________________
क्षमाश्रमणद्वयं दत्वा स्वाध्यायः । अयं सान्ध्यवन्दनकविधिः । गुरोर्व्याक्षिप्तत्वादिना द्वादशावर्त्तवन्दनकायोगे थोभवन्दनेनापि गुरुं वन्दत । एवं वन्दनपूर्व गुरुपाचे प्रत्याख्यानं कार्य । उक्तं च-"प्रत्याख्यानं यदासीत्तत्करोति गुरुसाक्षिकम । विशेषेणाथ गृह्णाति, धर्मोऽसौ गुरुसाक्षिकः ॥१॥" गुरुसाक्षित्वे हि दृढता "गुरुसकिओ धम्मो" इति जिनाज्ञाराधनं गुरुवाक्योद्भूतशुभाशयादधिकः क्षयोपशमः, तस्माच्चाधिका प्रतिपत्तिरित्यादिर्गुणः । तत्प्रोक्तं श्रावकमज्ञप्तौ-"संतमिवि परिणामे, गुरुमूलपवज्जणमि एस गुणो । दढया आणाकरणं, कम्मखओवसम बुट्टी अ॥१॥" एवं च दैवसिकचातुर्मासिकनियमाद्यपि सम्भवे गुरुसाक्षिकं स्वीकार्य । अत्र द्वादशावर्त्तवन्दनंविधिः। पञ्चनामादिभिाविंशत्या मलद्वारैर्द्विनवत्यधिकचतुःशती प्रतिद्वाररूपः । प्रत्याख्यानविधिश्च दशपत्याख्यानादिनवमूलद्वारैनवति प्रतिद्वारात्मको भाष्यादरभ्यूह्यः । प्रत्याख्यानस्य स्वरूपं किञ्चित्यागुक्तं । फलं च षण्मास्याचामाम्लतपोऽनन्तरमहेभ्यनृपखेचरेन्द्रादिद्वात्रिंशत्कन्यापरिणेतृधम्मिलादीनामिवेहलोके, परलोके तु चतुईत्यादिमहापातककृत्षण्मासीतपस्तद्भवसिद्धदृढपहार्यादेरिव प्रतीतं । उक्तमपि-" पच्चरकाणंमि कए, आसवदाराई हुंति पिहिआर्हि। आसववुच्छेएण य, तन्हावुच्छेअणं हवइ ॥१।। तन्हावुच्छेएणं, अउलोवसमो भवे मनुस्साणं । अउलोवसमेण पुणो, पच्चरकाणं हवइ सुद्धं ॥२॥ तत्तो चरित्तधम्मो, कम्मविवेगोअपुव्वकरणं तु । तत्तो केवलनाणं, तत्तो मुरको सयासुको ।।३॥" ततो वन्दते यथाविधि चतुर्विधं साध्वादिसङ्गं ।चैत्यादौ गुर्वागमनाद्यवसरे चाभ्युत्थानादिप्रतिपत्तिः कार्या । यदाहुः"अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ।।१।। भासनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चति प्रत्तिपतिरियं गुरोः।।२॥"आसनाभिग्रह इति आसने उपविष्टेषु गुर्वादिषु स्वयमासितव्यमित्यभिग्रहः । ततश्च,-"न परकओ न पुरओ, नेव किच्चाण पिट्ठओ। न य उरुं समासज्ज, चिहिजागुरुणंतिए ।।१॥"'परकओत्ति' पक्षतः पार्थयोरविनयसंभवात् । 'किच्चाणत्ति ' कृत्यानां गुरूणां । -"नेव पल्हत्थिरं कुज्जा, परकंपिंडं च संजए । पाए पसारिए वावि, न चिट्टे गुरुणतिए ॥ २ ॥ " ' पल्हत्थिअंति' पर्यस्तिका पक्षपिण्डं बाहुपर्यस्तिका, “संजएत्ति' प्रस्तावाद्देशसंयतः । “ पर्यस्तिका अवष्टम्भं तथा पादप्रसारणम् । विकथाः प्रबलं हास्यं वर्जयेद गुरुसंनिधौ ॥ ३॥ निद्दाविकहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेअव्वं ॥ ४ ॥ " इत्यादिश्रुतोक्तविधिना गुरोराशातनावर्जनार्थमर्द्धचतुर्थहस्तप्रमाणादवग्रहक्षेत्रावहिनिर्जन्तुभूभागेऽवस्थाय धर्मदेशनाश्रोतव्या । यतः- " धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिःसृतवचनरसश्चान्दनस्पर्शः ॥ १ ॥ " धर्मदेशनाश्रवणे चाज्ञानमिथ्याज्ञानव्यपगमसम्यक्तत्वावगमानिःसंशयत्वधर्मदृढत्वव्यसनाद्युन्मार्गनिवृत्तिसन्मार्गप्रवृत्तिकषायादिदोषोपशमविनयादिगुणार्जनोपक्रमकुसंसर्गपरिहारसुसंसर्गाङ्गीकारभवनिर्विण्णतासंविग्नतासम्यक्श्राद्धसाधुधमाभ्युपगमनसर्वाङ्गीणतदैकाय्याराधनादयोऽनेकगुणा नास्तिकप्रदेशिनरेशश्रीमदामकुमारपालथावच्चापुत्रादीनामिव मन्तव्याः। तदाह-"मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयतिप्रशमं तनोति । सूते विरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः किमु यन्न दत्ते ॥ १॥ पिण्डः पाती बन्धवो बन्धभूताः, सूतेऽनर्थानर्थसम्पद्विचित्रान् । संवेगाद्या जैनवाक्यप्रसूताः कं कं कुर्यु!पकारं नराणाम् ॥२॥प्रदेशिनरेशनिदर्शनलेशश्वायम्"श्वेतम्बीपुर्या प्रदेशी राजा,चित्रो मन्त्री, श्रावस्त्यांचतुानिकेशिगणेन्द्राद गृहीतसुश्राद्धर्मस्तद्गिराकेशिगुरोःश्वेतम्यामागतस्य पार्थेऽश्ववाहिकाव्याजतश्चित्रेण प्रदेशी नीतः सगर्वमूचे,-"महर्षे मामृषा कष्ट कार्षीधर्माद्यभावाद ,मम माताश्राविकाभूत पितातु नास्तिक, अन्ते मया बहुक्तावपि ताभ्यां मृताभ्यां स्वर्गसुखनरकदुःखलाभादि न किमप्यावदितं मम । एकश्च चौरस्तिलखण्डशः कृतो न त्वात्मा कापि दृष्टो जीवनमृततोलनेऽपि नान्तरं ज्ञातं, निश्च्छिद्रकुम्भ्यन्तश्चैकः क्षिप्तो मृतस्तदेहे चासङ्ख्याः कृमयो दृष्टाः। निर्गमप्रवेशद्वारं तु जन्तूनां कापि न दृष्टं । एवं बहु परीक्ष्य नास्तिकीभूतोऽस्मि । गुरुणोक्तं, सुखदुःखोत्कर्षाक्रान्त्या तव पित्रोरत्र नागमनं । अरणिकाष्ठान्तर्भूताग्निवायुभृताभृतहतितोलनकुम्भयन्तःक्षिप्तशतवादकध्वन्यादिदृष्टान्तीयोऽप्यस्तीत्यादियुक्तिभिर्बोधितोऽभ्यधात्, -" सत्यमिदं परं कुल क्रमागतां नास्तिकतां कथं मुश्चे?" गुरुणोक्तं,-" दौस्थ्यव्याधिदुःखादिवत् क्रमागतापि सा त्याज्यैव ।" ततः सुश्रादीभूतः। कदाचित्पौषधोपवासपारणेऽन्यपुरुषासक्तसूर्यकान्तया कान्तया दत्तविषो ज्ञाततव्यतिकरश्चित्रमन्त्रिगिरा सुसमाहितः कृताराधनानशनः सौधर्मसूर्याभविमाने सुरोऽभूत् । सूर्यकान्ता तु विषदा ज्ञातास्मीति भीता नष्टाऽरण्ये । फणिना दष्टा नरकं पाप । आमलकल्पापुर्या समवमृतश्रीवीरस्याग्रे सूर्याभदेवः सव्यापसव्यबाहुभ्यामष्टोत्तरशतखेलखेलिका प्रकटनादिना दिव्यनाट्यं कृत्वा गतो गौतमपृष्टश्च स्वाम्याख्यत् तत्माग्भवमहाविदेहसिद्ध्यादि ।" इति प्रदेशिदृष्टान्तः । श्रीआमनृपः श्रीबप्पभट्टयाचार्यस्य, कुमारपालस्तु श्रीहेमसूरेः सदुपदेशैः प्रतिबुद्धः प्रसिद्ध एव । थावच्चापुत्रस्तु द्वारवत्यां प्रौढतरर्दिथावच्चासार्थवाहीपुत्रो द्वात्रिंशत्कन्यापतिः श्रीनेमिदेशनया प्रबुद्धः । मात्रा बहु वारितोऽपिन स्थितः। माता दीक्षोत्सवाय कृष्णं राजचिह्नानि याचते । कृष्णोऽपि गृहमागत्य थावच्चापुत्रं पाह,-"मा प्रावाजी गान् भुव । " तेनोक्तं,-" भीताय न स्वदन्ते भोगाः ।" हरिः प्राह,'कुतो भयं मयि सति ? ' स माह,-'मृत्योः । ततः कृष्णकृतोत्सवः सहस्रेभ्यादियुतः पाबाजीत् । चतुर्दशपूर्वी जातः । सेलकपुरे सेलकनृपं मन्त्रिपञ्चशतीयुतं श्रावकीकृत्य सौगन्धिकापुयां प्राप्तः । त्रिदण्ड-कुण्डिका-छत्र-षणालक-अळूश-पवि
स
चतुलानिकेशिगणेन्द्रीकर्नोपकारं नराणामदिन ॥ पिण्डपात
श्रीश्राद्धविधिप्रकरणम्
63