SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ इति । तथा-" भरकेइ जो उविरकेइ जिणदव्वं तु सावओ। पनाहीणो भवे जो अलिप्पए पावकम्मुणा ॥३॥" पन्ना हीणत्ति'-प्रज्ञाहीनत्वमंगोद्धारदानादिना देवद्रव्यविनाशः , यद्वा प्रज्ञाहीनः स्वल्पेन बहुना वार्थेन कार्यसिद्धिमजनानो मंदमतितया यथाकथंचिद् द्रव्यव्ययकारी कूटलेख्यश्च यत्तदोर्नित्यसंबंधात् स लिप्यते । “ आयाणं जो भंजइ, पडिवन्नधणं न देइ देवस्स । नस्संतं समुविरकइ, सो विहु परिभमइ संसारे ॥ ४॥" जिणपवयणवुविकर, पभावगं नाणदंसणगुणाणं । भवंतो जिणदव्वं, अणंतसंसारिओ होइ ॥ ५ ॥” “जिणपवयणत्ति"-सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसंभवः, तत्र च पायो यतिजनसंपातः , तद् व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः, एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः । “जिणपवयणबुढिकर, पभावगं नाणदंसणगुणाणं । रकतो जिणदव्वं, परित्तसंसारिओ होइ ।।६॥ "परित्तत्ति"-परिमितभवस्थितिः । “जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । वुद्भूतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ।। ७ ।। "वुदूंतोत्ति" वृद्धिरत्र सम्यग्रक्षणापूर्वापूर्वार्थप्रक्षेपादिना अवसेया। " तित्थयत्ति " तीर्थकरत्वलाभो देवद्रव्यदृद्धिकर्तुरहत्पवचनभत्त्यतिशयात्सुप्रसिद्ध इति तद्वत्तौ। पंचदशकर्मादानकुव्यापारवर्ज, सद्व्यवहारादिविधिनैव च तद्बुद्धिः कार्या । यतः-"जिणवरआणारहियं, बद्धारंता वि कवि जिणदव्वं । बुड्डंति भवसमुद्दे, मूढा मोहेण अन्नाणी ॥" केचित्तु श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलांतरेणापि तद्वदिरुचितैवेत्याहुः । सम्यक्त्ववृत्त्यादौ संकाशकथायां तथोक्तेः । चैत्यद्रव्यभक्षणरक्षणादौ सागरशेष्ठिदृष्टांतः। स चैवम्-साकेतपुरे सागरश्रेष्ठी परमाईतः। तस्मै 'सुश्रावक ' इति कृत्वा शेषश्रावकचैत्यद्रव्यं दत्तं प्रोक्तं च, चैत्यकर्मस्थायकृतां सूत्रधारादीनां त्वया दातव्यमिति । सोऽपि लोभाभिभूतः सूत्रधारादीनां न रोक्यं द्रव्यं दत्ते, किंतु समर्याणि धान्यगुडतलघृतवस्त्रादीनि चैत्यद्रव्येण संगृह्य तेभ्यो दत्ते, लाभं च स्वयं स्थापयति । एवं रूप्यकाशीतिभागरूपाणां काकणीनामेकः सहस्रो लाभेन संगृहीतः । अर्जितं च तेनैवं कुर्वता घोरतरं दुष्कर्म । तच्चानालोच्य मृतो जलमानुषीभूयाध्यंतर्जलचरोपद्रवनिवारकांडगोलिकाग्रहणार्थ जात्यरत्नग्राहकप्रयुक्तवज्रघरट्टपीडनमहाव्यथया मृत्वा तृतीयनरके नारकोऽजनि । यदुक्तं वेदांतेऽपि-" देवद्रव्येण या वृद्धिर्गुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥१॥ नरकादुध्धृतश्च महामत्स्यः पंचधनुः शतमानो म्लेच्छकृतसागच्छेदादिमहाकदर्थनया मृतश्चतुर्थपृथिव्यां । एवमेकद्व्यादिभवांतरीतो नरकसप्तकेऽपि द्विरुत्पेदे । ततः स एकसहस्रकाकणीप्रमाणदेवद्रव्योपजीवनात्सांतरनिरंतरोत्पत्त्या सहस्रं वारान् श्वा जातः । एवं सहस्रं वारान् गोशूकरः, सहस्रं भवान् मेषः , सहस्रं भवानेडकः , सहस्रं भवान् मृगः, सहस्रं भवान् शशः, सहस्रं भवान् शंबरः, सहस्रं भवान् शृगालः, सहस्रं भवान् माजोरः, सहस्रं भवान् मृषकः, सहस्रं भवान् नकुलः, सहस्रं भवान् गृहकोलः , सहस्रं भवान् गृहगोधा, सहस्रं भवान् सर्पः, सहस्रं भवान् वृश्चिकः, सहस्रं भवान् विष्टासु कृमिः । एवं सहस्रं सहस्रं भवान् पृथिवीजलानलानिलवनस्पतिशंखशुक्तिकाजलौकाकीटिकाकीटपतंगमक्षिकाभ्रमरमत्स्यकच्छपखरमहिषवृषभकरभवेसरतुरगगजादिषु समुत्पत्त्या लक्षसंख्यभवान् भ्रांतः । प्रायः सर्वभवेषु शस्त्रघातादि( ना )महाव्ययाः सहमान एव मृतः। ततः क्षीणबहुदुष्कर्मा वसंतपुरे कोटीश्वरवसुदत्तवसुमत्योः पुत्रो जातः । गर्भस्थे एव प्रनष्टं सर्व द्रव्यं जन्मदिने जनकोऽपि विपन्नः । पंचमे वर्षे मातापि मृता । लोकैर्निष्पुण्यक इति दत्तनामा द्रमकरवृत्या वृद्धि प्राप । अन्यदा दृष्टः स्नेहलेन मातुलेन नीतश्च स्वगृहे, रात्रौ च मुषितं मातुलगृहं चौरैः । एवं यस्य वेश्मन्येकमपि दिनं वसति, तत्र चौरधाट्याग्रिगृहधनिकविपच्याद्युपद्रवः स्यात् । ततः 'कपोतपोतोऽयं ''ज्वलंती गडरिका वा' 'मृर्तिमानुत्पातो वा' इत्यादिलोकनिन्दयोद्विग्नमना गतो देशान्तरं । प्राप्तश्च ताम्रलिप्ती पुरीं । स्थितश्च विनयंधर महेभ्यगृहे भृत्यदृच्या । ज्वलितं च तद्दिने एव तद्गृहं । निष्कासितश्चालर्कशुन इव तेन स्वगृहात् ततः किंकृत्यमूढः प्राक्कृतं स्वकर्म निंदति स्म । यतः-"कम्म कुणंति सवसा, तस्सुदयंमि अ परवसा हुंति । रुकं दुरुहइ सवसो, निवडेइ परव्यसो तत्तो ॥१॥" ततः 'स्थानांतरितानि भाग्यानि ' इति विमृश्य गतः समुद्रतीरे । तद्दिन एव चटितश्च प्रवहणं । भृत्यभावेन धनावहसांयात्रिकेण साकं प्राप्तः क्षेमात्परद्वीपं । दध्यौ चैवं, " अहो उद्घटितं मम भाग्यं यन्मय्यारूढेऽपि न भग्नं यानपात्रं, यद्वा विस्मृतमिदं दुर्दैवस्य कृत्यं, संप्रति मा वलनावसरे स्मृतिविषयं यासीत् । तचिंतानुसारिणैव देवेन वलमानस्य तस्य प्रचंडदण्डमहतभाण्डमिव शतखण्डीकतः पोतः। दैवान्निःपुण्यकः फलके लग्नः । कथंचित् अब्धितीरग्रामं प्राप्तः । तद्ग्रामठक्कुरमवलगति स्म । अन्यदा धाट्या निःपातितष्ठक्कुरः। निष्पुण्यकश्च ठक्कुरसुतबुद्ध्या बाध्ध्वानीतः पल्लयां। तद्दिवस एव चान्यपल्लीपतिना विनाशिता सा पल्ली। ततस्तैरपि 'निर्भाग्य' इति निष्काशितः। यतः-"खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके, वाञ्छन् स्थानमनातपं विधिवशाद् बिल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशद्धं शिरः , पायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥१॥" एवमेकोनसहस्रान्यान्यस्थानेषु तस्करजलानलस्वचक्रपरचक्रमरकाद्यनकोपद्रवसंभवानिष्काशनादिना महादुःखं वहन्महाटव्यां सप्रत्ययसेलकयक्षमासादं प्राप्त एकाग्रतया तमाराधयामास । स्वदुःखनिवेदनपूर्व एकविंशत्योपवासैश्च तुष्टो यक्षः पाह,-" भद्र ! संध्यायां मम पुरः सुवर्णचंद्रकसहस्राङ्कितो महान् मयूरो नृत्यं करिष्यति, प्रतिदिनं पतितानि तत्क 58 श्रीश्राद्धविधिप्रकरणम्
SR No.022272
Book TitleShraddh Vidhi Prakaranam
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2000
Total Pages134
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy