्र मान्यत्वेऽपि प्राकर्मदोषेण । तदुक्तं केनचित्-" सायर तुज्झ न दोसो दोसो अम्हाणपूव्वकम्माणं । रयणायराम भारए, सालुरो हत्थि मे लग्गो ॥१॥" अस्या एकोपि महो न जातोऽस्तीत्यत्या. डम्बरेण पित्रा तस्या विवाहे विधीयमाने लग्नासत्तौ माता मृता तेन निरुत्सवं पाणिग्रहणमात्रमजनि । महेभ्योदारश्वशुरगृहगमनेऽपि मान्यत्वेऽपि च प्राग्वनवनवभयशोकमान्यादिना मनोऽभीष्टभोगसुखोत्सवादियोगस्तस्याः प्रायो नासीत् । ततस्तयाऽत्युद्विग्नया संविग्नया च कचित् केवली पृष्टः प्रोचे, " प्राग्भवे त्वया स्तोकनिष्क्रयार्पणप्रौढाडम्बरदर्शनादिना दुष्कर्मार्जितं तत्फलमिदं" । ततः सा तत्पापमालोच्य प्रव्रज्य क्रमात् सिद्धा ॥ तस्मादुद्यापनद्वौकनादौ निष्क्रयग्राह्यवर्तुलिकानालिकेरमोदकादेर्यावन्मूल्यं स्यात्तावत्चनिष्पादनानयनाद्युपक्रमपदे तदनुसारेण कियदधिकं चार्पणीयं । एवं निष्क्रयशुद्धिः। केनचित् सविस्तरोधापनादौ स्वनाम्ना मण्डितेऽधिकशक्त्यायभावात्तदुद्यापनाचारसत्यापनार्थ कश्चिद्यावन्मुश्चति, तावतापि न दोषः । तथा स्वगृहचैत्यदौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्य । नापि चैत्ये स्वयमारोप्यं, किन्तु सम्यग् स्वरूपमुक्त्वार्चकादेः पार्थात् । तद्योगाभावे तु सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमप्यारोपयेत्, अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नाप्यं, आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः । मुख्यवृत्या तु मासदेयं पृथगेव कार्य । गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यमन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यान्नतु स्वद्रव्येण । तथा चानादरावज्ञादिदोषः । न चैवं युक्तं स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् । देवगृहे देवपूजापि स्वद्रव्येणैव यथाशक्ति कार्या, नतु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण । देवसत्कपुष्पादिना वा, प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तुवत् सम्यग् रक्षणीयं सम्यग् मूल्यादियुक्त्या च विक्रेयं न तु यथा तथा मोच्यं, देव श्रीश्राद्धविधिप्रकरणम् 61
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy