SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ निर्दोषता मनोवाकायावक्रतेत्यर्थः । तथा देशादिविरुद्धकृत्यानां त्यागः परिहारः। उचितकृत्याचरणं च । एभिस्त्रिाभिरपि वक्ष्यमाणलक्षणैर्निजं धर्म स्वीकृतव्रताभिग्रहादिरूपं निर्वाहयन्, नतु कचन किञ्चनापि लोभाधिक्यविस्मृत्यादिना बाधयन् , अर्थचिन्तां धनार्जनाद्यौपयिकं करोति । यदाह-"नहि तद्विद्यते किश्चिद्यदर्थेन न सिद्ध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ।।१।।" अत्र चार्थचिन्तामित्यनुवाद्यं, तस्याः स्वयं सिद्धत्वात् । धर्म निर्वाहयन्निति तु विधेयमप्राप्तत्वात् । तदुक्तं"इह लोइअंमि कज्जे, सव्वारंभेण जह जणो तणइ । तह जइ लरकंसेण वि, धम्मे ता किं न पज्जतं ॥१॥" आजीविका च सप्तभिरुपायैः स्याद् वाणिज्येन विद्यया, कृष्या, पाशुपाल्येन, शिल्पेन, सेवया, भिक्षया, च । तत्र वाणिज्येन वणिजा, विद्यया वैद्यादीनां, कृष्या कौटुम्बिकादीनां, पाशुपाल्येन गोपालाजीपालादीनां, शिल्पेन चित्रकारादीनां, सेवया सेवकानां, भिक्षया भिक्षाचंराणां । तत्र वाणिज्यं धान्यघृततैलकर्पाससूत्रवस्त्रधातुमाणिमौक्तिकनाणकादिक्रयाणकभेदैरनेकविधं । लोके हि षष्ट्यधिका त्रिशती क्रयाणकानि इति प्रसिद्धिः। भेदप्रभेदादिव्यक्तिविवक्षायां त्वलब्धसंख्यान्यपि तानि । कलान्तरव्यवहारोऽपि वाणिज्येऽन्तर्भवति ! । विद्याप्यौषधरसरसायनचूर्णाञ्जनवास्तुशकुननिमित्तसामुद्रचूडामणिधर्मार्थकामज्योतिस्तर्कादिभेदैर्नानाविधा । इह वैद्यविद्या गान्धिकत्वं च प्रायो दुर्थ्यानसम्भवादिना विशेषगुणाय न दृश्यते । यद्यपि सधनमान्यादौ वैद्यगान्धिकयो रिलाभः स्थाने स्थाने बहुमानादि च स्यात् । यतः-" आतुरे हि पिता वैद्यः " तथा—“ रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसंपदाम् ॥१पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिकैः । यत्रैकेन गृहीतं यत्तत्सहस्रेण दीयते ॥२॥" तथापि यस्य यथा लाभः स प्रायस्तथैवेहते । तदुक्तं-"विग्रहमिच्छन्ति भटा वैद्याश्च व्याधिपीडितं लोकम् । मृतकबहुलं च विमाः क्षेमसुभिक्षं च निर्ग्रन्थाः॥१॥ यो 'व्याधिभिया॑यति बाध्यमानं जनौघमादातुमना धनानि । व्याधीन् विरुद्धौषधतोऽस्य वृद्धिं नयेत् 'कृपा तत्र कुतोऽस्तु वैद्ये ॥२॥" केचिच दर्शनिदरिद्रानाथम्रियमाणादिभ्योऽपि प्रसह्य द्रव्यं जिघृक्षन्ति । अभक्ष्यौषधाद्यपि कारयन्ति । विविधौषधादिकपटकृत्या जनान् विप्रतारयन्ति । द्वारवतीवैद्याभव्यधन्वन्तरिवत् । ये तु सत्यकृतयः स्वल्पलोभाः परोपकारिणस्तेषां वैद्यविद्या श्रीऋषभस्वामिजीवजीवानन्दवैद्यवद भवद्वयेऽपि गुणाय २। कृषिर्जलदजलकूपादिजलोभयजलनिष्पाद्यभेदात त्रिविधा ३ । पाशुपाल्यं गोमहिष्यजाकरभवृषभहयगजाजीविकादिभेदादनेकप्रकारं ४। कृषिपाशुपाल्ये च न विवेकिजनोचिते। उच्यते हि-"रायाणदंतिदंते बइल्लखंधसु पामरजणाणं । सुहडाण मंडलग्गे, वेसाण पओहरे लच्छी ॥