SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ नकपिच्छानि त्वया ग्राह्याणि " । हृष्टन तनापि कियन्त्यपि गलितानि सायं गृहीतानि एवं प्रत्यहं ग्रहणान्नवशती पिच्छानां प्राप्ता, शतमेकं शेषं तिष्ठति । अथ दुष्कर्मप्रेरितेन तेन चिन्तितं - " एतद्ग्रहणायाद्यापि कियच्चिरमत्रारण्ये स्थातव्यं, तद्वरमेकमुष्टयैव सर्वाण्यपि गृह्णामि " इति तद्दिने नृत्यन्मयूरस्य तान्येकमुष्ट्यैव गृहीतुं यावत्मवृत्तः तावत्केकी काकरूपः सन्नुड्डीय गतः । पूर्वगृहीतपिच्छान्यपि नष्टानि । यतः -“दैवमुल्लंघ्य यत्कार्यं क्रियते फलवन्न तत् । सर्वेऽभश्चातकेनात्तं गलरन्ध्रेण गच्छति १ ॥ " ततो धिग् मया मुधैवौत्सुक्यं कृतमिति विषण्ण इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नत्वा च स्वमाक् कर्मस्वरूपं पप्रच्छ । तेनाप्युक्तं यथानुभूतं प्राग्भवस्वरूपं वक्त्या । ततस्तद्देवद्रव्योपजीवनप्रायश्चित्तं ययाचे । मुनिनाप्युक्तं समधिकतावद्देवद्रव्यप्रदानतद्द्रव्यरक्षावृद्ध्यादिना तद्दुष्कर्मप्रतीकारः, सर्वाङ्गीणभोगार्द्धसुखलाभश्च स्यात् । ततस्तेन सहस्रगुणदेवद्रव्यप्रदानविधिवस्त्रहारादिनिर्वाहमात्रादधिकं स्वल्पमपि द्रव्यं न संग्राह्यमिति मुनिसमक्षं नियमो जगृहे, विशुद्धश्राद्धधर्मश्च । ततो यद्यद् व्यवहरति तत्र तत्र बहु द्रव्यमर्जयति ददाति च देवस्य । एवं स्वल्पैरेव दिवसैः प्रागुपजीवितसहस्रका कणीस्थाने काकणी लक्षदशकं प्रादायि । ततो देवस्यानृणीभूतः क्रमादर्जितप्रभूततरद्रव्यः स्वपुरे प्राप्तो महेभ्यमुख्यतया राज्ञापि मान्यः । स्वयं कारितेष्वन्येषु च सर्वजैनप्रासादेषु सर्वशक्त्या सर्वाङ्गीणचिन्ताकरणपूर्वकं प्रत्यहं महापूजाप्रभावनादिविधापनसम्यग्देवद्रव्यरक्षणयथायुक्तिदृद्धिप्रापणाद्युद्भूतपुण्येन चिरसमयं सञ्चितेन जिननामकर्म बद्धवान् । अवसरे च दीक्षामाददे । तत्रापि गीतार्थी - भूतः प्रभूतयथार्हधर्मदेशनादिना देवभक्त्यतिशयेन जिनभक्तिरूपं प्रथमं स्थानकमाराध्यार्हन्नामकर्म निकाचितवान् । ततः सर्वासिद्धे देवभूयमनुभूय महाविदेहेऽद्विभूतिं भुक्त्वा सिद्धयति” ॥ इति देवद्रव्ये सागरश्रेष्ठिकथा || अथ ज्ञानसाधारणद्रव्ययोदृष्टान्तः ॥ “ भोगपुरे पुरे चतुर्विंशतिकनककोटिस्वामी धनावहश्रेष्ठी । भार्या धनवती । तयोर्यमलजातौ सुतौ कर्मसारपुण्यसारौ सौभाग्यसारौ । पित्रान्यदा ' कीदृशावेतौ भाविनौ ” १ इति नैमित्तिकः पृष्टः प्राह कर्मसारो जडप्रकृतिरतिनिष्प्रज्ञो विपरीतबुद्धितया बहुपक्रमेऽपि प्राक्तनसर्वद्रव्यनिर्गमननव्यद्रव्योपार्जनाभावादिना बहुकालं भृशं दारिद्र्यदास्यादिदुःखवान् भावी । पुण्यसारोऽपि प्राच्यसर्वद्रव्यस्य नव्योपार्जितद्रव्यस्यापि पुनः पुनर्हान्या तथैव दुःखी भावी, परं वाणिज्यादिकलाकुशलो भविता । द्वयोश्च वार्द्धके धनसौख्यसन्तत्यादिवृद्धिर्भवित्रीति । क्रमादुभावपि विज्ञोपाध्यायस्य पाठनायार्पितौ । पुण्यसारः सुखेन सर्वविद्या अधीतवान् । कर्मसारस्य तु बहूपक्रमेणाप्यक्षरमात्रमपि नायाति किं बहुना वाचनलिखनाद्यपि कर्तुं न शक्नोति, सर्वथा पशुरेवेति पाठकेनापि पाठनं मुक्तं । द्वावपि यौवनस्थौ पितृभ्यां समृद्धतया सुलभे महेभ्यकन्ये परिणायितौ सोत्सवं । ' मा मिथः कलहायिषातां ' इति द्वावपि द्वादश द्वादश कनककोटीर्दत्वा पृथक् कृतौ । पितरौ तु प्रव्रज्य स्वर्गतौ । अथ कर्मसारः स्वजनादिभिर्वार्यमाणोऽपि स्वकुबुद्ध्या तत्तद्वाणिज्यं कुरुते, यत्र यत्र अर्थहानिरेव । एवं स्वल्पैरेव दिनैनार्पिता द्वादश कोटयो निर्गमिताः । पुण्यसारस्य तु द्वादश कोटयः खात्रं दत्त्वा तस्करैर्गृहीताः । उभावपि जातौ दरिद्रौ त्यक्तौ स्वजनादिभिः । भार्ये अपि क्षुधार्दिते गते पितृगृहे । यतः - “ अलिअंपि जणो धणवंतयस्स सयणत्तणं पयासेइ । आसण्णबंधवेणवि, लज्जिज्जइ झीणविहवेण || १ || गुणवंपि निग्गुणच्चि गणिज्जए परिअणेण गयविहवो । दरकत्ताइगुणेहिं अलिएहिं विगिज्जए सधणो ॥ २ ॥” ततो निर्बुद्धिनिर्भाग्याविति लोकैर्दतापमानौ लज्जमानौ तौ गतौ देशान्तरं । स्थित पृथक् पृथक् कापि महेभ्यगृहे । अन्योपायाभावाद्भृत्यवृत्त्या यस्य च गृहे कर्मसारः स्थितः सोऽलीकव्यवहारी कृपणचेति । प्रोक्तवेतनमपि न दत्ते | अमुकदिने दास्यामीति मुहुर्मुहुस्तं वञ्चयते । इति बहुभिर्दिनैराद्येन किमपि धनं नार्जितं । द्विती तु कियदर्जितं परं तत् प्रयत्नगोपितमपि धूर्तेनापहृतं । एवमन्यान्यस्थानेषु भृत्यवृत्या धातुवादखनिवादसिद्धरसायनरोहणाद्रिगमनमंत्रसाधनरुदन्त्याद्यौषधीग्रहणादिना चैकादशवारान्महोपक्रमकरणेऽपि कुबुद्ध्यान्यान्यवैपरीत्यविधानादाद्येन कापि धनं नार्जितं, किन्तु तत्तद्दुःखान्येव सोढानि । अपरेण पुनरर्जितमपि प्रमादादिनैकादशवारान्निर्गमितं । ततोऽत्युद्विग्नौ तौ पोतमारुह्य रत्नद्वीपं गत्वा सप्रत्ययरत्नद्वीपदेव्यग्रे मृत्युमप्यङ्गीकृत्य निविष्टौ । अष्टमे उपवासे ' नास्ति युवयोर्भाग्यं ' इत्युक्तो देव्या | ततः कर्मसार उत्थितः । पुण्यसारस्य त्वेकविंशत्योपवासैर्दत्तं तया चिन्तारत्नं । कर्मसारः पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः - " मा विषीद एतच्चिन्तारत्ने तवापि चिन्तितं सेत्स्यति इति । ' अथ द्वावपि प्रीतौ निवर्त्तमानौ पोतमाख्दौ । रात्रौ च राकाशशाङ्कोदये वृद्धेनोक्तं, “ भ्रातः ! स्फुटीकुरु चिन्तारत्नं विलोक्यते तस्य चन्द्रस्य वाधिकं तेज इति ? " । लघुनापि पोततटस्थेन दुर्दैवप्रेरितेन रत्नं हस्ते नीत्वा, क्षणं रत्ने क्षणं चन्द्रे च दृष्टिं निदधता पातितं रत्नं रत्नाकरान्तर्मनोरथैः सह । ततो द्वावपि समदुःखौ स्वपुरं माप्तौ । ज्ञानिपार्श्वे स्वप्राग्भवममाष्टाम् । ज्ञानी माह – “ चन्द्रपुरे जिनदत्तजिनदासश्रेष्ठिनौ, परमाईती । अन्यदा तत्र श्रावकैर्मीलितं प्रभूतं ज्ञानद्रव्यं साधारणद्रव्यं च तयोः क्रमादर्पितं रक्षायै । तौ सम्यग् रक्षां कुरुतः । अन्येद्युराद्येन स्वपुस्तिकायां किञ्चिद् गाढविलोक्यमानं लेखकपार्श्वाल्लेखितं पार्श्वे चापरद्रव्याभावादिदमपि ज्ञानस्थानमेवेति, विचिन्त्य ज्ञानद्रव्याद् द्वादशद्रम्मा लेखकस्यार्पिताः । द्वितीयेन तु, साधारणद्रव्यं सप्तक्षेत्र योग्यत्वेन श्राद्धानामपि योग्यं, अहमपि श्रावक " इति विमृश्य साधारणद्रव्याद् द्वादश द्रम्मा स्वगृहगाढप्रयोजने पार्श्वेऽन्यद्रव्याभावाद् व्ययिताः । , श्रीश्राद्धविधिप्रकरणम 59
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy