SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ततो मृत्वा तौ तद्दष्कर्मणा प्रथमं नरकं गतौ । यदुक्तं वेदान्तेऽपि-" प्रभास्वे मा मतिं कुर्यात्माणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति ।। १ ।। प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत ॥२॥" प्रभास्वं साधारणद्रव्यमित्यर्थः । नरकोध्धृतौ च तो जातौ सरीसृपौ । ततो द्वितीयप्रथिव्यां नारको । ततो गृध्रौ । ततस्तृतीयपृथिव्यां एवं एकद्व्यादिभवान्तरितो सप्तसु पृथ्वीषु एकद्वित्रिचतुःपञ्चेन्द्रियतिया च द्वादशसहस्रभवेषु स्तरदुःखमनुभूय बहुक्षीणतदृदुष्कर्माणौ युवां जातौ । द्वयोरपि द्वादशद्रम्मोपभोगाद् द्वादशसहस्रभवेषु तादृग् दुःखमस्मिन् भवेऽपि द्वादशकोटिनिर्गमनं द्वादश वारान् बहूपक्रमेऽपि धनलाभधनहानिपरगृहदास्यदुःखादि जातं । कर्मसारस्य च तदज्ञानद्रव्योपजीवनादपि निष्पज्ञत्वनिर्बुद्भित्वाद्याधिकं । इति श्रुत्वाद्वाभ्यां श्राद्धधर्म प्रपद्य प्रायश्चित्तपदे द्वादश द्रम्माः सहस्रगुणा ज्ञानसाधारणयोरुत्पन्न एवार्पणीया इति नियमो जगृहे । ततो द्वयोरपि पाकर्मक्षयानोत्पत्तिभवनेन सहस्रगुणतदर्पणेन च क्रमाद द्वादशकनककोटयोऽभूवन् । ततो महेभ्यसुश्रावकतया सम्यग् ज्ञानसाधारणद्रव्यरक्षातदुत्सर्पणादिना श्राद्धधर्ममाराध्य प्रव्रज्य च सिद्धौ ।" इति ज्ञानसाधारणद्रव्योपरि कर्मसारपुण्यसारकथानकम् ।।" ज्ञानद्रव्यं हि देवद्रव्यवन कल्पते एव श्राद्धानां । साधारणमपि द्रव्यं संघदत्तमेव कल्पते व्यापारयितुं नत्वन्यथा । संघेनापि सप्तक्षेत्रीकार्य एव व्यापार्यं न मार्गणादिभ्यो देयं । सांपतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिना साधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते । शालादिकार्ये तु तद व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादि साध्वाधर्पितं श्राद्धन स्वकार्ये न व्यापार्य । स्वपुस्तिकायामपि न स्थाप्य समधिकनिष्क्रयं विना। साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् । स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थ गुरुभिर्विह्रियते, तेन गुर्वर्पिततद्ग्रहणव्यवहारो दृश्यते । गुर्वादेशं विना च साधुसाध्वीनां लेखकपाल्लेखनं वस्त्रसूत्रादिविहरणमपि न कल्पते इत्याद्यपि चिन्त्यं । तदेवं स्वल्पोपजीवनमात्रेऽपि मात्राधिकं दारुणविपाकं विज्ञाय विवेकिभिर्देवज्ञानसाधारणद्रव्याणां स्वल्पोऽप्युपभोगः सर्वथापि परिहार्यः । अत एव मालोदघट्टनपरिधापनिकामोचनन्युछनकरणादावपि तदैव द्रव्यार्पणं युक्तं । तथासंभवाभावेऽपि यथा यथा शीघ्रमर्पयति, तथा तथाऽधिक गुणो, विलम्बकरणे हि जातु दुर्दैवात्सर्वस्वहानिमत्यादिसंभवे दुर्गत्यादि दुर्वारं सुश्राद्धस्यापि । श्रूयते हि महापुरे पुरे महेभ्यः श्रेष्ठी ऋषभदत्तः परमाईतः। पर्वाण चैत्ये गतः । पार्चे द्रव्याभावादुद्धारके परिधापनिकार्पणं प्रतिपेदे । सद्यश्च तेनान्यान्यकार्यव्यग्रेण सा ना र्पिता । अन्यदा दुर्दैवात्तद् गृहे धाटी प्रविष्टा । सर्वस्वं लुण्टितं । श्रेष्ठी शस्त्रहस्तो भीतर्खण्टाकैः शस्त्रघातहतो मृत्वा तत्रैव पुरे निर्दयदरिद्रकृपणमहिषवाहकगृहे महिषो जातो निरन्तरं निरादिभारं प्रतिगृहं वहति । तच्च पुरमुचैस्तरं नदीनीरं च नीचस्तरं तेनोच्चैस्तरभूचटनाहोरात्रभारवहनबहुक्षनिरन्तरनिर्दयनाडीघातादिभिर्महाव्यथाश्चिरं सेहे । सोऽन्येधुर्नव्यनिष्पद्यमानच्चत्यजगतीकृते जलं वहंश्चैत्यार्चादि दृष्ट्वा जातजातिस्मृतिश्चैत्यं कथमप्यमुश्चन् ज्ञानिवचसा प्राग्भवपुत्रैद्रव्यं दत्वा महिषवाहकान्मोचितः । प्रागभवोक्तं देवदेयं सहस्रगुणं प्रदायानृणीकृतोऽनशनेन स्वर्गतः क्रमान्मोक्षं च । इति देयार्पणेविलम्बकरणे दृष्टान्तः । तस्माद्देवज्ञानादेर्देयं क्षणमपि न स्थाप्यं । अन्यस्यापि हि देयस्य प्रदाने विवकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः। यदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं । तच्च कथमुपभुज्यते । कथं वा तल्लाभादि गृह्यते ? । पूर्वोक्तदेवादिद्रव्योपभोगदोपप्रसंगात् । तस्मात्सद्य एव तदर्पणीयं । यस्तु सद्योऽपयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमय मार्गणादि विनापि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतयातचिन्ताकारकैः स्वद्रव्यवदेवादिद्रव्येऽपि कार्या, अन्यथा बहुविलम्बे दुर्भिक्षदेशभङ्गदौःस्थ्याद्यापातस्यापि सभ्मवादहूपक्रमेऽपि तदसिद्धेः । तथा च महादोषः-" यथा-महेन्द्रपुरेऽईच्चैत्ये चन्दनभोगपुष्पाक्षतफलनैवेद्यदीपलकोशपूजोपस्करतत्समारचनचैत्यसमारचनचैत्यद्रव्योदग्राहणिकातल्लेख्यकसुयत्नतत्स्थापनतदायव्ययादिचिन्तायां पृथक् पृथक् चिन्ताक रिः प्रत्येकं चत्वारश्चत्वारः श्रीसङ्घन नियोजिताः सम्यक् चिन्तां कुर्वन्ति । अन्यदा मुख्याश्चिन्ताकृदुद्ग्राहणिकाकरणादौ यत्तद्वचनश्रवणादिना दूनस्तञ्चिन्तायां शिथिलीभूतः । 'मुख्यानुयायिनो व्यवहाराः' इत्यन्येऽपि शिथिलीभूताः। तावता देशभङ्गादिना बहु देवद्रव्यं विनष्टं । तत्कर्मणा सोऽसंख्यभवान् भ्रान्तः । इति चिंताशैथिल्ये ज्ञातम् । तथा देवादिदेयं सम्यगेवार्य नतु घृष्टकूटनाणकादिना, यथा कथश्चित् देवद्रव्योपभोगदोषापत्तेः । तथा देवज्ञानसाधारणसंबन्धिगृहादृक्षेत्रवाटिकापापाणेष्टकाकाष्ठवंशकवेल्लुकमृत्सुधादिकं श्रीखण्डकेसरभोगपुष्पादिकं पिङ्गानिकाचङ्गेरीधूपपात्रकलशवासकुंपिकादिकं श्रीकरीचमरचन्द्रोदयझल्लरीभर्यादिवाद्यसाबाणसिरावकजवनिकाकम्बलकटकपाटपट्टपट्टिकाकुण्डिकाकुम्भउरसकज्जलजलप्रदीपादिक चैत्यशालापणालाद्यागतजलाद्यपि च स्वकार्ये किमपि न व्यापार्य, देवद्रव्यवत्तदुपभोगस्यापि दुष्टत्वात् । चमरसावादीनां मलिनीभवनत्रुटनपाटनादिसंभवेत्वधिकदोषोऽपि । आह च-" विधाय दीपं देवानां पुरस्तेन पुनर्नहि । गृहकार्याणि कार्याणि तिर्यपि भवेद्यतः ॥ १॥" इन्द्रपुरे देवसेनो व्यवहारी । तस्य धनसेन औष्ट्रिकः सेवकः । तस्य गृहानित्यमेका उष्ट्रिका देवसेनगृहे समेति । कुट्टयित्वा धनसेनेन गृहे नीतापि पुनर्देवसेनगृह एव यात्वा तिष्ठति । इभ्येन मूल्येन गृहीत्वा स्थापिता । 60 श्रीश्राद्धविधिप्रकरणम
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy