SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दासीपार्श्वाद् दापितकुल्माषैश्चक्रे । तदा देवदुन्दुभिध्वनिं जीर्णश्रेठी यदि नाष्य तदा केवलमध्वार्जिण्य दिति ज्ञानिनोक्तं । " इति निमन्त्रणे ज्ञातम् । आहारादिदाने श्री शालिभद्रादिरौषधदाने च श्रीवीरौषधदात्री बद्धजिनकर्मा रेवती ज्ञातं । ग्लानस्य प्रतिचरणे च महत्फलम् । यदागमः - " गोअमा जे गिलाणं पडिअरइ से मं दंसणेणं पडिवज्जइ । जे मं दंसणेणं पडिवज्जइ से गिलाणं पडिअरइ । आणाकरणसारं खु अरिहंताणं दंसणं " इत्यादि । अत्र कृमिकुष्ठोपद्रुतयतिप्रतिक्रियाकृत् श्रीऋषभजीवजीवानन्दवैद्यो ज्ञातम् । तथा ददाति सुस्थाने योग्यमुपाश्रयादि । यतः - " वसही सयणासणभत्तपाणभे सज्जवत्थपत्ताई । जइवि न पज्जत्तधणो, थोवा वि हु थोवयं देइ ॥ १ ॥ जो देइ' उवस्सयं जइवराण तवनिअमजोगजुत्ताणं । तेणं दिनावत्थन्नपाणसयणासणविगप्पा ॥ २ ॥ जयन्तीवङ्कचूलाद्याः कोशा चांश्रयदानतः । अवन्तिसुकुमालश्च तीर्णाः संसारसागरम् ।। ३ ।। " तथा निवारयति सर्वशक्त्या ' जिनमव चनप्रत्यनीकान् साधुनिन्दादिपरान् । यतः - " तम्हा सइ सामध्ये, आणाभट्ठमि नो खलु वेहा । अणुकूले हिअरेहि अ, अणुसट्ठी होइ दायव्वा ॥ १ ॥ " यथाऽभयकुमारेण द्रमकमुनिनिन्दाकृज्जनो बुद्ध्या निवारितः । एवं साधुवत्साध्वीनामपि सुखकृत्यनिर्वाहमश्नादि सर्व कार्य । एतच्चाधिकं यत्साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनं । स्वगृहप्रत्यासत्तौ समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानं । स्वस्त्रीभिचतासां परिचर्याविधापनं । स्वपुत्रिकाणां च तत्सन्निधौ धारणं | व्रतोद्यतानां स्वपुत्र्यादीनां च प्रत्यर्पणं । तथा विस्मृतकरणीयानां तत्स्मारणमन्यायप्रवृत्तिसम्भवे तन्निवारणं । सकृदन्यायप्रवृत्तौ शिक्षणं । पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनमुचितेन वस्तुनोपचरणं चेति । तथा गुरुपार्श्वे करोति किञ्चिदपूर्व पठनं । यतः - " अञ्जनस्य क्षयं दृष्ट्वा ' वल्मीकस्य विच) वर्द्धनम् । अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु ॥ १ ॥ सन्तोषस्त्रिषु कर्त्तव्यः स्वदारे भोजने धने । त्रिषु चैव न कर्त्तव्यो दाने चाध्ययने तपे ॥ २ ॥ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् । अजरामरवत्माज्ञो विद्यामर्थश्च चिन्तयेत् || ३ || जह जह सुहमवगाहइ, अइसयरसपसरसंजु अमपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए ॥ ४ ॥ जो इह पढइ अपुव्वं, स लहइ तिथ्थंकरत्तमन्नभवे । जो पुण पाढेइ परं, सम्मसुअं तस्स किं भणिमो ॥ ५ ॥ " स्वल्पतरमज्ञतायामपि पाठोद्यमे माषतुषादीनामिव तद्भवेऽपि केवलज्ञानलाभादिफलं विभावनीयमिति षष्ठगाभार्थः । 1 ततो यदि राजादिस्तदा धवलगृहं । यदा त्वमात्यादिस्तदा करणं । अथ वणिगादिस्तदानीमापणादिकं । एवं स्वस्वोचितस्थानं गत्वा धर्माविरोधेनार्थचिन्तां कुर्यात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः । अत्र ज्ञातं यथा – “ कल्याणकटकपुरे यशोवर्मा नृपो न्यायैकनिष्ठस्तेन निजधवलगृहद्वारि न्यायघण्टा बन्धिता । एकदा राज्याधिष्ठात्री देवी नृपतिन्यायव्रतपरीक्षार्थं धेनुरूपं तत्कालजातवत्सरूपं च कृत्वा राजमार्गे स्थिता । अत्रान्तरे नृपपुत्रो वेगवत्तरवाहिनीमारूढस्तत्र प्राप्तो, वेगवशाच्च वाहिनी वत्सचरणयोरुपरि गता । वत्सो मृतः धेनुः कोकूयतेऽश्रूणि च मोमुच्यते । केनाप्युक्तं, " राजद्वारे गत्वा न्यायं याचस्व । " सा गता । तया शृङ्गाग्रेण घण्टा चालिता । नृपस्तदानीं भोक्तुमुपविष्टः शद्धं श्रुत्वा बभाषे – “ रे ! कोऽयं घण्टां चालयति ? ” सेवकैर्विलो - क्योक्तं, – “ देव ! कोऽपि न, भुज्यतां । " नृपः माह, “ निर्णयं विना कथं भुञ्जे १ " । नृपः स्थालं त्यक्त्वा प्रतोल्यामागत्यान्यं कमप्यदृष्ट्वा धेनुं प्राह, -" किं केनापि पराभूतासि १ दर्शय मम तं । साग्रे भूता । नृपः पृष्ठे लग्नस्तया वत्सो दर्शितः । नृपेणोक्तं, – “ येनेयं वाहिनी वाहिता स पुरो भवतु । ” कोऽपि किमपि न वक्ति । राज्ञोक्तं, – “ तदा भोक्ष्ये यदा स स्फुटीभविष्यति । ” राज्ञो लङ्घने जाते कुमारेण प्रातरुक्तं, – “ देवाहमपराधी मम दण्डं कुरु यथा । " राज्ञा स्मृतिज्ञाः पृष्टाः, कोऽस्य दण्डः १ तैरुक्तं, " देव ! राज्याई एक एव पुत्रस्तस्य को दण्डः १ नृपः प्राहः – “ कस्य राज्यं ? कस्य वा सुतो ? मम न्याय एव गरीयान् । " यतः - " दुष्टस्य दण्डः स्वजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् || १ ||" सोमनीतावप्युक्तं, - " अपराधानुरूपो हि दण्डः पुत्रेऽपि प्रणेतव्यः । " इति । ततो यदस्य योग्यं स्यात्तत्कथयतेत्युक्तेऽपि तेष्ववदत्सु, “ योऽन्यस्य यद्यथा कुरुते तत्तस्य तथा विधीयते । ” “ कृते प्रतिकृतं कुर्यादित्यादिवचनात् " । इति स्वयं नृपेण वाहिनीमानाय्य पुत्रस्योक्तं - " इह स्वपिहि " । सोऽपि विनीतः सुप्तः । राज्ञोक्तं, “अस्योपरि वेगेन वाहिनीं वाहयत । " कोऽपि न वाहयति । ततो नृपः सर्वैर्निवार्यमाणोऽपि यावत् स्वयमुपविश्य तां पुत्रचरणयोरुपरि वाहयति, तावद्देवी प्रकटीभूय पुष्पदृष्टि चक्रे । न गौर्न वत्सः । देव्योक्तं, " राजन् ! मया तव परीक्षा कृता, प्राणप्रियैकपुत्रादपि तव नान्यः प्रियतम इति राज्यं चिरं निर्विघ्नं कुरु । " इनि न्याये दृष्टान्तः । नियोगिनां तु धर्माविराधो राजार्थप्रजार्थयोः साधनेनाभय कुमारचाणक्यादिवत् । यतः - “ नरपतिहितकर्त्ता द्वेष्यतामेति लोके जनपदहितकर्ता मुच्यते पार्थिवेन । इति महति विरोधे वर्त्तमानेऽसमाने नृपतिजनपदानां दुर्लभः कार्यक र्त्ता ॥ १ ॥ " वणिगादीनां च धर्माविरोधो व्यवहारशुद्धयादिना । तथैव चाह - "ववहारमुद्धिदेसाइविरुद्ध चायउचिअचरणेहिं | तो कुणइ अत्थचितं, निव्वाहिंतो निअं धम्मं ॥ ७ ॥ " ततः प्रागुक्तकृत्यानन्तरं व्यवहारस्य धनार्जनाद्युपायस्य शुद्धि श्रीश्राद्धविधिप्रकरणम 65
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy