________________
उवदंस निमंतण खंदार्ययणे तहा अपडिणणे । खद्धत्ति अ तत्थगैए कि तुम तज्जॉय नो सुमणे ॥ २ ॥ नोसैरसि केहछित्ता परिसंभित्ता अणुटिआइ कहे । संथारपायघट्टण चिटु चै समासणे आवि ॥ ३॥"
व्याख्या-गुरोः पुरतो गमने आशातना, यतो मार्गोपदर्शनादिकं ताकारणं विना गुरोः पुरतो गंतुं न कल्पते विनयदोषप्रसंगात् १, पार्श्वतो गंता तदाप्यविनयदोषः २, पृष्ठतोऽप्यासन गंता तदा कासितक्षुतादिषु श्लेष्माद्यवयवलगनादिदोष एवमन्यत्रापि दोषा वाच्याः ३, एवं स्थाननिषदनाभ्यामपि प्रत्येकं तिस्रस्तिस्र आशातनाः ९, आहारग्रहणादौ प्रथममाचमनं करोति १०, गमनागमनविषयं पूर्वमालोचनं ११, रात्रौ कोऽपि जागर्तीति गुरूक्ते श्रुतेऽपि निद्रादिमिषेण प्रत्युत्तरादानं १२, किंचिदालाप्यं गुरोः पूर्वमालापयति१३, आहारादिकं ( अशनादिक) प्राक साध्वंतराणामालोचयति ततो गुरोः १४, एवमुपदर्शयति १५, अशनादिभिः पूर्वमन्यानिमंत्रयति ततो गुरून् १६, “खद्धत्ति " गुरुमनापछय स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते १७, “आइअणेत्ति" गुरोर्यत् किंचिद दत्वा स्निग्धादि यथेष्ट स्वयं भुंक्ते १८, अप्रतिश्रवणं प्राग्वन्नवरं पाग रात्रौ सुप्तजागरितपृच्छाविषयमिह तु सामान्येन १९, "खद्ध त्ति अत्ति" गुरुं प्रति बहुकर्कशोच्चैः स्वरं वक्ति २०, आलापितः स्वस्थानस्थ एव प्रत्युत्तरयति २१, गुवाहूतः किमिति वक्ति २२, गुरुणा नोदितस्तज्जातेन प्रतिहंति, यथा कुतो ग्लानादेवैयावृत्यं न करोषीत्युक्तो वक्ति त्वमेव किं न करोषि २४, गुरोः कथां कथयतो न सुमनाः स्यात् किंतु विमना २५, गुरुं सूत्रादिकं वदंतमेवं वक्ति, "यथा न स्मरसि त्वमेतमर्थ न एषोऽर्थ एवं भवति"२६, गरौ कथां कथयति तां कथामाच्छिनत्ति 'यथाहं कथयामीति' २७, पर्षदं भिनत्ति यथा 'संपति भिक्षावलेत्यादिकथनेन २८, अनुत्थितायां पर्षदि गुरूतामेव कथां स्वस्य पाटवादिज्ञापनाय सविशेषं कथयति २९, शय्यासंस्तारकादि पादाभ्यां घट्टयति ३०, गुरुशय्यादौ स्थानादि करोति ३१, गुरोः सकाशादुच्चासनः ३२, एवं समासनः ३३ । आवश्यकचूादौ तु गुरौ कथां कथयति एवमेतदित्यंतराले शिष्यस्य वचनमाशातना पृथगुक्ता, गुरोः पार्थादुच्चसमासनत्वं चैकैव इति त्रयस्त्रिंशद् गुर्वाशातनाः । गुर्वाशातना चैवं विघा । गुरोः पादादिना संघट्टादौ जघन्या १, श्लेष्मनिष्टीवनलवर्पशनादौ मध्यमा २, गुर्वादेशाकरणविपरीतकरणापकर्णनपरुषभाषणादावुत्कृष्टा ३ । स्थापनाचार्याशातनापि त्रिधा । स्थापनाचार्यस्येतस्ततश्चालनपादस्पर्शादौ जघन्या, भूमिपातनावज्ञामोचनादौ मध्यमा, प्रणाशनभंगादावुत्कृष्टा । एवं ज्ञानोपकरणवत् दर्शनचारित्रोपकरणस्य रजोहरणमुखवस्त्रिकादंडकदंडिकादेरपि, ' अहवा नाणाइतिअं' इति वचनाद् गुरुस्थाने स्थाप्यत्वेनाविधिव्यापारणादधिका तदाशातनापि वा । यदुक्तं श्रीमहानिशीथे-" अविहीए निअंसणुत्तरियं रयहरणं । दंडगं वा परिभुंजे चउत्थं " इति । तेन श्राद्धैश्चरवलकमुखवत्रिकादेर्विधिनैव व्यापारणवस्थानस्थापनादिकार्य अन्यथा धर्मावज्ञादिदोषापत्तेः । एतासु चोत्सूत्रभाषणाहेगुवोद्यवज्ञादिमेहत्याशातनाऽनंतसंसारहेतुश्च । सावधाचार्यमरीचिजमालिकूलवालकादेरिव । यतः-" उस्सुत्तभासगाणं, बोहीनासो अणंतसंसारो। पाणच्चएवि धीरा, उस्मुत्तं ता न भासंति ॥ १॥ तित्थयरपवयणसुअं, आयरिशं गणहरं महिटि । आसायंतो बहुसो, अणंतसंसारिओ होइ ।। २ ॥" एवं देवज्ञानसाधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रादेर्विनाशतदुपेक्षाद्यपि महत्याशातना। " चेइअदव्वविणासे, इसिघाए पत्यणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥१॥" विनाशोत्र भक्षणोपेक्षणादिलक्षणः । श्रावकदिनकृत्यदर्शनशुध्यादावपि-" चेइअदव्वं साहारणं च जो दुहइ मोहिअमईओ । धम्मं च सो न याणइ, अहवा बदाउओ नरए ॥१॥" चैत्यद्रव्यं प्रसिद्धं, साधारणं चैत्यपुस्तकापद्गतश्रादादिसमुद्धरणयोग्यं, ऋदिमच्छ्रावकमीलितं यो द्रुह्यति विनाशयति दोन्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुक्ते इत्यर्थः । “चेइअदव्वविणासे, तहव्वविणासणे दुविहभेए । साहुउविरकमाणो, अणंतसंसारिओ भणिओ ॥ १ ॥ " 'तद्दव्वत्ति' तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि, तस्य विनाशने। योग्यातीतभावविनाश्यभेदाद् द्विविधे, तत्र योग्यं नव्यमानीतं, अतीतभावं लग्नोत्पाटितं । मूलोत्तरभेदाद वा द्विविधे, तत्र मूल स्तंभकुंभिकादि, उत्तरं तु छादनादि । स्वपक्षपरपक्षभेदावा द्विविधे, स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः, एवमनेकधा द्वैविध्यं । अत्रापिशदस्याध्याहारादास्तां श्रावकः , सर्वसावधविरतः साधुरप्यौदासीन्यं कुर्वाणोऽनंतसंसारिको भणितस्तीर्थकृदादिभिः । अथ त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामाधिकारः ? इति चेदुच्यते, यदि राजामात्याद्यभ्यर्थनपुरस्सरं गृहहनामादिकादानादिविधिना नवमुत्पादयति, तदा भवति भवद्विवक्षितार्थसिद्धिः। यदा तु केनचिद्यथाभद्रकादिना धर्माद्यर्थ माग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति तदा नाभ्युपेतार्थहानिरपि तु विशेषतः पुष्टिरेव सम्यग् जिनाज्ञाराधनात् । यथाहि-जिनभवनं नवमकारयतोऽपि पूर्वकृतं तु तत्मतिपंथिनिग्रहेणापि रक्षतो न पायश्चित्तं नापि प्रतिज्ञाभंग इति । आगमोऽप्येवमेव व्यवस्थितो। यदाह-“चोएइ चेइयाणं, खित्तहिरने अगामगोवाइ। लग्गं तस्स उ जइणो, तिगरणसोही कहं नु भवे ॥१॥ भन्नइ इत्थ विभासा, जो एयाई सयं विमग्गिज्जा । तस्स न होई सोही, अह कोई हरिज्जएयाइं ॥२॥ तत्थ करंतु उवेह, जा सा भणिआ उ तिगरणविसोही । सा य न होइ अभत्ती अर निवारिज्जा ॥ ३ ॥ सव्वत्थामेण तहिं, संघेण य होइ लग्गिअव्वं । सचरित्तऽचरित्तीण य सव्वेसि होइ कज्जं तु ॥ ४॥"
श्रीश्राद्धविधिप्रकरणम
57