________________
अविवेकिनि भूपाले करोत्याशा समृद्धये । योजनानां शतं गन्तुं करोत्याशा स मृद्धये ॥३॥" कामन्दकीये नीतिसारेऽपि,-" वृद्धोपसेवी नृपतिः सतां भवति संमतः । प्रेर्यमाणोऽप्यसद्वृत्तै कार्येषु प्रवर्त्तते ॥१॥" स्वामिना च सेवकानुरूपं सन्मानादि कार्य । यतः-"निर्विशेषं यदा राजा समं भृत्येषु 'वत्तेते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥१॥" सेवकेनापि भक्तिचातुर्यादिगुणयुजा भाव्यं । यतः-"अमाझेन च 'कातरेण च गुणः स्यात्सानुरागेण कः? प्रज्ञाविक्रमशालिनोऽपि हि भवेतिक भक्तिहीनात्फलम् । प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे संपत्सु चौपत्सु च ।। १ ।। राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति । ते तु सन्मानितास्तस्य'प्राणैरप्युपकुर्वते ॥२॥" सेवां च सततमप्रमत्तः कुयोत । तदाह-"सोन्'व्याघ्रान् गजान सिंहान् दृष्ट्वोपायैवेशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम ॥१॥" तद्विधिश्च नीतिशास्त्रादावेवं-"आसीत 'स्वामिनः पार्थे तन्मुखेक्षीकृताञ्जलिः । स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ॥१॥ नात्यासन्नो' न दूरस्थो न समोच्चासनस्थितः । न पुरस्थो न पृष्ठस्थस्तिष्ठेत्सदसि न प्रभोः॥२॥ आसन्ने स्यात्पभोर्बाधा दूरस्थेऽप्यप्रगल्भता । पुरस्थितेऽन्यकोपोऽपि तस्मिन् पश्चाददर्शनम् ॥३।। श्रान्तं 'बुभुक्षितं क्रुदं व्याकुलं शयनोन्मुखम् । पिपासुमन्यविज्ञप्तं नैव विज्ञापयेद्विभुम् ॥४॥राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे वर्तितव्यं महीशवत् ॥५॥ आदौ मयैवयिर्मदीपि नूनं न तद्दहेन्मामवहीलितोऽपि । इति भ्रमार्दङ्गलिपर्वणाऽपि स्पृश्येत नो 'दीप इविनीपः॥६॥" राज्ञो मान्यत्वेऽपि गर्वः सर्वथा न कार्यो, 'गव्यो मूलं विणासस्स' इत्युक्तेः । श्रूयतेऽपि दिल्या मान्यप्रधानेन
मृण्मये अश्वे। गर्वितेन · मयैव राज्यं निवईति ' इति कस्याप्यग्रे उक्तं श्रुत्वा 'सुरत्राणस्तं 'निष्कास्यासन्नं चर्मकारं रांपैडीहस्तं तत्पदे न्यवीविशन, तस्य लेखादौ रांपड्येवाभिज्ञानं । तदन्वयोऽद्यापि मान्योऽस्ति । एवं सेवया च नृपत्यादिप्रसत्तिसंभवे ऐश्वर्यादिलाभोऽपि न दुःसंभवः । यदूचे-" इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो नन्ति दरिद्रताम् ।। १ ।। निन्दन्तु 'मानिनः सेवा राजादीनां सुखैषिणः । स्वजनास्वजनोद्धारसंहारौ न तया विना ॥२॥" कुमारपालनृपो नष्ठचर्यायां सम्यक्सेवातुष्टो वोसिरिविप्राय लाटदेशं ददौ । जितशत्रुनृपो यामिकाय राजपुत्रदेवराजाय सर्पोपद्रवटालनतुष्टः स्वराज्यं दत्वा प्रव्रज्य सिद्धः । मन्त्रिवेष्ठिसेनान्यादिव्यापारश्च सर्वोऽपि नृपसेवायामन्तर्भवति, स च पापमयत्वात्। पर्यन्तविरसत्वाच्च मुख्यवृत्त्या श्रावकेण वर्जनीयः । वदन्ति च-" नियोगे'यत्र यो मुक्तस्तत्र'स्तेयं करोति सः। किं नाम रजकः क्रीत्वा वासांसि परिधास्यति ॥ १॥ अधिकाधयोऽधिकाराः 'कारा एवाग्रतः प्रवर्त्तन्ते । प्रथमं न बन्धनं । तदनुबन्धनं नृपनियोगजुषाम् ॥२॥" सर्वप्रकारं च नृपव्यापारं त्यक्तुमशक्तोऽपि गुप्तिपालकोट्टपालसीमपालादिव्यापारमत्यन्तपापमयं निस्त्रिंशजनोचितमास्तिकस्त्यजेदेव । यदुक्तं-“गोदेवकरणारक्षतलावर्तकपट्टकाः । ग्रामोत्तरश्च न प्रायः ॥१॥" शेषमपि व्यापारं यदि स्वीकुर्यात्तदा मन्त्रिवस्तुपालसाधुश्रीपृथ्वीधरादिवत्सुकृतकीर्येकमयं कुर्यात् । यद्वदन्ति-" नृपव्यापारपापेभ्यः' स्वीकृतं सुकृतं न यैः । तान् धूलिधावकेभ्योऽपि' मन्ये ' मूढतरानरान् ॥ १॥ प्रभोः प्रसादे प्राज्येऽपि प्रकृती व कोपयेत् । व्यापारितश्च कार्येषु याचेताध्यक्षपूरुषम् ॥२॥" एवं विधिनापि संभवे सेवा सुश्रावकस्यैव नृपादेरुचिता । यतः-" सावयघरंमि वर हुज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई, मा राया चक्कवट्टी वि ॥१॥" जात्वन्यथा निर्वाहाभावे सम्यक्त्वप्रतिपत्तौ 'वित्तीकंतारेणं' इत्याकारकरणान्मिथ्यादृशोऽपि यदि सेवां कुर्यात्तदापि यथाशक्तियक्तिस्वधर्मबाधा टालयति । अन्यप्रकारेण स्वल्पेऽपि निर्वाहयोगे तु तत्सेवामपि त्यजति ६। भिक्षा धातुधान्यवसनादिभैक्ष्यभेदादनेकभेदा । तत्र च धर्मोपष्ठम्भमात्रहेतुराहारवस्त्रपात्रादिभिक्षासर्वसङ्गपरित्यागवतामौचितीमञ्चति । यदुच्यते" प्रतिदिनमयत्नलभ्ये ! भिक्षुकजनजननि ! साधुकल्पलते ! । नृपनमनि ! नरकवारिणि ! भगवति ! भिक्षे! नमस्तुभ्यम् ॥१॥" शेषभिक्षा तु न्यक्षाप्यत्यन्तलाघवहेतुरेव । वदन्ति च-" ता रूवं ताव गुणा, लज्जा सच्चं कुलक्कमो ताव । तावच्चिअ अभिमाणं, देहि त्ति न 'जंपए 'जाव ॥१॥ तृणं लघु तृणात्तूलं तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥ २॥ रोगी चिरप्रवासी परान्नभोजी 'परावसथशायी। यजीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥३॥" भिक्षाभोजिनश्च निश्चिन्ततया बहशनालस्यनिद्रादिनाचुर्यसंभवेनाकिञ्चित्करत्वं नामुलभं । श्रूयते हि कस्यचित्कपालिनो भिक्षाकपरे तैलिकदृषभेण मुखे प्रक्षिप्ते बहुहाहारवादिपूर्व कपालिनोक्तं, " मम पुनर्भूयस्यपि भिक्षा भवित्री परमेष वृषभो भिक्षाभाजनमुखप्रक्षेपात् मा भवतामकिश्चित्करोऽभूत्, इति बहु दूनोऽस्मीति ।" उक्तं च भिक्षात्रैविध्यं श्रीहरिभद्रमूरिभिः पञ्चमाष्टके,-"सर्वसंपत्करी चैषा पौरुषत्री तथापरा । वृत्तिभिक्षा च तत्वज्ञैरिति भिक्षा त्रिधोदिता ॥१॥ यतिानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदाऽनारंभिणस्तस्य सर्वसंपत्करी मता ॥२॥ प्रव्रज्या प्रतिपनो यस्तद्विरोधेन वर्तते। असदारंभिणस्तस्य पौरुषघ्नी च कीर्तिता ॥३॥" अत्र तस्येति विशेष्यं, असदारंभिण इति विशेषणं । यद्वा चस्य गम्यत्वात्तस्य प्रव्रज्याविरोधवर्तिनः प्रव्रजितस्य असदारांभिणो गृहस्थस्य च-"धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात्पीनाङ्गः पौरुषं हन्ति
श्रीश्राद्धविधिप्रकरणम्
67