________________
क-केसरीहस्तो, धातुरक्तवस्रवेषः, साशास्त्रलब्धार्थः, प्राणातिपातविरमणादिपश्चयमशौच-सन्तोष-तप-स्वाध्याय-ईश्वरप्रणिधानरूपपञ्चनियमात्मकं शौचमूलं दशपकारं परिव्राजकधर्म दानधर्म च प्ररूपयन्, सहस्रशिष्यपरिवृत्तो व्यासपुत्रः शुको नाम परिव्राजकस्तत्समयेऽभूत् । तेन प्राक् शौचमूलं स्वधर्म ग्राहितः सुदर्शनाख्यो नगरश्रेष्ठी । थावच्चापुत्राचार्येण विनयमूलं स्वधर्म स्वीकारितः। तत्समक्षं शुकप्रश्ना यथा-"सरिसवया भंते । किं भरका अभरका मुआ! भरका वि अभरका वि। ते दुविहा, मित्तसरिसवया धन्नसरिसवया । पढमा तिविहा, सहजाया सहवट्टिया सहपंसुकीलिआ । एए समणाणं अभरका । धन्नसरिसवया दुविहा, सत्थपरिणया इअरे अ । पढमा दुविहा, फासुगा अन्ने अफासुगा वि जाइआ अजाइआ य । जाइआ वि एसणिज्जा अन्ने अएसणिज्जा विलद्धा अलद्धा य । बिइआ सव्वत्थ अभरका, पढमा भरका । एवं कुलत्था वि मासा वि, नवरं मासा तिविहा, कालअत्यधन्नभेआ।" एवं प्रबोधे सहस्रयुतशुकदीक्षा । थावच्चापुत्रः शत्रुञ्जये सिद्धः सहस्रयुतः। सेलकपुरेशं सेलकं पन्थकादिमन्त्रिपञ्चशतीयुतं दीक्षित्वा शुकोपि तथैव सिद्धः । सेलक एकादशाङ्गी पन्थकादिभिः पञ्चशत्या शिष्यैः सह विहरन् रूक्षाद्याहारैः कण्डूपिचादिरोगाक्रान्तः सेलकपुरे प्राप्तः । पुत्रमंडूकनृपेण स्वयानशालायां स्थापितः । पासुकौषधपथ्यैः पट्टकृतोऽपि स्निग्धाहारगृझ्या बहिर्न विहरति । ततः शिष्याः पन्थकं तद्वैयावृत्त्ये नियोज्य विजहुः । अन्यदा कार्तिकचतुर्मासकदिने सेलको यथेष्टं भुक्त्वा सुप्तः । प्रतिक्रमणवेलायां पन्थकेन क्षामणकार्थ पादयोः शिरसा घट्टितः प्रबुद्धो रुष्टः । पन्थकः प्राह,-" चतुर्मासकापराधक्षामणाय मया पादौ स्पृष्टौ ।" सेलको वैराग्यप्राप्तो व्यचिन्तयत, 'धिग् मां रसगृदं ' ततो विजहार । अन्येऽपि शिष्या मिलिताः शत्रुञ्जये तैः सह सिद्धः । " इति यावच्चापुत्रकथा ।। तस्मात्प्रत्यहंसद्गुरुभ्यः शृणोति धर्मोपदेशं । श्रुत्वा चानुतिष्ठति तदादिष्टमर्थ यथाशक्ति । यतो नौषधभक्ष्यादिज्ञानमात्रेणारोग्यतृप्त्यादि किन्तु क्रियोपयोग एव । आह च "क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥१॥ जाणतोवि अ तरिउं, काइअजोगं न जुंजइ नईए। सो वुझ्झइ सोएणं, एवं नाणी चरणहीणो ॥२॥" दशाचूर्णावपि-"जो अकिरिआवाइ सो भविओ अभविओ वा निमा किण्हपरिकओ। किरिआवादी निअमा भषिओ, निमा सुक्कपरिकओ, अंतो पुग्गलपरिअट्टस्स नियमा सिज्झहिइ, सम्मदिट्ठी मिच्छादिट्ठी वा हुज्जा।":, च ज्ञानरहिता क्रियापि परिणतिहिता। यतः" अन्नाणा कम्मखओ, जायइ मंडुक्कचुण्णतुल्लत्ति । सम्मकिरिआइ सो पुण, नेओ तच्छारसारिच्छो ॥१॥ जं अन्नाणी कम्म, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासामित्तेणं ॥२॥" अत एव तामलिपूरणादीनां बहुतपः क्लेशेऽपीशानन्द्र त्वचमरेन्द्रत्वाधल्पफलं । ज्ञानवतोऽपि श्रद्धानं विनाङ्गारमर्दकादेरिव न सम्यक्रियायां प्रवृत्तिः। पथ्यते च-" अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तीचारुचेरियममू तुदती न किश्चित् । अन्धाविहीनहतवाञ्छितमानसानां दृष्टा न जातु हितवृत्तिरनन्तराया ॥१॥" ततो ज्ञानदर्शनचारित्रयोगे मोक्ष इति तत्त्रयाराधनाय यतेतेति तात्पर्य । तथा पृच्छति यतिकृत्यनिर्वाहं । यथा निर्वइति युष्माकं संयमयात्रा ? सुखरात्रिर्भवतां ? निराबाधाः शरीरेण यूयं ? न बाधते वः कश्चिद् व्याधिः ? न योग्यं किमपि ? वैद्यादेर्न प्रयोजनं किञ्चिदौषधादिना ? नार्थित्वं किञ्चित्पथ्यादिना ? इत्यादि । एवं प्रश्नश्च महानिर्जराहेतुः । यतः- " अभिगमणवंदणनमंसणेण पडिपुच्छणेण साहणं । चिरसंचिपि कम्म, खणण विरलत्तणमुवेइ ॥१॥" प्राग्वन्दनावसरे सामान्यतः, "सुहराईसुहतपसरीरनिरावाधेत्यादिप्रश्नकरणेऽपि विशेषेणात्र प्रश्नः सम्यक्स्वरूपपरिज्ञानार्थस्तदुपायकरणार्थश्च । अत एवात्र पदोलगित्वा, " इच्छाकारि भगवन् पसाउकरी फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुछणेणं पाडिहारिअपीढफलगसिज्जासंथारेणं ओसहभेसज्जेणं भयवं अणुग्गहो कायव्वो" । इति व्यक्त्या निमन्त्रणं च कार्य । अत्र शय्या सा यत्र प्रसारितपादैः सुप्यते । संस्तारकस्तु किञ्चिल्लघुः। औषधमेकद्रव्याश्रयं । भैषज्यं तु द्रव्यसमुदायरूपं । इदं च निमन्त्रणं संप्रति गुरूणां वृहदवन्दनकपदानानन्तरं श्राद्धाः कुर्वन्ति । येन च प्रतिक्रमणं गुरुभिः सह कृतं भवति, स मुर्योदयादनु यदा स्वगृहादौ याति तदा तत्करोति । यस्य च प्रतिक्रमणवन्दनकयोगो न स्यात्तेनापि वन्दनाद्यवसरे एवं निमंत्रणं क्रियते। मुख्यवृत्त्या तु द्वितीयवारदेवपूजानैवेद्यढौकनानन्तरमुपाश्रये गत्वा साधून्निमन्त्रयेत् । श्राद्ध दिनकृत्यमूत्रादौ तथा दर्शनात् । ततो यथावसरयोगं कारयति चिकित्सा, ददात्योषधादि, विहारयति यथाह पथ्यादि, सारयति सर्वप्रयोजनानि । यतः-“दाणं आहाराई, ओसहवत्थाई जस्स जं जोगं । णाणाईणगुणाणं, उवटुंभणहेउ साहूणं ।। १॥" गृहागतानां च साधूनां यद्यद्योग्यं तत्तत्सर्व विहारयितुं प्रत्यहं नामग्राहं कथयत्यन्यथा प्राकृतनिमन्त्रणस्य वैफल्यापत्तेः । नामग्राहं कथने तु यदि साधवो न विहरन्ति, तदापि कथयितुः पुण्यं स्यादेव । यदवोचाम-" मनसापि भवेत्पुण्यं वचसा च विशेषतः। कर्त्तव्येनापि तद्योगे स्वमोऽभूत्फलेग्रहिः ।।१॥" अकथने तु विलोक्यमानमपि साधवो न विहरन्ति इति महती हानिः । एवं निमन्त्रणेपि जातु साधवो नायान्ति तदापि निमन्त्रयितुः पुण्यं स्योद्भावविशेषे त्वधिकतरमिति । यथा-" वैशाल्यां छाद्मस्थ्ये चतुर्मासीतपसा प्रतिमास्थस्य श्रीवीरस्य प्रत्यहं पारणार्थनिमन्त्री जीर्णश्रेष्ठी चतुर्मासीमान्तेऽद्य पारणं भाव्येवेति दृढं निमन्त्र्य गृहे गतो धन्योऽहं स्वाम्यद्य मद्गृहे पारणं कर्तेत्यादिभावनयैवाच्युतस्वर्गायुर्वबन्ध । पारणं तु स्वामी मिथ्यागभिनवश्रेष्टिना भिक्षाचररीत्या
64
श्रीश्राद्धविधिप्रकरणम