१॥" अनिर्वहंस्तु यदि कुर्यात्तदा वापकालाद्याकलनदयालुत्वादि धार्य । यदाह-" वापकालं विजानाति भूमिभागं च कर्षकः। कृषि साध्यां पथि क्षेत्रं यश्चोज्झति स वर्द्धते ॥१॥ पाशुपाल्यं श्रियो वृद्ध्यै कुर्वन्नोज्झेद्दयालुताम् । तत्कृत्येषु स्वयं जाग्रच्छविच्छेदादि वर्जयेत् ॥ २॥" शिल्प शतधा । यतः-"पंचेव य सिप्पाइं, घंड लोहे चित्तऽणंत कासवेए । इक्विकस्स य इत्तो, वीसं वीसं भवे भेआ॥१॥" व्यक्तिविवक्षया त्वधिकभेदमपि शिल्पं स्यात् । इह चाचार्योपदेशजं शिल्पं ऋषभस्वाम्युपदेशेन प्रवृत्तत्वात् । आचार्योपदेशं विना परंपरया प्रवृत्तं तु कृषिवाणिज्यादि कर्मोच्यते । यदाप,-" कम्मं जमणायरिओवएसियं सिप्पमनहाभिहि । किसिवाणिज्जाइ, घडलोहाराइभे च ॥१॥" अत्र कृषिवाणिज्यपाशुपाल्यानि साक्षादुक्तानि । शेषकर्माणि प्रायः सर्वाणि शिल्पादौ । स्त्रीपुरुषकलास्तु काश्चिद् विद्यायां, काश्चिच्च शिल्पेष्वन्तर्भवन्ति । कर्म च सामान्यतश्चतुर्भेदं । यदाह-" उत्तमा बुदिकर्माणः करकर्मा च मध्यमः । अधमाः पादकर्माणः शिरःकर्माधमाधमः ॥ १ ॥" बुद्धिकर्मत्वे ज्ञातं । यथा-"चम्पायां श्रेष्ठिधनसुतो मदनो विशिष्टे बुद्धिहट्टे यत्र द्वौ कलहायेते तत्र न स्यामिति बुदि द्रम्मपञ्चशत्या गृहीत्वा मित्रोपहासे पित्रा भर्त्सितः। स्वधनं लातुं बुद्धेः पश्चादर्पणे द्वौ यत्र कलहायेते तत्र स्थेयमेवेति तेन स्वीकारिते नृपभटयोः पथि कलहे पार्थे स्थितः, ताभ्यां साक्षीकृतो नृपेण तयोन्यायान्वेषणे साक्ष्याकारणे त्वत्सुतो मद्धित्तं साक्ष्यं यदि न वक्ष्यति, तदा तवानर्थो भावीति द्वाभ्यां भापितो धनोऽत्याकुलः स्वसुतं पहिलं कुर्विति बुद्धिं बुद्धिदात्कोव्या लात्वा सुखी जज्ञे " इति बुद्धौ कथा । करकर्मा वाणिज्यादिकृत, पादकर्मा दूतादिः, शिरःकर्मा भारवाहकादिः ५ । सेवा नृपतिनियोगिमहेभ्येतरसेवाभेदाच्चतुर्भेदा । नृपादिसेवा च नित्यपारवश्यादिना येन तेन दुःसाधा । यतः-“ मौनान्मुकः । प्रवचनपटुातिको जल्पको वा धृष्टः पार्थे भवति च तथा दूरतश्चाप्रगल्भः । क्षान्त्या भीर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १ ॥ प्रणमत्युग्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूर्खः सेवकादन्यः ॥२॥ सेवा श्ववृत्तिर्यैरुक्ता न तैः सम्यगुदाहृतम् । श्वानः कुर्वन्ति पुच्छेन चाटु मूधा तु सेवकाः ॥ ३ ॥" एवं सत्यप्यन्यनिर्वाहोपायाभावे सेवय निर्वाहं करोति । यतः-"धणवं वाणिज्जेणं, थोवधणो करिसणेण निव्वहइ । सेवावित्तीइ पुणो, तुट्टे सयलंमि ववसाए ॥१॥" विज्ञत्वकृतज्ञत्वादिगुणवांश्च सेवाहः । उक्तं हि-"अकर्णदुर्बलः शूरः कृतज्ञः सात्विको गुणी । वदान्यो गुणरागी च'प्रभुः पुण्यैरवाप्यते ॥ १ ॥ क्रूरं व्यसनिनं 'लुब्धर्मप्रगल्भं सदामयम् । मूर्खमन्यायकर्तारं नाधिपत्ये नियोजयेत् ॥२॥ 66 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy