________________
द्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ता करणेऽपि जातु चौराग्न्याद्युपद्रवादेवद्रव्यादि विनश्यति, तदा तु चिन्ताकर्ता निर्दोष एवावश्यंभाविभावस्याप्रतिकार्यत्वात् । तथा देवगुरुयात्रातीर्थसङ्घार्चासाधर्मिकवात्सल्यस्नात्रप्रभावनाज्ञानलेखनवाचनादौ यद्यन्यसत्कधनं व्ययार्थ गृह्यते तदा चतुष्पञ्चसमक्षमेव ग्राह्यं । व्ययसमये च गुरुसङ्काद्यग्रे सम्यक् स्फुटं स्वरूपं वाच्यमन्यथा दोषः । तीर्थादौ च पूजास्नात्रध्वजपरिधापनिकाद्यवश्यकृत्येष्वन्यधनं न क्षेप्यं । तानि यथाशक्ति स्वयं कृत्वान्यधनं महापूजाभोगाङ्गाद्यर्चनादिना सर्वसमक्षं पृथगेव व्यायितव्यं । यदा बहुभिः सम्भूय यात्रावात्सल्यसङ्घार्चादि क्रियते, तदा येषां यथाभागस्तथा सम्यग् वाच्यमन्यथा पुण्यव्ययचौर्याद्यापत्तेः । तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते, तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेवं वाच्यं । यद्भवन्निमित्तमियद्दिनमध्ये इयद् व्यययिष्यामि, तदनुमोदना भवद्भिः कार्येति । तदपि सद्यः सर्वज्ञातं व्ययितव्यं । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीन - ताहेतुः । यदार्पम् – “ तवतेणे वयतेणे, रूवतेणे य' जे नरे । आयारभावतेणे अ, कुव्वई 'देवकिव्विसं ॥ १ ॥ " धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते, यथा यथा विशेष विलोक्यमानं धर्मस्थाने तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो दृश्यते । सीदन् श्राद्धोऽपि तदुपष्टम्भेन सघनीभूतः सप्तक्षेत्रीमपि पुष्णाति । लोकेऽप्युक्तं " दरिद्रं भर राजेन्द्र ! मा समृद्धं कदाचन । व्याधितस्योषधं पथ्यं नीरोगस्य किमौषधम् १ ॥। १ ।। " अत एव प्रभावनासङ्घपरिधापनिका सम्यक्त्वमोदकलम्भनादौ निःस्वसाधर्मिकाणां विशिष्टमेव वस्त्वर्पयितुं युक्तमन्यथा धर्मावज्ञादिदोषः । युक्तौ निःस्वानां सस्वेभ्योऽधिकं दीयते । तदयुक्तौ सर्वेषां समं । श्रूयते हि यमुनापुरे ठकुरजिनदासेन धनिनां दर्शनमोदके एकैकः सौवर्णः, क्षिप्तौ निःस्वानां तु द्वौ द्वौ । मुख्यवृत्त्या पित्रादेः पुत्रादेश्व मिथोव्ययादिमाननं प्रागेव कार्य, को वेद क कथं कस्य वा मृतिः स्यादिति । यच्च मानितं तत् पृथगेव व्ययितव्यं । स्वयं क्रियमाणभोजनदानादिरूपन्ययमध्ये न क्षेप्यं, मुधा धर्मस्थाने दोषापत्तेः । एवं सति ये यात्रादौ भोजनशकटसंप्रेषणादिव्ययं सर्व मानितव्ययमध्ये गणयन्ति तेषां मूढानां न ज्ञायते का गतिः १ यात्राद्यर्थं हि यावन्मानितं तावदेवादि द्रव्यं जातं, तस्यान्येन स्वभोजनादौ व्यये कथं न देवादिद्रव्योपभोगदोषः । । एवञ्चाज्ञानप्रज्ञापराधादिना यः कश्चित्कचिदेवादिद्रव्योपभोगो जातः स्यात्, तत्प्रायवित्तपदे उपभोगसंभवानुसारेण कियत् कियत् स्वद्रव्यं देवज्ञानसाधारण सम्बन्धि करोति । अन्त्यावस्थायां च विशिष्य । अन्यत्र हि धर्मपदादौ शक्त्याद्यभावे व्ययः स्वल्पोऽपि भवतु । 1 तु सर्वं सम्यक् संशोध्यं विशिष्य च देवादिविषयं । यदवादिष्म—“ ऋणं ह्येकक्षणं नैव धार्यमाणेन कुत्रचित् । देवादिविषयं तत्तु कः कुर्यादतिदुस्सहम् ।। १ ।। " तस्मात् सर्वत्र वैव
