Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
कृंतर्त्यपुण्यानि 'करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ॥ ४ ॥ " तथा - श्रद्धा सम्यग् धर्मेऽस्यास्तीति 'प्रज्ञाश्रद्धाद्वत्तेर्ण:' इति णप्रत्यये श्राद्धइति, श्राद्धशद्वान्वर्थोऽपि भावश्राद्धत्वापेक्ष एवेत्यत्रोक्तं भावश्राद्धेनात्राधिकार इति चतुर्थगाथार्थः ॥ ४ ॥
एवं श्राद्धस्य स्वरूपमुक्त्वा प्रागुक्ते दिनरात्र्यादि कृतषट्के प्रथमं दिनकृत्यविधिमाहनवकारेण विबुद्धो, सरेइ सो ' सकुलधम्मनियमाई ।
पडिकमिअ' सुई' पूइअ, गिहे जिणं कुणइ संवरणं ॥ ५ ॥
T
च
व्याख्या- 'नमो अरिहंताणं ' इत्यादिना विबुद्धः स श्राद्धः स्वकुलधर्मनियमादीन् स्मरेत् । अयमर्थः, श्रावण तावत् स्वल्पनिद्रेण भाव्यं पाश्चात्य रात्रौ च यामादिसमये सकाले उत्थातव्यं तथा सति यथा विलोक्यमानैहलौकिकपारलौकिक कार्यसिद्ध्यादयोऽनेकगुणा अन्यथा तत्सीदनादयो दोषाः । लोकेऽप्युक्तं - “ कम्मीणां धणसंपडइ, धम्मीणां परलोअजिहिं । सुत्तां रविउग्गमइ, तिहिं नरआओ न ओय ॥ १ ॥ " निद्रापारवश्यादिना यदि तथोत्थातुं न शक्नोति । तदा पंचदशमुहूर्त्ता रजनी तस्यां जघन्यतोऽपि चतुर्दशे ब्राह्मे मुहूर्ते उत्तिष्ठेत्, द्रव्याद्युपयोगं करोति । द्रव्यतः कोऽहं श्राद्धोऽन्यो वा, क्षेत्रतः किं स्वगृहेऽन्यत्र वा उपरितलेऽधस्तले वा, कालतो रात्रिर्दिनं वा, भावतः कायिष्यादिना पीडितोऽहं न वा, एवमुपयोगे दत्ते निद्रानुपरमे नासानिःश्वासं निरुणद्धि । ततो suनिद्रः सन् द्वारं दृष्ट्वा कायिक्यादि चिंतां करोति । उक्तं च साधुमाश्रित्यौघनिर्युक्तौ – “ दव्वाईउन ओगं ऊसासनिरंभणा - लोअंति ” रात्रौ च यदि किंचित् कार्यान्यस्मै ज्ञापयति तदा मंदस्वरादिनैव, उच्चैः स्वरं तु शब्दकासितखुंकारहुंकाराद्यपि न कुर्यात्, रात्रौ तत्करणे' जागरितैर्गृहगोधादिहिंस्रजीवैर्मक्षिकोपद्रवाद्यारंभः, प्रातिवेश्मिकैर्वा स्वस्वारंभः प्रवर्त्स्न्येत पानीयाहारिकारंघनकारिकावाणिज्यकारकशोककारकपथिककर्षकारां मिकार पट्टिकघरट्टादियंत्रमवाहक शिलाकुट्टकचाक्रिकरजककुंभकारलोहकारसूत्रधारद्यूतकारशस्त्रकारमद्यकारमात्स्यिकसौनिकवागुरिकलुब्धकघात कपारदारिकतस्करावस्कंददायकादीनामपि परंपरया कुव्यापारप्रवृत्तिरिति निरर्थकमनेके दोषाः । तदुक्तं श्री भगवत्यंगे – “ जागरिआ धम्मणं, अहम्मीणं तु सुत्तया सेया । वच्छाहिवभइणीए, अकहिंसु जिणो जयंतीए ॥१॥" निद्राच्छेदे च ' तज्ज्ञेन भूजलाग्निवायुव्योमसु किं तत्त्वमित्याद्यन्वेष्यं' यतः- “अंभोभूतत्वयोर्निद्राविच्छेदः शुभहेतवे । व्योमवाय्वग्नितत्वेषु स पुनर्दुःखदायकः ॥ १ ॥ वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानींदुसूर्ययोरुदयः शुभः ॥ २ ॥ शुक्लप्रतिपदो वायुश्चंद्रेऽथार्के त्र्यहं त्र्यहं । वहन् शस्तो नया वृत्त्या' विपर्यासे तु दुःखदः ॥ ३ ॥ शशांकेनोदये वायोः 'सूर्येणास्तं शुभावहम् । उदये रविणा त्वंस्य शशिनांस्तं शुभावहम्। ।। ४ ।। ” केषांचिन्मते वारक्रमेण सूर्यचंद्रोदयौ, तत्र रविभौम गुरुशनिषु सूर्योदयः सोमबुधशुक्रेषु चंद्रोदयः । केषांचित् संक्रांतिक्रमाद्यथा ‘मेसविसे रविचंदा' इत्यादि । केषांचिचंद्रराशिपरावर्त्तक्रमेण - “सार्द्ध घटी द्वयं नाडिरेकैकांकदयाद्वहेत् । अरघट्टभ्रांतिया पुनः पुनः ॥ ५ ॥ षत्रिंशद्गुरुवर्णानां या वेला भणने भवेत् । सा वेळा मरुतो नाड्या नाड्यां संचरतो ळगेत् ।। ६ ।। पंचतत्वानि चैवं - " ऊर्ध्वं वह्निरधस्तोयं तिरश्चीनः समीरणः । भूमिर्मध्यपुटे व्योम सर्वगं वहते पुनः ॥ ७ ।। वायोर्वह्नेरपां पृथ्व्या व्योम्नस्तत्वं 'वहेत्' क्रमात् । वत्योरुभयोर्नाड्योर्ज्ञातव्योऽयं क्रमः सदा ॥ ८ ॥ पृथ्व्याः पकानि पंचाशंच्चत्वारिंशत्तथांभसः । अग्नेस्त्रिंशत्पुनर्वायोविंशतिर्नभसो दश ।। ९ ।। तत्वभ्यां ' भूजलाभ्यां स्याच्छति कार्ये फळो - तिः । दीप्ता स्थिरादिके कृत्ये 'तेजोवाय्बंबरैः शुभम् ॥ १० ॥ जीवितव्ये' जये ' लाभे सस्योत्पत्तौ च वर्षणे । पुत्रार्थे युद्धप्रश्ने च गमनागमने तथा ॥ ११ ॥ पृथ्व्यप्तत्त्वे शुभे स्यातां वह्निवातौ च नो शुभौ । अर्थसिद्धिः स्थिरोर्व्यां तु शीघ्रमंभास निर्दिशेद् ।। १२ ।। युग्मम् ।। पूजाद्रव्यर्जनोद्वाहे दुर्गादिसरिदाक्रमे । गमागमे जीविते च गृहे' क्षेत्रादिसंग्रहे ॥ १३ ॥ क्रयविक्रयणे' दृष्टौ ' सेवा कृषिद्विषज्जये । विद्यापट्टाभिषेकादौ शुभेऽर्थे च शुभः शशी || १४ || युग्मम् ॥ प्रश्ने प्रारंभणे वापि कार्याणां वामनासिका । पूर्णा वायोः प्रवेशत्तदा सिद्धिरसंशयम् ॥ १५ ॥ बद्धानां रोगितानां च प्रभ्रष्टानां निजात्पदात् । प्रभे युद्धविधौ वैरिसंगमे सहसा भये ॥ १६ ॥ स्नाने पानेऽशमे' नष्टान्वेषे पुत्रार्थमैथुने । विवादे दारुणार्थे च सूर्यनाडिः प्रशस्यते ॥ १७ ॥ युग्मम् ॥ कचित्त्वेवम्–“ विद्यारंभे च ' दीक्षायां शस्त्राभ्यासविवादयोः । राजदर्शनगीतादौ मंत्रयंत्रादिसाधने ॥ १८ ॥ सूर्यनाडी शुभा ।" दक्षिणे' यदि वा वामे यत्र वायुर्निरंतरम् । तं पादमैग्रतः कृत्वा निस्सरेत्' निजमंदिरात् ।। १९ ।। अधमर्णारिचौराद्या षिग्रहोत्पातिनोऽपि च । शून्यांगे स्वस्य कर्त्तव्याः सुखलाभजयार्थिभिः || २० || स्वजनस्वामिगुर्वाद्या' ये चान्ये हितचिंतकाः । जीबांगे' ते 'धुवं' कार्याः कार्यसिद्धिर्मभीप्सुभिः ॥ २१ ॥ प्रविशत्पवनापूर्णनासिकापक्षमाश्रितम् । पादं शय्योत्थितो दद्यात्प्रथमं पृथिवीतले ।। २२ ।।” एवं विधिना त्यक्तनिद्रः श्रावक 'आत्यंतिक बहुमानपरममंगलार्थ नमस्कारं स्मरेंदैव्यक्तवर्ण यदाह – “ परमिद्विचिंतणं माणसंमि सिज्जागरण कायव्वं । सुत्तोऽविणयपवित्ती निवारिआ होइ एवं तु ॥ १ ॥ " अन्ये तु न
"
श्रीश्राद्धविधिप्रकरणम्
31

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134