कार्य सुधिया । आह च - " प्रतिपच्चन्द्रं सुरभी, नकुलीं नकुलः पयश्च कलहंसः । चित्रकवल्लीं पक्षी सूक्ष्मं धर्म सुधीर्वेत्ति ।। १ ।। " इत्यलं प्रसङ्गेन अथ गाथोत्तरार्द्धव्याख्या - एवं जिनाच विधाय, दृढा नतु शिथिलाः पञ्च ज्ञानादय आचाराः, “ काले विणए बहुमाणे " इत्याद्यागमोक्ता यस्य सः । तथा आचारपञ्चकव्याख्यात्वस्मदुपज्ञादाचारमदीपग्रन्थाद् ज्ञेया । एवं विधस्य गुरोराचार्यादेः पार्श्वे प्रत्याख्यानं स्वयं यत्माक्कृतं तदेव विशिष्टं वा विधिनोच्चारयति, गुरुमुखेन प्रतिपद्यते इत्यर्थः । त्रिविधं हि प्रत्याख्यानविधानं आत्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च । तद्विधिश्वायं, चैत्ये देववन्दनार्थमागतानां स्ना· दिदर्शनधर्मदेशनाद्यर्थं तत्रैव स्थितानां वसतौ वा चैत्यवन्नैषेधिकीत्रयाभिगमपञ्चकादियथार्हविधिना गत्वा सद्गुरूणां धर्मदेशनायाः प्राक् पश्चाद्वा यथाविधि पञ्चविंशत्यावश्यकविशुद्धं द्वादशावर्त्तवन्दनं दत्ते । महाफलं चेदम् यतः - “ नीआगोअं खवे कम्मं, उच्चागोअं निबंधए । सिढिलं कम्मगंटिं तु, वंदणेणं नरो करे ।। १ ।। तित्थयरत्तं सम्मत्तखाइअं सत्तमी तइआए । आउं वंदणएणं, बद्धं च दसारसीहेण || २ || ” शीतलाचार्यस्य वन्दनार्थागतविकालबहिःस्थितरात्रिजात केवलचतुभगिनेयानां प्राक्रुधा द्रव्यवन्दनं, तद्गिरा भाववन्दने तु केवलं । गुरुवन्दनं च त्रिधा । यद् भाष्यं, – “गुरुवंदणमह तिविहं, तं फिट्टा - थोभ-बारसावत्तं । सिरनमणाइसु, पढमं, पुन्नखमासमणदुगि बीअं ॥ १ ॥ तइअं तु छेदणदुर्गे, तत्थमिहो आइमं सयलसंघे । बीअं तु दंसणीण य, पयद्विआणं च तइअं तु ||२| " येन च प्रतिक्रमणं कृतं न स्यात्तेन विधिना वन्दनं दातव्यं । यद्भाष्ये“इरिआ कुसुमिणुसग्गो, चिइवंदणपुत्तिवंदणालोअं । वंदणखामणवंदण, संवरचउथोभदुसज्झाओ ॥ १ ॥ इरिआचिइवंदणपुत्तिवंदणं चरिमवंदणालोअं । वंदण खामणचउथो भदिवसुसग्गो दुसज्झाओ ||२||” अनयोर्व्याख्या - “ ईर्यापथिकी प्रथमं प्रतिक्रम्यते, तदनु ‘“ कुसुमिणेत्यादि ” कायोत्सर्गः शतोच्छ्रासमानः, कुस्वमाद्युपलम्भे त्वष्टोत्तरशतोच्छ्रासमानस्ततश्चैत्यवन्दना, ततः पुत्तित्ति' मुखवस्त्रिकाक्षमाश्रमणपूर्व प्रतिलेख्या, ततो वन्दनकद्वयमालोचनं च पुनर्वन्दनकद्वयं क्षामणकं च, पुनर्वन्दनकद्वयं 'संवरत्ति' प्रत्याख्यानं च, ' चउथोभत्ति' भगवन् इत्यादीनि चत्वारि क्षमाश्रमणानि ततः सज्झायसं दिसावडं सज्झायकरजं " इति क्षमाश्रमणद्वयं दत्वा स्वाध्यायः कार्यः । इति प्रातस्त्यवन्दनकविधिः । प्रथममीर्यापथिकी प्रतिक्रमणं, ततश्चैत्यवन्दना, क्षमाश्रमणपूर्व मुखवस्त्रिका प्रतिलेखनं, वन्दनकद्वयं, “ दिवसचरिमं " इति प्रत्याख्यानं च, ततो वन्दनकद्वयमालोचनं च, वन्दनकद्वयं क्षामणं च, ' भगवन् ' इत्यादि थोभवन्दनानि चत्वारि, ततो “ देवसि अपायच्छित्तेत्ति” कायोत्सर्गः, ततः प्राग्वत्
"
62
श्रीश्राद्धविधिप्रकरणम